________________
श्रीजेसलमेरुदुर्गस्थ
[ क्र. २३६अवनितलमिदं हि यावदासप्तलोकं........... निपुणमतिभिरेतत् पुस्तकं वाच्यमानं विमलगुणनिधानं नन्दतात् तावदेव ॥३४॥
॥मङ्गलं महाश्रीः ॥छ॥छ। गृहिणी पार्श्वदत्तस्य लक्ष्मीर्लक्ष्मीरिवापरा । प्रथमः सूमकः पुत्रो यशश्चन्द्रो द्वितीयकः ॥१॥
यशोवीरस्तृतीयस्तु वर्द्धमानश्चतुर्थकः । पञ्चमाम्रकुमाराख्यो आम्रवृक्ष इवोत्तमः ॥२॥ प्रथमं सूमशाखायाम्
सूमाकस्य हि भार्याऽभूत् साईनाम्नेति विश्रुता। पुत्रः षयराऽभिधस्ताभ्यां पत्नी सावित्री तस्य हि ॥३॥ तयोः पुत्राश्च चत्वारः पुरुषार्था इव क्षितौ । नायकः व्यवहारी तु द्वितीयस्त्वीश्वराभिधः ॥४॥ तृतीयो लाखणश्रेष्ठी बहुदेवो बहुदायकः । नायकेन सुतो जज्ञे खेतसिंहोऽभिधानतः ॥५॥ बहुदेवस्य भार्याऽभूत् श्रियादेवीति विश्रता। द्वौ पुत्रौ तु तयोर्जातौ सहदेवाऽऽसाख्यसंज्ञकौ ॥ ६॥ पार्श्वदत्तस्य पुत्रोऽभूत् यशश्चन्द्रो द्वितीयकः । तस्य पुत्रद्वयं जातं पवित्रं पुण्यकारकम् ॥ ७॥ यशोधवलस्तु प्रथमः स्वकीर्त्या धवलितक्षितिः। द्वितीयो वयरसिंहाख्यः सिंहः सर्वेषु कर्मसु ॥ ८ ॥ यशोधवलस्य सद्भार्या मोषू मोक्षाभिलाषिणी। पवित्रा पञ्चपुत्रास्तु तयोः पञ्चाननोपमाः ॥९॥ ऊदलः प्रथमः श्रेष्ठी पुण्यकर्मरतः सदा । प्रह्लादनः द्वितीयस्तु विश्वस्याह्लादकारकः ॥ १०॥ जगत्सिहस्तृतीयस्तु श्रेष्ठी रत्नश्चतुर्थकः । पुण्याख्यः पञ्चमो जज्ञे पुण्यपूरितमानसः ॥११॥ ऊदलस्य हि भार्याऽभूद् रुक्मिणी रूपशोभिता । प्रह्लादनस्य सत्पत्नी हंसला हंसगामिनी ॥ १२॥ जयतसिंहस्तयोः पुत्रः प्रथमः पृथिवीतले । द्वितीयो विजयसिंहस्तु देदाख्यस्तु तृतीयकः ॥ १३ ॥ विजयसिंहस्य सद्भार्या राणी शीलसमन्विता । तया पुत्रत्रयी जज्ञे रत्नत्रयविभूषिता ॥ १४ ॥ प्रथमः खीमसिंहाख्यः खेतलस्तु द्वितीयकः । तृतीयो वीरमश्रेष्ठी शिष्टः सर्वेषु कर्मसु ॥१५॥ श्रेष्ठिनो जगसिंहस्य भार्या वयजलदेविका। सप्त पुत्रास्तयोः जाताः सप्तऋक्षोपमा भुवि ॥१६॥ धांधाख्यः प्रथमो जज्ञे भार्या तस्य हि माणिकिः । पुत्रस्तु देवसिंहाख्यः देवार्चनरतः सदा ॥ १७ ॥ द्वितीयः वीरधवलश्च भार्या सहिजलाऽभिधा । आसकाख्यस्तृतीयस्तु चतुर्थो मदनाभिधः ॥ १८॥ पञ्चमो भीमसंज्ञस्तु निर्भयः सर्वकर्मसु । पुत्रस्तु मूलकः श्रेष्ठी धनसिंहस्तु सप्तमः ॥ १९ ॥ रतस्य श्रेटिनो भार्या रत्नादेवीति विश्रुता । तयोः पुत्राश्च चत्वारः ज्येष्ठो साहणसंज्ञकः ।। २० ।।
द्वितीयः सीहडश्चाऽभूत् साङ्गणश्च तृतीयकः । चतुर्थः पासडाख्यस्तु स प्राप्तः परलोकताम् ॥२१॥ अथ
वैरिसिंहस्य भार्याऽभूत् ललतू लावण्यपूरिता । षट् पुत्राश्च तयोर्जाता षडदर्शनपूजकाः ॥२२॥ प्रथमो वयजलः श्रेष्ठी अरसिंहो द्वितीयकः । तृतीयो लूणकाख्यस्तु आमसिंहश्चतुर्थकः ॥२३॥ तिहुणाख्यः पञ्चमो जज्ञे षष्ठो वालाकनामतः । वयजलस्य हि भार्याऽभूत् पद्मला पद्मिनीसमा ॥२४॥ पञ्च पुत्रास्तयोर्जाताः पञ्चाननपराक्रमाः । झांझणः षीमसंज्ञस्तु अजेसीहस्तृतीयकः ॥ २५॥ साहडश्च चतुर्थोऽभूत् पञ्चमो मोक्षनामतः । अरसिंहस्य शाखायां रम्यो रामाभिधः सुतः ॥२६॥ लूणकस्य हि भार्याऽभूत् जासला जिनपूजिका। पुत्रः प्रतापसिंहाख्यः सामन्ताख्यो द्वितीयकः ॥२७॥ तिहुणाकस्य हि भार्या लक्ष्मीर्लक्ष्मीरिवाऽपरा । पुत्रस्तु मण्डलीकाख्यः पद्मनामा द्वितीयकः ॥२८॥ त्रीकमश्च तृतीयोऽभूद् अभयसिंहश्चतुर्थकः। पील्हाकस्य हि भार्याऽभूत् तिहणदेवीति विश्रुता ॥२९॥ तयोः पुत्रः पवित्रोऽभूत् भीमो भीमपराक्रमः ।....
.........[ अग्रे अपूर्णा ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org