SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ क्र. २३६ ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र सोहिणिर्नामतः ख्याता भार्या तस्य वरानना। तयोः पुत्रास्त्रयो जाता दातारो लोकवल्लभाः ॥५॥ प्रथम आमणागाख्यो द्वितीयो बाहडस्तथा। तृतीय आम्रदत्ताइवस्ततः पुत्र्यौ सुलोचने ॥६॥ प्रथमा मुजला नाम्ना सीतासंज्ञा द्वितीयका। तत्राऽऽम्रदत्तसत्पत्नी सुधवा नाम विश्रुता ॥७॥ त्रयः पुत्राः समुद्भूताः सजनानन्ददायकाः। ताभ्यां धर्मार्थकामानां प्रत्यक्षा इव मूर्तयः ॥८॥ अग्रज आसदेवाख्यः सर्वदेवो द्वितीयकः। पार्श्वदत्तस्तृतीयश्च तेषां भग्न्यः शुभाशयाः ॥९॥ प्रथमा केलिका नाम्ना द्वितीया च सलक्षणा। सरस्वती तृतीया च आमीसंज्ञा चतुर्थिका ॥१०॥ कलत्रमासदेवस्य पद्मी सुकुलसम्भवा। सर्वदेवस्य सद्भार्या रली रमणभूषिता ॥११॥ सा पुनः श्रेष्ठिनः पुत्री सिद्धस्य क्षमया युता। राजुकया धृता कुक्षौ विज्ञातव्या पितुगृहे ॥१२॥ श्रियादेव्यभिधानेन केतकीव विराजते। दधाना शीलसौरभ्यं गुणालीनां तु याऽनिशम् ॥१३॥ गृहिणी पार्श्वदत्तस्य लक्ष्मीर्लक्षणलक्षिता। सर्वदेवस्य रत्न्याश्च पुत्राः पञ्च सबुद्धयः ॥१४॥ आद्यो यशोधवलाख्यो जेसलश्च द्वितीयकः। तृतीयः साभटाख्यश्च आमेश्वरश्चतुर्थकः ॥१५॥ पञ्चमो नागदेवश्च तेषां भग्न्यः सुनिर्मलाः। चतस्रो गुणसम्पूर्णा नामतः कथ्यतेऽधुना ॥१६॥ सम्पूर्णा प्रथमा ज्ञेया चाहिणिश्च द्वितीयका। राणूस्तृतीयका जज्ञे लाखूनाम्नी चतुर्थिका ॥१७॥ केसवस्य यथाऽभीष्टा कमलेन्दुमुखी तथा । सलक्षणाऽभिधा जाता जेसलस्य प्रियाऽवरा ॥१८॥ साभडस्यापि संजज्ञे गृहिणी सज्जनिस्तथा। यशोराजाहवकः पुत्रो जेसलयाऽजनि प्रियः ॥१९॥ जेसलसाभडाह्वानौ श्रुत्वा ज्ञानस्य देशनाम् । गुरुप्ररूपितां हृद्यां ज्ञानदानं शिवप्रदम् ॥२०॥ सज्ज्ञानाज्जायते सर्वा कृत्याऽकृत्यविचारणा । तस्मात् सर्वप्रयत्नेन ज्ञाने यत्नो विधीयताम् ॥२१॥ ज्ञात्वेदमलीलिखतां सद्वर्णवरपत्रकम् । श्रेयसे मातृपित्रोस्तौ धर्मविधेः सत्पुस्तकम् ॥२२॥ उक्तं च ते धन्या धनिनस्त एव भुवने ते कीर्तिपात्रं परं, तेषां जन्म कृतार्थमर्थनिवहं ते चाऽऽवहन्त्वन्वहम् । ते जीवन्तु चिरं नराः सुचरिता जैन शुभं शासनं, ये मजद्गुरुदुःषमांबुधिपयस्यभ्युद्धरन्ति स्थिराः ॥२३॥ कि कि तैर्न कृतं न कि विढपितं दानं प्रदत्तं न कि, का वाऽऽपन्न निवारिता तनुमतां मोहार्णवे मज्जताम् । नो पुण्यं किमुपार्जितं किमु यशस्तारं न विस्तारित, सत्कच्याणकलापकारणमिदं यैः शासनं लेखितम् ॥२४॥ इतश्च चन्द्रवञ्चन्द्रगच्छोऽयं तमोभीतो गवालयः। साधूनामुदयाभीष्टोऽस्मिन् लोके विराजते ॥२५॥ सुरयो वर्द्धमानाख्या वर्द्धमाना इवाऽभवन् । गच्छे चन्द्राभिधे तस्मिन् मङ्गल्या भक्तिपूरिताः ॥२६॥ तद्विनेयो देवसूरिः संजज्ञे देवसूरिवत् । विबुधैः संस्तुतो वन्द्यो विद्यया निरवद्यया ॥२७॥ गेहं रूपस्य तच्छिष्या बभूवुखैमसूरयः। कामो दृष्ट्वाऽऽत्मसं...ग तत्याज लज्जयेव तान् ॥२८॥ नाम्ना सूरियशश्चन्द्रो जातस्तत्पभूषणः। ...... .....वैरिणम् ॥२९॥ सूरयस्तस्य चिद्रूपाः श्रीमुनिचन्द्रसंज्ञकाः। सरस्वत्या निजा विद्या मन्ये तेषां समर्पिता ॥३०॥ यतः नित्यं व्याकरणे कृतोद्यमवशाः काव्येषु शास्त्रेषु च, दक्षा छंदसि ज्योतिषे पटुधियस्त वितर्काः सदा । काव्यालङ्करणे रताश्च समये तन्नेह शास्त्रं क्षितावस्ति............मुरुधिया ज्ञातं न शम् ॥३१॥ सूरिः श्रीकमलाख्योऽलिसमस्तत्पादपद्मसेवायाम्। नो दत्ते यो वासं स्वपुरे कामादिशत्रणाम् ॥३२॥ श्रेष्ठिना पासडाख्येन श्रीधर्मविधिपुस्तकम् । स्वमातृपितृपुण्यार्थ दत्तं कमलसरये ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy