________________
४
श्रीजेसलमेरुदुर्गस्थ
[क. २३१
श्रावणरविपश्चमीदिवसे ॥११॥ॐ॥ शुभं भवतु ॥ॐ॥ वंशः प्रांशुरसौ समस्ति भुवने शाखाभिरामद्युतिः, पात्रश्रेणिफलावलीढतनुना प्राप्तप्रभावो महान् । प्रोच्चैर्भूधरराजलब्धमहिमा श्रीमल्लतावेष्टितः, प्राग्वाटः प्रथितः सदा सुकवितापात्रं पवित्रोदयः ॥१॥ तस्मिन्नस्ति समस्तविश्वविदितः सूक्तिप्रियः शरणिगो मुक्तारत्नमिवातिकोमलरुचिः श्राद्धः प्रसिद्धः सुधीः । स्वच्छत्वेन परेण यः स्वकजनेऽलंकारचूडामणित्वाप्तोऽप्युज्ज्वलतां न च प्रचकटे छिद्रावलेपं पुनः ॥२॥ ब्रह्मदेव इति नाम विश्रुतस्तस्य सूनुरभवन्निरामयः। योऽश्वसाधनविराजितो भुवि, संचचारनृपदत्तविक्रमः ॥३॥ वीतरागपदपद्मरजोभिर्यो बभार किल देहपुंशनम् । भूषणं च शिरसो गुरोर्नतिः, शीलमेव परमं तनोः सदा ॥४॥ त्यक्त्वा प्रेमपरम्पराक्रमयशःप्रज्ञाभिमानोद्धतान्. राज्ञां श्रीः पुरुषान् सदार्जवगिरा पूतं विमृश्येव यम् । चापल्येऽस्थिरतां विधाय सहसा शिधाय हृष्टा सती, स्वच्छं धर्मरतं विवेककलितं सत्त्वोपकारक्षमम् ॥५॥ यथार्थनामिका तस्य बभूव श्रीरिति प्रिया । प्रसन्नवदना वंश्या दानतोषितमार्गणा ॥ ६ ॥
गेहिण्या च तया रेजे ब्रह्मदेवोऽधिकाधिकम् । विद्युतेव नवांभोदः स्वायेव हुताशनः ॥७॥ तथा
भोगास्तुंगगिरीन्द्ररोहविषमा लक्ष्म्योऽप्यसद्यौवन, ज्ञात्वा मंटजिनेशमंदिरवरे श्रीवीरदेवगृहम् । श्रीचक्रेश्वरसूरिसद्गुरुवचः श्रुत्वा च सत्पुस्तकं, वैराग्योपनिषद् धनैः प्रमुदितौ तौ कारयामासतुः ॥ ८॥ सुतमजनिषातां तावांवसरणनामकम् । पवित्रमक्षयं वृत्तमद्वितीय कलानिधिम् ॥ ९ ॥ प्रामाध्यक्षपदं प्राप्य यः सदा नृपशासनात् । जनानुरागतामेव धत्ते विस्फारमानसः॥१०॥ सरोवरस्येव जलं फलं पुण्यतरोरिव । यस्यैश्वर्यमभूत् केषां केषां नैव विभूतये ॥११॥ यः शश्वजिनपूजने कृतमतिः प्रायस्त्रिसन्ध्यं गुरौ, शुश्रूषानिरतः परोपकृतिषु स्वाध्यायबद्धादरः । श्रीमन्मंटजिनेशितुः प्रतिपदं यात्रासु कल्याणिके, भक्त्युत्साहमनाश्चकार नितरां द्रव्यव्ययं चाधिकम् ॥१२॥ यस्योदयमती कान्ता प्रथमा वल्लभाऽभवत् । यस्यामजायत सुतः पुण्यराशिरिवांगवान् ॥१३॥ जयतक इति नाम्ना विश्रुतश्चारुमूर्ति पतिजनपदानां चेतसो वृत्तिपूत्तिः । सकलगुणसमुद्रो दिक्षु विख्यातकीतिर्जिनचरणसरोजद्वंद्वभावाद् गतात्तिः ॥१४॥ द्वितीयाऽपि द्वितीया स्याद् द्वितीयेव हि तेउका । कलामात्रोऽपि पूज्यः स्याद् जयाचंद्र इव प्रियः ॥१५॥ लक्ष्मसीह इति ख्यातः सुतः सर्वजनप्रियः । धर्मज्ञः सत्यवादी च बभूव प्रियदर्शनः ॥१६॥ अथांबशरणे स्वगै प्राप्ते स्वगृहमुत्तमम् । अवीवृधज्जयतको वित्तश इव धीधनः ॥१७॥ मायूरातपवारणः परिचलच्चचत्तुरंगास्पदः, सूक्ष्मक्षोमविभूषितोऽतिविलसन् ग्रेवेयकणिकः । यो वैतालिकवृंदकोमलगिरा प्रस्तूयमानोऽनिशं, प्रौढप्रेमपदातिभिः परिवृतः स्वेरं चचार क्षमाम् ॥१८॥ तस्याभवत् प्रिये द्वे तु चांदु-सीतू मनोहरे । धर्मिष्ठे कुलजे दक्षे प्रियभाषणतत्परे ॥१९॥ वोसरिलिम्बचन्द्राख्य...............स्तृतीयकः । पुत्री सज्जननामाऽस्ति सीतुकाया............॥२०॥ ब्रह्मदेवाऽऽमचंद्राख्यकीकाह्वबालचन्द्रकाः। चांदुकाया इमे पुत्राः पूनसीहस्तु पंचमः ॥२१॥ आद्ययोः पुत्रयोः पत्न्यौ कुलजे रूपसंयुते। हंसलाऽनुपमादेवी समभूतां मनोहरे ॥२२॥
भवे परपरस्याश्च तनयो जनवल्लभः । दृष्ट्वा धर्मफलं पुत्रे तत्परा सज्जनाऽप्यभूत ॥२३॥ तथाहि
उपधानतपश्चके तदुद्यमनकं तथा। तीर्थेषु संघयात्रासु धनव्ययमचीकरत् ॥२४॥ उपद्रवविनट च श्वश्वा पुस्तकमादिमम् । ययोद्धृतं च पुण्याय जीर्णोद्धारे यथा महत् ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org