SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ क. २३१ ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र प्रथमोऽभूत् कुलधरः सञ्चतुर्विधधर्मभाक् । क्रोधारिघातुकेष्वद्धामोहारेरङ्गरक्षभृत् ॥४॥ द्वितीयो जेसलाख्योऽभूद् यस्य जन्म परार्थकृत् । नहि चन्दनवृक्षस्य स्वोपकाराय सौरभम् ॥५॥ नामश्रान्त्येव यं कामो नादर्शञ्चाश्रयद् वृषः। स कपर्दी तृतीयोऽभूत् परस्त्रिभुवनाऽभिधः ॥६॥ जिनागराख्याय दीक्षां श्रीजिनपतिसूरयः। कपर्दिने ददुर्बाहां मुक्तिपुर्यापने ध्रुवम् ॥७॥ शङ्के सजमभूपस्य मोहमुन्मूल्य तस्थुषः । बभौं पञ्चकुली तस्य पुरे पञ्चमहाव्रती ॥८॥ द्वितीया दुलही केषां भोजनामोदिकाऽभवत् । नो आयस्थ शुभोजस्य कलाद्वन्द्वविभूषिता ॥९॥ एकस्तस्याऽम्बडाख्योऽभूत् पुत्रः शृङ्गवत् खड्गिन। यथा विद्या विनीतस्य गोमीनाम्नी च पुत्रिका ॥१०॥ शीलालङ्कारमाश्रित्य स्वर्णभूषोत्करं हृदि। मन्यते या शिलारू शिवं गोतमगीरिव ॥११॥ कल्याणकार्थ पञ्चाशद् द्रमी नाभिभुवे ददौ । लातुं वृष मुक्तिपुर्यो गन्तुकामापणं ध्रुवम् ॥१२॥ जेसलस्याऽभवद् रत्नी वल्लभा या स्वमानसम्। यशोहंसाभिलाषेत्र शोलक्षीराञ्चित दधे ॥१३॥ तस्य पुत्रत्रयी वेदत्रयीवाऽत्र जगत्त्रयीम् । क्रमेण पवते धर्मरथचक्रत्रयीव या ॥१४॥ आद्यो विद्याविदां वर्ण्य आस्ते सोमटिनामकः । द्वितीयः कुलचन्द्राख्यः परो वोहडिसंज्ञकः ॥१५॥ इतश्व वंशेऽस्मिन्नेव संजज्ञे थीदुकः श्रावकः सुधीः। आसीनानंधराख्योऽस्य तनयो विनयी नयी ॥१६॥ कूपरूपा रसे शान्ते दीपरूपा निजे कुले। नीरूपा यशःपुष्पे गोमी तस्य प्रियाऽभवत् ॥१७॥ गुणयन्त्या नमस्कारान नयाऽसौ पराजिता । इति शङ्के करं यस्या अक्षमाला निषेवते ॥१८॥ इतश्व कल्पलक्ष्मीविमुक्तं न न कलङ्करवश्रितम् । न श्यामासङ्गतं भूम्यामास्ते चान्द्रं कुलं नवम् ॥१९॥ उद्गच्छन्ति स्म ते तत्र श्रीजिनपतिसूरयः। यत्कीर्तरूवंगामिन्या वर्तिनीव सुरापगा ॥२०॥ ते तत्पट्टप्रकटकाः श्रीजिनेश्वरसूरयः। पुष्करं समलञ्चके येषां कीर्तिमरालिका ॥२१॥ येषां रससरस्वत्या सरस्वत्या जिताविव । इक्षुखण्डसुधासारौ वप्राजाधितौ स्थितौ ॥२२॥ गोमी सुश्राविका श्रद्धाबन्धुरा सा तदन्तिके। चकार दर्शनादर्श भूतिदानलोज्झितम् ॥२३॥ यातारममृतस्थानमितीवासी मुदाऽन्यदा। तेषां कर्णकलशीस्यां वचोऽमृतरयं श्रिता ॥२४॥ कल्पनु : समयो नृणां मरौ कालेऽत्र लेखनम् । तस्य हेतुः श्रियो धर्मे केतुः सेतुर्भवार्णवे ॥२५॥ श्रुत्वेत्थं सा मनश्चके संविग्ना तस्य लेखने। उपाध्यायस्य हि प्राज्ञो न वचो द्विरपेक्षते ॥२६॥ श्रीकथारत्नकोशस्य सा पुस्तकमलेखयत् । तथोपदेशमालोरुवृत्तेर्जग्राह मूल्यतः ॥२७॥ सिद्धान्तलेखने तस्या धर्मपुत्रमजीजनत् । भावनाढयेति यौ यूपमुशलावुच्छ्रितौ ध्रुवम् ॥२८॥ श्रीजिनेश्वरसूरिभ्यो गुरुभ्यस्तत्पणेन सा। अक्रोणादिव महाध्ये ते रत्ने तत्त्वे विशारदा ॥२९॥ यावत्तारान् कपर्दान् हिमरुचिकितवं पद्मिनीकान्तधूर्तः, प्रातर्जित्वा गृहीत्वांशुकमपि च करैः पद्मिनीषु प्रियासु। दाता प्रोन्नीयतेऽसौ नवजयफलिका तत्र वाराटकश्रीलोकालोकेन तावज्जगति विजयते पुस्तकद्वन्द्वमेतत् ॥३०॥ श्रीमत्सूरिजिनेश्वरपादाम्भोजेषु भृङ्गतां बिभ्रत् । शस्तां प्रशस्तिमेतां विरचितवानभयतिलकगणिः ॥३१॥छ। क्रमाङ्क २३१ भवभावनाप्रकरण स्वोपक्षवृत्तिसह पत्र ३५० । भा. प्रा. सं. । क. मलधारी हेमचंद्रसूरि स्वोपज्ञ । ग्रं. १३०००। र. सं. ११७० । ले. सं. अनु. १३ मी शताब्दी पूर्वार्ध । संह श्रेष्ठ। द.श्रेष्ठ । लं. प. २९॥४२।। पत्र ११-१३, १५, ३३२ नथी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy