SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ क्र. २३२ ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र भवभावनायाः सत्कं श्रिया यल्लेखितं पुरा । पुस्तकं सा तदुद्धारं कारयामास भक्तितः ॥ २६ ॥ इतश्च बृहद्गच्छेऽस्मिन् सर्वदेवाख्यसूरयः । शालिभद्रास्ततोऽपि स्युर्वर्द्धमानास्तु सूरयः || २७॥ यः सिद्धान्तसमुद्रतो मणिमिव स्वीकृत्य सारं सुधीर्नानार्थप्रभृतिप्रबंधघटनामासूत्र्य तद्वैभवम् । क्षुद्रक्षुद्रधियामपि प्रतिपदं दत्ते स्म कीर्तिप्रियः, श्रीचक्रेश्वरसूरिरभवत्ततश्चारित्रचूडामणिः (?) ॥२८॥ ततोऽपि परमानन्दसूरयः प्रथितौजसः । यद्वक्त्रशैलात् प्राभूद् वज्रस्वामिकथानदी ||२९|| तदनु निरुपमश्रीः श्रीयशः सूरिव, विबुधहृदयहारी वीरसूरिस्ततोऽपि । समजनि जयसिंहाचार्यपर्यस्तपापः, सुविहितजिनदत्ताचार्यवर्यस्ततश्च ॥ ३०॥ श्रीपद्मचन्द्रमुख्यान् सुप्रसन्नमनास्ततः । अवीवदच्चतुर्दिक्षु सुयशोडिंडिमं गुणैः ॥ ३१॥ श्रीपद्मचंद्रमुनिपतेपट्टपूर्वाद्रिदिनपतिसमानः । जयति जयदेवसूरिर्भव्यांभोजप्रबोधनः ||३२|| क्रमागतगुरूणां सा क्रमसेवापरायणा । उपदेशामृतं चेयं कणीजलिपुटैः पपौ ॥३३॥ तथा च पीठकं फलकं शय्या वस्त्रं पात्रं च कम्बलम् । पुस्तकं चान्नपानं च दत्तं स्याच्छ्रेयसेतराम् ॥ ३४ ॥ इत्थं वचश्चेतसि सज्जनाऽसौ वाचंयमानां बहुधा विचार्य । तदुद्धृतं पुस्तकमद्वितीयं ददौ गुरुभ्यः कृतसाधुपूजना ||३५|| युगमुनिरविसंख्ये १२७४ वर्षे विक्रमतो गते । सत्पत्र पाठकाढ्यं समुद्धारः शुभाक्षरैः ॥ ३६ ॥ शेषो निश्शेषमेष क्षितिभरमतुलं संवहन् यावदास्ते, यावन्मेरुर्नमेरुदुमकलिततलः स्वर्गिणां सन्निवासः । चंद्रा यावदेत निविडतरतमो ध्वंसहेतू चकास्तस्तावन्नद्यान्मुनीशैः सुनिपुणधिषणैः पुस्तकः पठथमानः ॥ ३७॥ लिखितं रामदेवेन || शुभं भवतु ॥ क्रमाङ्क २३२ भवभावनाप्रकरण स्वोपज्ञवृत्तिसह पत्र ३८६ । भा. प्रा. सं.। क. मलधारी हेमचंद्रसूरि स्वोपज्ञ | र. सं. ११७० । ग्रं. १३००० । ले. सं. १२४० । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३० ॥४२॥ अन्त आसीन्मेडतकस्थाने बोधिस्थः श्रावको धनी । पाहिका नाम तद्भार्या शीव्यादिगुणसंयुता ॥१॥ सौवर्णिकः प्रसिद्धोऽत्र समायातः सुतस्तयोः । सामनामाऽन्यनामा तु साधारणसमाह्वयः ॥ २ ॥ सोहिणिनाम्नी भार्या पुत्रो लक्ष्मीधरोऽस्ति तस्येह । छत्रापल्ल्यां च तथा वीरश्रेष्ठयङ्गसम्भूतः ॥३॥ श्रेष्ठी यशोदेव इति प्रसिद्धो गेहे तयोर्वृत्तिरियं समप्रा । स्थितैर्गृहे वेलकनामकस्य श्रेष्ठेस्तथा वीरकनन्दनस्य ॥४॥ निष्पादिताऽस्माभिरतोऽप्यमीषां निःशेषकाणामपि मुक्तिहेतुः । सम्पद्यतां शीघ्रमसौ सहायकर्माश्रितानामपराङ्गिनां च ॥५॥ छ ॥ अत्र प्रत्यक्षरगणनया ग्रंथाग्रं १३००० ॥ छ ॥ छ ॥ छ ॥ प्रथमा प्रशस्ति आसीह बंभगच्छे पद्रउरे अम्मसायवरसेट्ठी । अइहवदेवी भज्जा ताणुप्पन्ना सुया तिन्नि ॥१॥ सज्जण - केल्हण - पासुयनामाणो तह धूया य चत्तारि । नन्नी लड्डी देदी फूदी नामा य अणुकमसो ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy