________________
क..२१७ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्रं
अन्यच्च
श्रीजैनशासनाम्भोधिसमुल्लाससुधांशवः । जज्ञिरे जगति ख्याताः श्रीचन्द्रप्रभसूरयः ॥७॥ धर्माधारतया सुदुश्वरतपश्चारित्रतेजस्तया नानासूरिविनेयसेविततया तैस्तैर्गुणर्विश्रुतः। श्रीचन्द्रप्रभसूरिपट्टतिलको निर्ग्रन्थचूडामणिर्जज्ञे श्रीजयसिंहभूपतिनुतः श्रीधर्मघोषः प्रभुः ॥८॥ तदीयहस्तप न लब्धश्रीसूरिसम्पदः । बभूवुर्जगमं तीर्थ, श्रीयशोघोषसूरयः ।।९।। आवर्जिते गुणग्रामैर्येषां गम्भीरिमादिभिः । रूपलक्ष्मीसरस्वत्यौ समायातां स्वयं तले ॥१०॥ तेषां सपुण्यलावण्यरूपपाण्डित्यसम्पदाम् । स्वहस्तदीक्षितैः शिष्यैः श्रीहेमप्रभसूरिभिः ॥११॥ भुवनश्रुतिरविसङ्घये १२२३] वर्षे हरिपालमन्त्रिविज्ञप्तैः । एषा चके वृत्तिः प्रश्नोत्तररत्नमालायाः । १२॥ कनकगिरिकनकदण्डं, धत्तेऽम्बरमेघडम्बरं छत्रम् । जगति जयतो यावत् , वृत्तिरिय वर्त्ततां तावत् ॥१३॥ ग्रन्थाग्रन्थ २१३४ । प्रश० १८ एवं ॥छ। मङ्गलं महाश्रीः ॥छ। ॥ शुभं भवतु श्रीसङ्घस्य ॥ ५० ॥ अहम् ॥ गुरुगिरिविहितास्थः साधुराजप्रतिष्ठोर्जितसुगुणपताकोऽत्यन्तचैत्यो भक्त्या । सरलतर उरुः सल्लक्षणश्चारुपर्वोन्नत उदित इहोयो श्रीमदकेशवंशः ॥१॥ तत्राभिजात्यशुभवृत्तमहार्घताढयो, मुक्तोपमोऽजनि महर्दिकसाढसाधुः। यः प्रत्यहं पथिकयाचकपञ्चशत्या, माहेश्वरोऽन्नघृतदानमदीदपत् सदा ॥२॥ काले कियत्यपि गते लघुकर्मकत्वान्माहेश्वरत्वमुपकेशपुरे विहाय । श्रीवीतरागमुनिपुङ्गवभक्तिशाणैः, सम्यक्त्वरत्नमुददीदिपदन्वहं यः ॥३॥ युग्मम् ॥ पुत्रस्तस्य सहस्रपत्ररुचिरः श्रीपद्मदेवाभिधः, साधुः सौरभवासितत्रिभुवनः पद्मानिवासोऽजनि । यः श्रीनागपुरोपकण्ठकुडिलूपुर्यो मुदाऽकारयत् तीथे......देवसद्म विदधात्यद्यापि यत्कौतुकम् ॥४॥ क्षेमंधरः साधुरजायताऽस्य, सूनुर्गुरुं श्रीजिनचन्द्रसूरिम् । विध्यध्वधर्म च शशिप्रतिष्ठामालां ललौ यो मरुकोट्टदुर्गे ॥५॥ यो दा...त् षोडश श्रीअजयपुरि विधेर्मन्दिरे मंडपाथे.
पारुत्थानां सहस्रान् सकलनिजकुलश्रेयसे तीर्थयात्राम् । कृत्वा प्रद्युम्नसूरि विविधमपि जनाध्यक्षमेवाऽऽत्मपुत्रं.
थ्याशापल्ल्यां श्रुतोक्त्या जिनपतिगुरुभिर्मानयामास चैत्यम् ॥६॥ युग्मं ॥ जगद्धरः साधुरभूत्तदङ्गभूः, कृत्वा श्रियं यश्चपलामपि स्थिराम । अत्यद्भुतं श्रीजिनपार्श्वमन्दिरं, व्यधापयज्जेसलमेरुपत्तने ॥७॥ पुत्रास्तस्य त्रयोऽभूवन् , यशोधवल आदिमः । साधुर्भुवनपालोऽन्यः, सहदेवाभिधः परः ॥८॥ यशोधवलिताखिलत्रिजगदुच्चकैः पुण्यवान् , यशोधवलसाधुराट् समजनिष्ट सत्याभिधः । मरुस्थलसुरुदमः प्रतिदिनान्यदेशागतप्रभूतसमधार्मिकाद्यशनदानसम्मानतः ॥९॥ अजनि भुवनपालः साधुराट् पुण्यलक्ष्म्या, कलितविपुलभालः कीर्तिवल्ल्यालवालः । अधरितसुधवाण्यावर्जितक्षोणिपालः, स्वधनसुकृतकृत्यज्ञाफ्तिात्मत्रिकालः ॥१०॥ षण्मासान् भूमिशय्यां स्वशिरसि कुसुमाक्षेपमेकाशनत्वं,
चास्नानं ब्रह्मचर्यादिमबहुनियमान् बिभ्रता येन यूना। निर्जित्याऽरीन् विधाप्य स्वगुरुजिनपतेः स्तूपरत्नं पताका
ऽऽरोपि श्रीसोमसिंहप्रतितनुकजगत्सिहसाहाय्यमाप्य ॥११॥ श्रीमान्माण्डलिकं विहारमपरं श्रीभीमपल्ल्यां पुरि, प्रासादं गगनाग्रलग्नशिखरं निर्माप्य लोकोत्तरम् । श्रीमत्सरिजिनेश्वरयुगवरेस्तस्य प्रतिष्ठाप्य यः, श्रीषीरप्रभुमूर्तिमभुततमा संस्थापयामासिवान् ॥१२॥
- त्रिभिर्विशेषकम्।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org