________________
श्रीजेसलमेर दुर्गस्थ
क्रमाङ्क २१५
उपदेशपदप्रकरणलघुटीका संपूर्ण पत्र १४९ - २९९ । भा. सं. । टी. क. वर्धमानसूरि । टी. ग्रं. ६५१३ । र. सं. १०५५ । ले. सं. ११९३ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २५४२ ॥ अन्त - संवत् ११९३ ज्येष्ठ सुदि २ खौ ॥ छ ॥
शुभं भवतु ॥
[ क्र. २१५
क्रमाङ्क २१६
योगशास्त्र स्वोपशवृत्तिसहित पत्र ३१९ । भा. सं. । क. हेमचन्द्रसूरि स्वोपज्ञ । ले. सं. १४०७ । संह श्रेष्ठ । द. श्रेष्ठ । लं. प. ३२॥४२॥
पत्र. १११, १३०, १३२, १३५, १४२ - १४४, १४६, १४८, १५६, २२६, ३०८, ३१०-३१२, ३१४-३१७ नथी.
क्रमाङ्क २१७
प्रश्नोत्तररत्नमालिका वृत्तिसहित पत्र १८२ । भा. स. । मू. क. विमलसूरि । वृ. क. हेमप्रभसूरि । ग्रं. २१३४ । र. सं. १२२३ । ले. सं. अनु. १४ मी शताब्दी । संह. श्रेष्ठ । ६. श्रेष्ठ । लं. प. १२।४२ । । पत्र १, २, ५, १६१, १६६, १६७, १७०-७२, १७४ नथी । आ पोथी कागळ उपर लखेली छे ।
रचिता सितपटगुरुणा, विमला विमलेन रत्नमालेव । प्रश्नोत्तरमालेयं, कण्ठगता कं न भूषयति ॥
अस्य व्याख्या -- विभूषयति अलङ्करोति कं कं न ?, अपि तु सर्वमपि । काऽसौ कर्त्री ? इयं प्रश्नोत्तररत्नमाला । केव ? रत्नमालेव । किंविशिष्टा ? 'विमला' प्रश्नोत्तराणामविरोधित्वान्निर्दोषा, उपमानपक्षे पुनः 'विमला ' त्रासहीनत्वादवदाता | पुनः किंविशिष्टा ? ' रचिता' निर्मिता । केन ? 'सितपटगुरुणा सिताः श्वेताः पटाः aarfण येषां ते सितपटास्तेषां गुरुः सितपटगुरुस्तेन सितपटगुरुणा श्वेताम्बराचार्येण । किंविशिष्टेन ! विमलेन विगतो मलः पापरूपो यस्मात् स विमलस्तेन विमलेन निःपापेन, अथ च ग्रन्थकारो गम्भीरोक्तिरस्मिन् पदे निजनामाऽपि प्रतिपादयाञ्चकार, विमलेन बिमलाचार्येणेत्यर्थः । अत्र च बिमलनेति नामैकदेशप्रयोगेऽपि विमलाचार्य इति समुदायो गम्यते, यथा भीमो भीमसेन इति ॥ अधुना रत्नमालया सह प्रश्नोत्तररत्नमालाया श्लेषो भण्यते । तथा हि
अत्यन्तविशदवर्णा, गुणगणरम्या महार्थविषया च । योग्या क्षमाधराणामनेकार्यप्रभावयुता ॥१॥ प्रश्नोत्तरमालेयं धत्ते वररत्नमालया समताम् । वर्यार्थाश्चर्यकरी, दत्तमहानन्दपदविभवा ॥२॥
एवं समर्थिताऽसौ प्रश्नोत्तररत्नमालिकावृत्तिः । विबुधामन्दविधात्री, शुभरसपात्री च गङ्गेव ॥३॥ लक्ष्मीर्गुणानुबन्धान्नृत्यति यस्मिन् मुदा समागत्य । वंशः प्राग्वाटाख्यो गुरुपर्वाssस्ते स उत्तुङ्गः ॥१॥ आसीत् तत्र सरस्वतीव विबुधव्याख्यातशास्त्रावलिबल्यात् पालितसप्रभावविमलश्रीब्रह्मचर्यव्रता । विख्याता गुणिनां गणे निजगुणैः सा नागिणी श्राविका, यस्याः सर्वगुणावधेः कथयितुं शक्यः क एको गुणः ! ॥२॥ भ्रातृजपुत्रस्तस्याः ऊदलनामा बलाधिपो जज्ञे । वास्तव्यो झेरिंडकनगरे धार्मिकजनप्रवरे || ३ || प्रकटितकमलोलासा निर्मलपक्षद्वया सदाचारा । ऊदलभार्या समभूदूदयश्री राजहंसीव ||४|| श्रीमद्देवगुरुक्रमार्चनविधिप्राप्तप्रतिष्ठावधिः, सौजन्यादिगुणौघरत्नजलधिनीतिश्रुतीनां निधिः ।
गाढं दानरतः सदागममतिः सर्वत्र लब्धोन्नतिः, संजातो हरिपाल इत्यभिध्या ख्यातस्तयोर्नन्दनः ||५|| बभूव शुल्क शालायाम शापलयां महत्तमः । सर्वतो मुखनिष्क्रान्तसाधुवादः स भूतले ॥६॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org