________________ सुय 975 - अभिधानराजेन्द्रः - भाग 7 सुय पूर्व तत्रैवोक्तम् / एतच्च सर्वं सम्यक्त्वपरिगृहीतं सम्यकश्रुतं, मिथ्यात्वपरिगृहीतं तु मिथ्याश्रुतमिति। ___ अत्र प्रेरकः प्राहआगमओ भावसुयं, जुत्तं नोआगमे कहं होइ। जइ नागमो न सुत्तं, अह सुत्तमणागमो किह णु ||880|| यदागमतो भावश्रुतमुक्तम्तयुक्तम्-घटत एव।नोआगमतस्तुभावश्रुतं कथं भवति ?- न घटत एवैतदित्यर्थः / तथाहि-नोशब्दस्तावद् निषेधवचनः, ततश्च यदि 'न'-नैवाऽऽगमः, तर्हि न श्रुतम्, तस्याऽऽगमरूपत्वात् / अथ श्रुतम्, तहवागमः कथम् ? तस्माद् नोआगमतो भावश्रुतमिति माता बन्ध्या' इत्यादिवद् विरुद्धमेवेति। प्रेरक एवाऽऽशङ्कयाहउवओगो जम्मत्ते, तं तं जइ वागमोऽवसेसंतु। नोआगमो ति एवं, किमणुवउत्तम्मि दव्वसुयं ? / / 881|| यदिवा-एवं सिद्धान्तवादी ब्रूयात् -यावन्मात्र यत्र यत्र श्रुताध्येतरि तदुपयोगस्तत्तदागमतो भावश्रुतम्, यत्त्ववशषमनुपयुक्तस्याध्येतुः श्रुतं तद् नोआगमतो भावश्रुतमिति सर्व सुस्थमिति। हन्त ! तर्हि आगमओ दव्वसुयं वत्ता सुत्तोवओगनिरवेक्खो' इत्यनेनाऽनुपयुक्ते वक्तरि यत्पूर्व द्रव्यश्रुतमुक्तं तत् किं स्यात्, तद्विषयस्येदानीं नोआगमतो भावश्रुतत्वेन त्वया प्रतिपाद्यमानत्वात् ? निर्विषयमेव तत् स्यादिति भावः / पर एवाचार्यमतमाशय परिहरन्नाहअविसुद्धनयमएण व, जइलद्धिसुयमणुवउत्ते वि। भावसुयं चिय पढओ, किमणुवउत्तस्स दव्वसुयं // 52 // यदि च सूरिरेतयात्-आवशुद्धनयमतेन श्रुतलब्धिरपि भावश्रुतमुच्यते। ततश्चानुपयुक्तेऽपिलब्धिसंपन्ने जीवे तल्लब्धिरूपं श्रुतंलब्धिश्रुतं भावश्रुतमेवाऽङ्गीक्रियते, अन्यत्तु लब्ध्यादिशून्यस्य यत् श्रुतं तद् द्रव्यश्रुतम्, इति न तस्य निर्विषयतेति भावः / हन्त ! तह्येनुपयुक्तस्य पठतो वक्तुः किंद्रव्यश्रुतम् ? तस्यापि श्रुतलब्धिसद्भावतो भावश्रुतप्राप्त्या तदवस्थैवद्रव्यश्रुतस्य निर्विषयतेति भावः। न हि श्रुतलब्धिरहितः कोऽपि पठति / तस्मादेतदपि वाङ्मात्रत्वाद् न किञ्चिदिति। __ अथाचार्यः प्रतिविधानमाह - आगम सुओवओगो, सुद्धो चिय म चरणाइसंमिस्सो। मीसेऽवि वा विवक्खा, सुयस्स चरणाइमिन्नस्स॥५८३|| इह तावत् सर्वस्याप्यस्य प्रक्रमस्य भावार्थ उच्यते-परेण निषेधवचनं नोशब्दमवगम्य पूर्वपक्षः कृतः / आचार्यस्तु मिश्रवचनं नोशब्दं चेतसि निधान प्रतिविधत्ते / मिश्रवचनेनापि नोशब्देन द्रव्यश्रुतम्, आगमतो भावश्रुतम्, नोआगमतो भावश्रुतं चेत्येतत्त्रितयं कथं पृथगुपपद्यते? इति चेत् / उच्यते-- अनुपयुक्तस्य श्रुताध्येतुस्तावद् द्रव्यश्रुतं 'आगम' त्ति एकदेशेन समुदायस्य गम्यमानत्वादागमतो भावश्रुतमुच्यते / किम्? इत्याह-शुद्ध एव श्रुतोपयोगः, न चरणादिमिश्रः / यदि वा-चरणादिमिश्रेऽपि श्रुतोपयोगेतद्भिन्ने श्रुतोपयोगस्य विवक्षा क्रियते। इदमुक्तं भवति- चरणादिमिश्रमपि श्रुतोपयोगं भिन्नं विवक्षितत्वादागमतो भावश्रुतमुच्यत इति। तर्हि नोआगमतो भावश्रुतं किम् ? इत्याहचरणाइसमेयम्मि उ, उवओगो जो सुएन तओं समए। नोआगमो त्ति भण्णइ, नोसद्दो मीसभावम्मि ||884|| चरणादिसमेतेतुश्रुतेयश्चरणादिमिश्र उपयोगस्तकोऽसौसमयप्रसिद्धया नोआगमतो भावश्रुतमुच्यते। नोशब्दश्चेह मिश्रवचन इति। निषेधवचनस्तु नोशब्दोऽत्र नेष्यते, यतोऽसौ सर्वनिषेधवचनो वा स्यात्, देशनिषेधवचनोवा? तत्र सर्वनिषेधवचनत्ये नोशब्दस्यदोषमाहसम्वनिसेहे दोसो, सय्वसुयमणागमो पसभेजा। होजावाऽणागमओ, सुयवज्जमणागमसुयं तु // 885 सर्वनिषेधवचने नोशब्दऽत्र गृह्यमाणे दोषः प्रसज्यते। कः ? इत्याह'सव्वसुयमित्यादि' नोआगमतो भावश्रुतमिति / कोऽर्थः ? अनागमः सर्वमपि यद् भावश्रुतमितिसर्वनिषेधवाचकत्वे नोशब्दस्य सर्वस्यापि भावश्रुतस्याऽऽगमत्वनिषेधः स्यादिति भावः / अयुक्तं चैतत्, श्रुतस्यागमत्वेन सुप्रतीतत्वात्। अथवा-सर्वनिषेधवाचके, नोशब्दे नोआगमतो भावश्रुतमित्ययमर्थः स्यात् / कः? इत्यत्रोच्यते-अनागमतोऽनागमत्वात् श्रुतवर्ज मत्यादिचतुष्टयात्मकंयदनागमरूपं ज्ञानंतत् श्रुतं भावश्रुतं भवेदिति।अश्रुतरूपस्यापि मत्यादिज्ञानचतुष्टयस्य श्रुतप्रसङ्ग स्यादिति भावः। देशनिषेधवचनेऽप्यत्र नो शब्दे दूषणमाहदेसनिसेहे सयलं, नोआगमओ सुयं न पावेजा। भिन्नं पिवतं देसो, चरणाईणं पसजेजा।।८८६|| देशनिषेधवचनं नोशब्दे सकलमप्याचारादिश्रुतं नोआगमतो भावश्रुतं न प्राप्नुयात्- न स्यात्, किन्तु तदेकदेश एव नोआगमतो भावश्रुतं स्यादित्यर्थः। सर्वश्रुतस्य चैतदिष्यते, समस्तस्यापिद्वादशाङ्गगणिपिटकस्य ज्ञान-दर्शन- चारित्रपर्यायपिण्डाऽऽत्मकत्वाद् नोआगमत्वेन सिद्धान्ते रूढत्वात्, एतच मिश्रवचन एव नोशब्दे घटते, नान्यथेतिभावः / अत्रैकदेशनिषेधपक्षे दूषणान्तरमाह- 'भिन्नं पि वेत्यादि' 'वा' इति-- अथवा, भिन्नमपि पृथग्भूतमपिसत्तद्-भावश्रुतं चरणादीनामेकदेशः प्रसज्येत, अभिन्नदेशं चेष्यते तचरणादिभिः सह, धात्वञ्जनकपिशवर्णकवत्, अन्यथा संकरैकत्वादिदोष-प्रसङ्गादिति। किञ्च, देशनिषेधको नोशब्द एकदेशवाचकः, तत्र चापरोऽपि, दोषः / कः? इत्याहहोज व नोआगमओ, सुओवउत्तो विजंस देसम्मि। उवजुअइन उसव्वे, तेणायं मीसभावम्मि॥१८७|| यः श्रुतोपयुक्तः पूर्वमागमतो भावश्रुतमुक्तः, सोऽपिनोशब्दस्य देशवचनत्वे नोआगमतो भावश्रुतं भवेत्। कुतः ? इत्याह-यद्यस्मात् स श्रुतैकदेश एवोपयुज्यते, नतुसर्वस्मिन्नपि श्रुते, सर्वस्यापि श्रुतस्याऽनन्ताभिन्नप्यार्थ