________________ सुय 976 - अभिधानराजेन्द्रः - भाग 7 सुय विषयत्वात्, एतदुपयोगस्य चैकदाऽसंभवात् / ततश्चैकदेशवचनत्वे | नोशब्दस्याऽयं नो आगमः / तस्माद् येनैवं सति आगम-नोआगमभावश्रुतयोरविशेषः प्राप्नोति, तेनात्यं नोशब्दो मिश्रभावे ग्राह्य इति। अथ प्रेरकाभिप्रायमाशङ्कमान आहआह नणु मीसभावे, नाभिहिओ, अभिहिओ य नोसहो।। देसे तदन्नभावे, दवे किरियाएँ भावे य॥५८|| आह-प्रतिषेधवाचकत्वाद् नोशब्दो मिश्रभावे न क्वचिदभि-हितः। किं तर्हि ? देशादिषु पञ्चस्वर्थेष्वभिहितः। तत्र देशे नोघटो घटैकदेश उच्यते, यतोघटैकदेशस्तावदघटो न वक्तव्यः, नापिघटः, किंतर्हि ? नोघटः। तथाहि-घटैकदेशस्यग्रीवादेरघटत्वे तदन्यदेशानामपितद्वदेवाऽघटत्वात् सर्वघटाभावप्रसङ्गः, एवं, पट-शकटादावप्यभावप्रसङ्गेन सर्वशून्यतापत्तिः। नापिघटैकदेशो घटः, एवं हि प्रत्यव एवं घटप्राप्त्यैकस्मिन्नपि घटे घटबाहुल्यापत्तिः, तथा च सत्येकघटविषयप्रवृत्ति-निवृत्त्यादिव्यवहारोच्छेदप्रसङ्गः। तस्मात् पारिशेष्याघटैकदेशो नोघट एवोच्यते, पर्यायशब्दत्वादनयोः। तदन्यभावेऽपिनोशब्दो दृश्यते, यथा 'नोघटः' इत्युक्ते तदन्यः पटादिः प्रतीयते, यथा 'नो ब्राह्मणः' इत्यभिहिते क्षत्रियादिर्गम्यते / द्रव्ये तु नोशब्दो घटैकदेशवचनादिः- नो घटः, नो पटः, नो स्तम्भ इत्यादि घटोधेकदेशवाचक इत्यर्थः / ननु देशवाचकादस्य को भेदः? इतिचेत् / उच्यते-तत्रघटादिसंबद्धएव तदेकदेशोनोवटादिरुक्तः, अत्र तुस एव घटाघेकदेशो ग्रीवादिः पृथगभूतो रथ्यादिपतितः स्वतन्त्र एव गृह्यते। सचघटादेः पार्थक्येन वर्तमानत्वात् पृथगेव स्वतन्त्रं द्रव्यम्, इति द्रव्ये नो-शब्दः / क्रियानिषेधवचनो नोशब्दः - 'नो पचति, नो पक्तव्यमित्यादि / भावनिषेधे तु नोशब्दो 'नो शय्यते, नो स्थीयते' इत्यादि / भाव-क्रिययोश्च विशेषः सिद्ध-साध्यतादिरूपः कोऽपि शब्दशास्त्रादिगतो बोद्धव्यः / इत्येवं विवक्षावशाद् देशादिप्वर्थेषु दृष्टो नोशब्दः, न तु मिश्रभाव इति। अत्रोत्तरमाह - सचमयं देसाइसु, तह वत्थवसेण सद्दविणिओगो। अमियत्था य निवाया, जुन्नइ तो मीसभावे वि||६|| सत्यम्, देशप्रतिषेधादिवचनोऽयं नोशब्दः, तथाप्यर्थव-शाच्छब्दानां विनियोगः- यो यत्राऽर्थो घटते, तस्मिन्नर्थे तत्र ते प्रयुज्यन्त इत्यर्थः / आह- नन्वेकस्यापि शब्दस्य किमनेकार्था विद्यन्ते, येनैवमुच्यते ? इत्याशक्याह-द्योतकत्वे-नापरिमितार्थाश्च निपाता इति मिश्रवचनोऽपि प्रयुज्यते नोशब्दः, न किञ्चित् क्ष्यत इति। अथवा- देशवचनोऽपि भवत्वत्र नोशब्दः, न कश्चिद् दोषः, इति दर्शयन्नाह अविसेसियसंमिस्सो-वओगदेसु त्ति वा सुयं काउं। नोआगमभावसुए, नोसद्दो होज देसे वि||८|| अविशेषितश्चासौ ज्ञान--दर्शन-चारित्राणां परिपूर्ण-घटादिरिवाऽखण्डः | संमिश्रोपयोगश्चाविशेषितसंमिश्रोपयोगस्तस्य घटादेीवादिरिव श्रुतं देश एकदेश इति कृत्वा नोआगमतो भावश्रुते विचार्ये नोशब्दो देशेऽपियुज्यते। इदमुक्तं भवति- यथा सामान्येन परिपूर्णघटादेरिहाऽखण्डस्यैकदेशो ग्रीवादितॊघट उच्यते, एवमविशेषितभेदस्य ज्ञान-क्रियापरिणामरूपस्याऽखण्डस्य वस्तुनः श्रुतमेकदेश इति कृत्वा ज्ञान-क्रियापरिणामो नोआगमतो भावश्रुतमिति स्थितम्। ___ अथ मतान्तरमुपदर्थ्य परिहरन्नाहनीआगमओ केई, सदसहायमुवओगमिच्छंति। नणु सुतरमागमत्तं, हि दव्व-भावागमे जुत्तं // 881|| केचिदाचार्याः शब्दसहायं श्रुतोपयोग नोआगमतो भावश्रुतमिच्छन्ति / अयमभिप्रायः--श्रुतोपयोगपूर्वकं ब्रुवाणस्य यः श्रुतोपयोगसहितः शब्दः स नोआगमतो भावश्रुतम् / तत्र किलोपयोग-शब्दसमुदाये उपयोगलक्षणस्याऽऽगमस्यैकदेशत्वात्, शब्दनिरपेक्ष तूपयोगमात्र-मागमतो भावश्रुतमिति। एतचायुक्तमिति दर्शयति-'नण्वित्यादि नन्वत्र हि स्फुट श्रुतोपयोगो भावागमः, शब्दस्तु द्रव्यागमः, इति सुतरामागमत्वमेव युक्तम्, आगमत एव श्रुतं युज्यते, न तु नोआगमत इत्यर्थः / यदि हि केवलोऽपि श्रुतोपयोग आगम उच्यते, तर्हि द्वितीये शब्दलक्षणे द्रव्यागमे मिलिते सुतरामयमागम एव युज्यते, न तु नोआगमः, आगमाऽनागमसमुदाय एव तस्य युज्यमानत्वादिति भावः। __ पराभिप्रायमेवाशय निराचिकीर्षुराहअह नागमो त्ति सद्दो, नोआगमया य तदहियत्तणओ। आगमओ दव्वसुयं, किह सदो नागमो जइ सो // 892| अथ परोमन्येत-शब्द आगमो न भवति, तत उपयोगस्यतदधिकत्वादनागमरूपशब्दाधिकत्वात् नोआगमता, आगमाऽनागमसमुदाये आगमस्यैकदेशत्वाद् नोआगमत्वमित्यभिप्राय / अत्र सूरिराह हन्त ! यद्यसौ शब्द आगमो न भवति तागमतो द्रव्यश्रुतं स्यात् ? सुवतीतमप्यस्येत्थमागतो द्रव्यश्रुतत्वं न स्यात्, अनागमत्वात्। तस्माद् द्रव्यत आगम एवाऽयम्, अतो द्रव्यागमसहायो भावागम आगमत एव भावश्रुतम्, न तु नोआगमत इति स्थितम्। अथान्यदपि मनान्तरमुपन्यस्य दूषयतिअन्ने नोआगमओ, सामित्ताणासियं सुयं वें ति। जइन सुयमणुवओगे, नणु सुयरमणासियं नत्थि / / 863|| अन्येतुकेचनाऽप्याचार्याः स्वामिनमाश्रितं श्रुतोपयोगंभावश्रुतं ब्रुवते, स्वाम्यनाश्रितं तुतमेव नोआगमतो भावश्रुतं ब्रुवते, एतचातिफल्म्वेवेति दर्शयति- 'जईत्यादि' यद्यनुपयुक्तेऽपि वक्तरि श्रुतं नोक्तम्, किन्तु विशिष्टऽपि तस्मिन् स्वामिनि द्रव्यश्रुतमेव पूर्वमभिहितम् / मूढ ! तर्हि सुतरामेवाऽनाश्रितंभावश्रुतं नास्ति, स्वामिनमन्तरेण पुस्तकादिलिखिते श्रुते उपयोगस्य दूरोत्सारितत्वात्, उपयोगमन्तरेण च भावश्रुतस्य सर्वथाऽसत्त्वात्; 'स्वाम्यनाश्रितंच श्रुतं क्वाप्यस्ति' इति प्रतिपादयितुर्महासाहसिकत्वमिति यत् किञ्चिदेतदिति। तदेवमुक्तंनोआगमतोऽपि भावश्रुतम्।