________________ सुय 972 - अभिधानराजेन्द्रः - भाग 7 सुय द्रव्यश्रुतनिरूपणार्थमाहसे किं तं दव्वसुयं? दव्वसुयं दुविहं पण्णत्तं,तं जहा-आगमतो अ, नो आगमतो अ। (सू०३२) अत्र निर्वचनम्, 'दव्वसुअंदुविहमि' त्यादि, द्रव्यश्रुतं द्विविधं प्रज्ञप्तम्, सूत्रस्य पर्यायानाहसुयसुत्तगंथसिद्धं-तसासणे आणवयणउवएसो। पण्णवणामागम इय, एगट्ठा पन्जवा सुत्ते / / 177|| श्रुतम्, सूत्रम्, ग्रन्थः, सिद्धान्तः, शासनम्, आज्ञा, वचनम्, उपदेशः, प्रज्ञापना, आगम इति, एते दश पर्याया एकार्थाः। बृ०१ उ०१ प्रक०। / विशे० / उत्त० / आव० / श्रुतं सामायिकादिबिन्दुसारान्तम् / आव०४ अ० ल० [ध० / स्वाध्याये, स०३० सम० / स्वदर्शनपरदर्शनानुगतसकलशास्त्रे, नं० आचा०। (मतिश्रुतभेदः ‘णाण' शब्दे चतुर्थभागे 1841 पृष्ठे गतः।) श्रुतनिक्षेपःसे किं तं सुत्तं, सुत्तं चउविहं पण्णत्तं / तं जहा नामसुअं, ठवणासुअं, दव्वसुअं, भावसुअं। (सू०२६) अथ किं तत् श्रुतमिति प्रश्नः, अत्र निर्वचनं 'सुअंचउव्विहमि' त्यादि, श्रुतम्-- प्राग्निरूपितशब्दार्थं चतुर्विधं प्रज्ञाप्तम्, तद्यथा- नामश्रुतम्, स्थापनाश्रुतम्, द्रव्यश्रुतम्, भावश्रुतं च। तत्राऽऽद्यभेदनिर्णयार्थमाहसे किं तं नामसुअं? णामसुअंजस्स णं जीवस्स वा० जाव सुए ति नाम कलइ से तं नामसुअं। (सू०३०) अत्र निर्वचनं नामश्रुतम्, 'जस्स णमि' इत्यादि, यस्य जीवस्स या अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा श्रुतमिति यन्नाम क्रियते तन्नामश्रुतमित्यादिपदेन सम्बन्धः, नाम च तत् श्रुतं चेति व्युत्पत्तेः / अथवा-यस्य जीवादेः श्रुतमिति नाम क्रियते तज्जीवादि वस्तु नामश्रुतम्, नाम्ना नाममात्रेण श्रुतं नामश्रुतमिति व्युत्पत्तेः / तत्र जीवस्य कथं श्रुतमिति नाम सम्भवतीत्यादिभावना यथा नामावश्यकेतथा तदनुसारेण यथासम्भवमभ्यूह्य वाच्या, 'सेतमि त्यादि निगम-नम्। उक्तं नामश्रुतम्। * अथ स्थापनाश्रुतनिरूपणार्थमाहसे किं तं ठवणासुअं? जंणं कट्ठकम्मे वा० जाव ठवणा ठविजइ संतं ठवणासुअंग नामठवणाणं को पइविसेसा? नाम आवकहियं ठवणाइत्तरिआवा होजा आवकहिआवा। (सू० 31) अत्र निर्वचनम्-- 'ठवणासुअं जं णमि' त्यादि, अत्र व्याख्यानं यथा स्थापनावश्यकेतथा सप्रपञ्चंद्रष्टव्यम्, नवरमावश्यकस्थाने श्रुतमुच्चारणीयम्, काष्ठकर्मादिषु श्रुतपठनादिक्रियायन्त एकादिसाध्यादयः स्थाप्यमानाः स्थापनाश्रुतमिति तात्पर्यम्। 'सेतमि त्यादि निगमनम्। "नामठवणाणं को पइविसेसो?" इत्यादि पूर्व भावितमेव, वाचनान्तरे तु 'नामठवणाओ भणि-याओ' इत्येतदेव दृश्यते, आवश्यकनामस्थापनामणनेन प्रायोऽभिन्नार्थत्वात् श्रुतनामस्थापनेऽप्युक्ते एव भवतः, इत्यतो नाम ते पुनरुच्येते इति भावः। अत्राऽऽद्यभेदनिर्णयार्थमाहसे किं तं आगमतो दव्वसुअं? आगमतो दव्वसुयं जस्सणं सुएत्तिपयं सिक्खियं ठियं जियं०जावणो अणुप्पेहाए कम्हा? अणुवओगोदव्यमिति कटु, नेगमस्सणं एगो अणुवउत्तो आगमतो एवं दव्वसुयं०जाव कम्हा? जइजाणइ अणुवउत्तेन भवइ। से तं आगमतो दव्वसुअं। (सू०३३) अत्र निर्वचनम्- 'आगमओ दव्वसुअमि' त्यादि, यस्य कस्यचित् श्रुतमिति एवं श्रुतपदाभिधेयमाचारादिशास्वं शिक्षितं स्थितं यावद्वाचनोपगतं भवति स जन्तुस्तत्र वाचनाप्रच्छना-दिभिर्वर्तमानोऽपि श्रुतोपयोगेऽर्तमानत्वादागमतः आगममाश्रित्य द्रव्यश्रुतमिति समुदायार्थः। शेषोऽत्राऽऽक्षेपपरिहारादिप्रपञ्चो नयविचारणा च द्रव्यावश्यकवत् द्रष्टव्या, अत एव सूत्रेऽप्यतिदेशं कुर्वता 'जाव कम्हा? जइ जाणए' इत्यादिना पर्यन्तनिर्दिष्टानां शब्दनयानां सम्बन्धि सूत्रालापको गृहीतः / एतच काश्चिदेव वाचनामाश्रित्य व्याख्याते, वाचनान्तराणि तुहीनाधिकान्यपि दृश्यन्ते, 'सेतमि त्यादि निगमनम्। उक्तमागमतो द्रव्यश्रुतम्। इदानीं नोआगमतस्तदेवोच्यतेसे किं तं नोआगमतो दव्वसुअं? नोआगमतो दव्वसुअंतिविहं पण्णत्तं, तं जहा-जाणयसरीरदय्वसुअं भविअसरीरदव्वसुअं जाणयसरीरभविअसरीरवइरित्तं दव्वसुअं। (सू०३४) अत्र निर्वचनम्-'नोआगमतो दव्वसुअंतिविहमि' त्यादि, 'जाणयसरीरदव्वसुअं भविअसरीरदव्वसुअं जाणयसरीरभविअसरीरवइरित्तं दव्वसुअं। अत्राऽऽद्यभेदज्ञापनार्थमाहसे किं तं जाणयसरीरदव्वसुअं? जाणयसरीरदव्वसुयं सुअ त्ति पयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुअ-चाविअचत्तदेहं तंचेवपुष्वमणि माणिअव्वं० जाव से तंजाणयसरीरदव्वसुअं। (सू०३५) अत्रोत्तरम्-'जाणयसरीरदव्वसुयंसुअत्ती' त्यादि, ज्ञातवानितिज्ञस्तस्य शरीरं तदेवानुभूतभावत्वाद् द्रव्यश्रुतं ज्ञशरीरद्रव्यश्रुतं, श्रुतमिति यत्पदं तदर्थाधिकारज्ञायकस्ययच्छरीरकंव्यपगतादिविशेषणविशिष्टतज्ज्ञशरीरद्रव्यश्रुतमित्यर्थः / ननुयदिजीवविप्रमुक्तमिदं कथं तद्यस्य द्रव्यश्रुतत्वम् ? लेष्ट्रवादीनामपि तत्प्रसङ्गात्, तत्पुद्गलानामपिकदाचित् श्रुतकर्तृभिः गृहीत्वा मुक्तत्वसम्भवादित्याशङ्कयाह-'सेज्जागयमि' त्यादि, शेषोऽत्रावयवव्याख्या