________________ सुय 671 - अभिधानराजेन्द्रः - भाग 7 विरुद्धं, वयणं च अपोरुसेयं च / / 1 / / जं वुचइत्ति वयणं, पुरिसाभावे उ नेयमेवं ति / ता तस्सेवाभावो, नियमेण अपोरुसेयत्ते // 2 // " इति / अथवा-आख्यातं भगवतेदं, न कुड्यादिनिःसृतम् यथा कैश्चिदभ्युपगम्यते-"तस्मिन् ध्यानसमापन्ने, चिन्तारत्नवदास्थिते / निःसरन्ति यथाकाम, कुड्यादिभ्योऽपि देशनाः / / 1 / / " इत्यस्यानेनानभ्युपगममाह, यतः- "कुड्यादिनिःसृतानांतु, नस्यादाप्तोपदिष्टता। विश्वासश्च न तासु स्या-त्केनेमाः कीर्तिता इति ? ||1 // " समस्तपदसमुदायेन त्वात्मौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेयेत्याह, एवं हि तेषु भक्तिपरता स्यात्, तया च विद्यादेरपि सफलता स्यादिति, यदुक्तम्-"भत्तीऍजिनवराणं, खिजंतिय पुव्वसंचिया कम्मा / आयरियनमोक्कारेण, विजा मंताय सिज्झंति / / 1 / / " त्ति / नमस्कारश्च भक्तिरेवैति। अथवा-'आउसंतेणं' ति- 'भगवाद्विशेषणम्, आयुष्मता भगवता, चिरजीविनेत्यर्थः, अनेन भगवद्हुमानगर्भेण मङ्गलमभिहितम्। भगवद्हुमानस्य मङ्गलत्वादिति चोक्तमेव यद्वा--'आयुष्मते' ति परार्थप्रवृत्त्यादिना प्रशस्तमायुरियता नतु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात्, पुनरिहायातेनाभिमानादिभावतोऽप्रशस्तम् / यथोच्यते कैश्चित्-"ज्ञानिनोधर्मतीर्थस्य, कर्तारः परमं पदम्। गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः / / 1 / / " "यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत ! अभ्युत्थानमधर्मस्य, तदाऽऽत्मानं सृजाम्यहम् // 2 // " एवं धनुन्मूलितरागादिदोषत्वात्, तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हिरागादीनां कुतः पुनरिहागमनसम्भव इति? अथवाआयुष्मता-प्राणधारणधर्मवता न तु सदा संशुद्धेन, तस्याकरणत्वेनाख्यातृत्वासम्भवादिति / यदिवा- 'आउसंतेणं' ति-मयेत्यस्य विशेषणम्, तत आडिति-गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्तिस्वरूपत्वात् गुरुकुलवासस्य तद्विधानमर्थत उक्तम्, ज्ञानादिहेतुत्वात्तस्य। उक्तश्च-"णाणस्स होइ भागी, थिरयरओदंसणे चरित्ते या धन्ना आवकहाए, गुरुकुलवासंन मुंचंति॥११॥ गीयावासो रती धर्मे, अणाययणवजणं / निगहो य कसायाणं, एयं धीराण सासणं॥२॥" ति। अथवा-'आमुसंतेणं' ति-आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादिविनयकृत्यं न मोक्तव्यम्, उक्तं हि- "जहा हि अग्गी जलणं णमंसे णाणा हुती मंतफ्याभिसित्तं / एवायरीयं उवचिट्ठएज्जा, अणतणाणोऽवगओऽवि संतो // 1 // " त्ति / यद्वा- 'आउसंतेणं' ति--- आजुषमाणेन श्रवणविधिमर्यादया गुरुमासेवमानेन, अनेनाप्येतदाहविधिनैवोचितदेशस्थेन गुरुसकाशाच्छ्रोतव्यम्, नतु यथा कथञ्चित्। यत आह-"निहाविगहापरिवजिएहिं गुत्तेहि पंजलिउडेहिं / भत्तिबहुमाणपुव्वं, उवउत्तेहिं सुणेयव्वं // 1 // " इत्यादि, एवमुक्तः पदार्थः / पदविग्रहस्तु सामासिकपदविषयः स चाख्यातमित्यादिषु दर्शित इति / इदानीं चाल नाप्रत्यवस्थाने, ते च शब्दतोऽर्थतश्च / तत्र शब्दतः- ननु 'मे' इत्यस्य मम मां चेति व्याख्यानमुचितं षष्ठीचतुर्योरेवैकवचनान्तस्यास्म- / त्पदस्य, 'मे' इत्यादेशादिति, अत्रोच्यते- 'मे' इत्ययं विभक्तिप्रतिरूपकोऽव्ययशब्दस्तृतीयैकवचनान्तोऽस्मच्छब्दार्थे वर्तत इति न दोषः / अर्थतस्तु चालना.. ननु वस्तु नित्यं वा स्यादनित्यं वा ? नित्यं चेत्तर्हि नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वरूपत्वाद्यो भगवतः सकाशे श्रोतृत्वस्वभावः स एव च कथं शिष्योपदेशकत्वस्वभाव इति? किंच-शिष्योपदेशकत्वं त्वस्य पूर्वस्वभावत्यागे स्यादत्यागे वा ? यदि त्यागे हन्त हतं वस्तुनो नित्यत्वं, वस्तुनः स्वभावाव्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति, अपरित्याग इति चेत्, न, विरुद्धयोःस्वभावयोर्युगपदसम्भवादिति। अथ चानित्यमिति पक्षस्तदपि, न, निरन्वयनाशे हि श्रोतुः श्रवणकाल एव विनष्टत्वात्कथनावसरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति / अत्र समाधिनयमतेनेति नयद्वारमवतरति, तत्र नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूदैवम्भूता नयाः, तत्र चाद्यास्त्रयो द्रव्यमेवार्थोऽस्तीति वादितया द्रव्यार्थिकऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीति वादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थितया नित्यं वस्तु पर्यायार्थितया त्वनित्यमिति नित्यानित्यं वस्त्विति प्रत्येकपक्षोक्तदोषाभावो गुडनागरादिवदिति / एवमेव च सकलव्यवहारप्रवृत्तिरिति, उक्तं च- "सव्वं चिय पइसमयं, उप्पज्जइ नासएय निचंच। एवं चेव य सुहदुक्खबंधमोक्खादिसडभावो॥१॥"त्ति उक्तः सूत्रस्पर्शिकनियुक्त्यनुपगमः। स्था०१ठा०। श्रूयतेतदिति श्रुतम् प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं भगवता निसृष्टम्। आत्मीयश्रवणकोटरप्रविष्ट क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, श्रुतमवधृतमवगृहीतमिति पर्यायाः / दश० 4 अ० / आचा०। श्रवणं श्रुतम्। अभिलापप्रापितार्थग्रहणस्वरूपे उपलब्धिविशेषे, अनु०॥ वाच्यवाचकभावपुरस्सरीकारेण शब्दसंसृष्टग्रहणहेतावुपलब्धिविशेषे एवमाकारं वस्तु कालधारणाद्यर्थक्रियासमर्थघटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामे शब्दार्थपर्यालोचनानुसारिणि इन्द्रियमनोनिमित्ते अवगमविशेषे, आ० म०१ अ०। प्रव०।अर्थश्रवणे, नं०द्वा० / शृणोतीति श्रुतम्। आत्मनि तदनन्यत्वात्। श्रुतज्ञाने च। आ०म०१ अ०1"तं तेण तओ तंमिव सुणेइ सो वा सुयं तेणं"। अनु०। अथ श्रुतव्युत्पत्तिमाह-'तं तेण' इत्यादिश्रूयते आत्मना तदिति श्रुतं शब्दः / अथवा-श्रूयतेऽनेन श्रुतज्ञानावरणक्षयोपशमेन श्रूयते तस्मात् क्षयोपशमाच्छ्रयते तस्मिन् क्षयोपशमे सतीति श्रुतं क्षयोपशमः 'सुणेइ सो व' त्ति शृणोतीति श्रुतमसौ आत्मा इति वा व्युत्पत्तिरित्यर्थः, 'सुयं तेणे' ति-येनैवं व्युत्पत्तिस्तेन कारणेन श्रुतमुच्यत इत्यर्थः / विशे० / स्था० / गुरुसमीपे श्रूयते इति श्रुतम्। अनु० / कर्म० / बृ०। द्वादशाङ्गे, स्था०२ ठा०१ उ० / आगमे, स्था०३ ठा०२ उ० / अङ्गोपाङ्गप्रकीर्णादिभिन्ने आगमे, उत्त०१अ०। स्था०।पा०11०। दर्श०। स०। नं०ाजीवादिपदार्थसूचके, सूत्र०१श्रु०६ अ०।सूत्रे, श्रुतग्रन्थसिद्धान्तप्रवचनाज्ञोपदेशागमादीनि श्रुतैकार्थिकनामानि।