________________ सुय ६७०-अभिधानराजेन्द्रः - भाग 7 सुय अवगते, सूत्र०१ श्रु०१५ अ० श्रवणपथमुपागते, सूत्र०१ श्रु०५ अ०१ उ०। श्रोत्रेन्द्रियेण विशेषतोऽभिमते, सूत्र०२ श्रु० 4 अ० / उपलब्धे, सूत्र०१ श्रु०५ अ०१ उ०। अधीते, सूत्र० 1 श्रु०३ अ०३ उ०। श्रूयते इति श्रुतम्। भावे क्तप्रत्यये कृते नपुंसकता / शब्दे, पा० / "सुयं मे आउसंतेणं श्रूयते तदिति श्रुतं प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं भगवता निसृष्टम् आत्मीयश्रवणकोटरप्रविष्ट क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते। श्रुतम्-आकर्णिणतम्-अवधारितमिति यावत्। दश० 4 अ०। ('सण्णा' शब्देऽस्मिन्नेव भागेऽत्रत्यविस्तरो गतः।) सुयं मे आउसंतेणं भगवया एवमक्खयां / (सू०१) अस्य च व्याख्या संहितादिक्रमेणेति, आह च भाष्यकारः-- "सुत्तं 1 पयं 2 पयत्थो ३,संभवतो विग्गहो। वियारो यादूसियसिद्धी 6 नयमय-विसेसओ नेयमणुसुत्तं / / 1 / / " तत्र सूत्रमिति संहिता, सा चानुगतैव, सूत्रानुगमस्य तद्रूपत्वादिति। आह च- "होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो" ति सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय च पदादयो व्याख्याभेदाः प्रवर्त्तन्त इति, तत्र पदानि- 'श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातमिति / एवं पदेषु व्यवस्थापितेषु सूत्रालापकनिष्पन्ननिक्षेपावसरः। तत्र चेयं व्यवस्था-"जत्थ उजंजाणेजा,निक्खेवं निक्खिवे निरवसेसं। जत्थ विणय जाणेजा, चउक्कयं निक्खिवे तत्थ" // 1 // त्ति तत्र नामश्रुतं स्थापनाश्रुतं च प्रतीतम् / द्रव्यश्रुतमधीयानस्यानुपयुक्तस्य पत्रकपुस्तकन्यस्तं वा, भावश्रुतं तु श्रुतोपयुक्तस्येति। इह च भावश्रुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः / (स्था०) इह च संयभायुषा यशः कीर्त्यायुषा चाधिकार इति, एवं शेषपदानां यथासम्भवं निक्षेपो वाच्य इति, उक्तः सूत्रालापकनिष्पन्ननिपेक्षः। पदार्थः पुनरेवम्इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाञ्चकार। श्रुतम्-आकर्णितम् 'मे' मया 'आउसं' ति--आयुः जीवितं तत्संयमप्रधानता प्रशस्तं प्रभूतं वा विद्यते यस्यासावायुष्मांस्तस्यामन्त्रणं हे आयुष्मन् !-शिष्य ! 'तेणं' ति-यः सन्निहितव्यवहितसूक्ष्मबादरबाह्याध्यात्मिकसकलपदार्थेष्वव्याहतवचनतयाऽऽप्तत्वेन जगति प्रतीतः, अथवा- पूर्वभवोपात्ततीर्थकरनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालीनमिथ्यादर्शनादिवासना परिहृतमहाराज्यो दिव्याधुपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गो भास्कर इव घनघातिकर्मघनाघनपटलविघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पदपटलजुष्टपादपद्मो मध्यमाभिधानपुरीप्रथमप्रवर्तितप्रवचनो जिनो महावीरस्तेन- भगवता अष्टमहाप्राप्तिहार्यरूपसमग्रैश्वर्यादियुक्तेन एव-मित्यमुना वक्ष्यमाणेनैकत्वादिना प्रकारेण 'आख्यात' मिति आमर्यादया जीवाजीवलक्षणासङ्कीर्णतारूपया | अभिविधिना वा-समस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातंकथितं आख्या-तमात्मादि वस्तुजातमिति गम्यते / अत्र च श्रुतमित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मैप्रतिपादनीय-मित्याह-- अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तञ्च- "किं एत्तो पावयरं ? सम्म अणहिगयधम्मसभावो। अन्नं कुदेसणाए, कट्ठयरागम्मि पाडेइ'' ||1|| त्ति "मये'' त्यनेनोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मानन्तरपरम्परभेदभिन्नागमेऽयं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागम इत्याह- "आयुष्मन्नि" त्यनेन तु कोमलवचोभिः शिष्यमनः- प्रह्लादयताऽऽचार्येणोपदेशो देय इत्याह / उक्तञ्च-- "धम्ममइए-हिँ अइसुं-दरेहिँ कारणगुणोवणीएहि। पल्हायंतो यमणं, सीसं चोएह आयरिओ // 1 // " त्ति / आयुष्मत्वाभिधानं चात्यन्त.माह्लादकम, प्राणिनामायुषोऽत्यन्ताभीष्टत्वाद, यत उच्यते-"सव्ये पाणा पियाउया अप्पियवहा सुहासया दुक्खपडिकूला सव्वे जीविउकामा सव्वेसिं जीवियं पियं" ति / तथा "तृणायापि न मन्यन्ते, पुत्रदारार्थसंपदः / जीवितार्थे नरास्तेन, तेषामायुरतिप्रियम् // 1 // " इति / अथवा- आयुष्मन्नित्यनेन ग्रहणधारणादिगुणवेत शिष्याय शास्त्रार्थो देय इतिज्ञापनार्थ सकलगुणाधारभूतत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारिरायत उक्तम्-"वुढे विदोणमेहे, न कण्हभूमाउ लोट्टए उदयं / गहणधरणासमत्थे, इय देयमच्छित्ति कारिम्मि||१॥" विपर्यये तुदोष इति आहच-"आयरिए सुत्तम्मिय, परिवाओ सुत्तअत्थपलिमंथो / अन्नेसिं। पिय हाणी, पुट्ठावि न दुद्धदा वंझा // 1 // " इति / तथा 'तेने' त्यनेन त्वाप्तत्वादिगुणप्रसिद्धताsभिधायकेन प्रस्तुता-ध्ययनप्रामाण्यमाह- वक्तृगुणापेक्षत्वाद्वचनप्रामाण्यस्येति, भगवते त्यनेन तुप्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किलोपादेयः, तद्वचनमपि तथेति, अथवा- 'तेणं' ति-- अनेनोपोद्धातनिर्युक्त्यन्तर्गत निर्गमद्वारमाह, यो हि मिथ्यात्वतमः प्रभृतिभ्यो दोषेभ्यो निर्गतस्ततो निर्गतमिदमध्ययनं क्षेत्रतोऽपापायां कालतो वैशाखशुद्धैकादश्यां पूर्वाह्वभाव क्षायिके वर्तमानादिति, एवं च गुरुपर्वक्रमलक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवतायदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योक्ता, न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते, भगवत्त्वहानेः, अत एव चास्योपायोपेयभावलक्षणः सम्बन्धोऽपि दर्शितः, इहं हि भगवदारख्यातं ग्रन्थरूपापन्नमुपायः, पुरुषार्थस्तूपेय इति, अत एव चात्र श्रोताराः श्रवणे प्रवर्तिताः, यतः- "सिद्धार्थ सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्त्तते / शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः // 11 // " इति। 'एव' मित्यनेन तु भगवद्वचनादात्मवचनस्यानुत्तीर्णतामाह, अत एव स्ववचनस्य प्रामाण्यम् सर्वज्ञवचनानुवादमात्रत्वादस्येति, अथवा- 'एव' मित्येकत्वादिः प्रकारोऽभिधेयतया निर्दिष्टः, निरभिधेयताऽऽशङ्कया श्रोतृणां काकदन्तपरीक्षायामिवाप्रवृत्तिरत्रमाभूदिति, आख्यातमित्यनेन तु नापौरुषेयवचनरूपमिदम्, तस्या सम्भवादित्याह, यत उक्तम्-- "वेयवयणं न माणं, अपोरुसेयं ति निम्भियं (तम्मयं) जेण। इदमचंत