________________ संगह 74 - अभिधानराजेन्द्रः - भाग 7 संगह त् / तत्र च द्रव्यप्राणा दश, भावप्राणाश्चत्वारः / मोक्षप्राप्तौ यद्यपि द्रव्यप्राणानां कर्मजन्यानां सर्वथा क्षयस्तथाऽपि जीवनलक्षणा जीवस्य भावप्राणाः सहचारिणः कर्मासद्भायेऽपि भवन्ति सिद्धानामपि जीवत्वात् भावप्राणा भवन्ति, अतो मुक्ताः संसारिणश्व जीवाः / मुक्ताः पुनः पञ्चदशभेदाः, संसारिणोदेवनारकतिर्यङ् मनुष्यभेदाच्चतुर्दा, तान्तिमभेदयोः पञ्चभेदाः, तत्रापि मनुष्यस्य पञ्चाशलक्षण एक एव भेदः, तिरश्च एकरमादारभ्य पञ्च यावत् / अक्षभेदादेकाक्षयक्षत्र्यक्षचतुरक्षपक्षाक्षभेदात् पञ्च भवन्ति / एवं भेदतोऽपि जीवाः सर्वे अविरोधिनः, संग्रहाद् विशेषसंग्रहभेदः 2 / अथ च संग्रहस्वरूपमुषवर्णयन्ति-सामान्यमात्रग्राही परामर्शः संग्रह इति, सामान्यमात्रमशेषविशेषरहितम् / सतु द्रव्यत्वादिकं गृह्णातीत्येवंशीलः, समेकीभावेन विशेषराशिं गृह्णातीति संग्रहः / अयमर्थः-स्वजातेदृष्टष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद्ग्रहणं स संग्रह इति।अनुभेदानादर्शयन्ति, अनुभयविकल्पःपरः अपरश्चेति। तत्र परसंग्रहमाहुः-अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्य सन्मात्रमभिमन्यमानः परसंग्रह इति। परामर्श इति, अग्रेतनेऽपि योजनीयमुदाहरतिविश्वमेक सदाविशेषादिति 'यथे' ति अस्मिन्ननुक्ते हि सदिति ज्ञानाभिधानानुवृत्तिलिङ्गानुमितिसत्ताकत्वेनैकत्वमशेषार्थानां संगृह्यते। अथ संग्रहनयभेदं दर्शयन्नाहसंग्रहभेदकव्यव-हारोऽपि द्विविधः स्मृतः। जीवाजीवा यथा द्रव्यं, जीवाः संसारिणः शिवाः / / 13 / / संग्रहस्य नयस्य यो भेदको विषयस्तस्य दर्शकः स व्यवहारनयः कथ्यते,व्यवहियते संग्रहविषयोऽनेनेति व्यवहारः, सोऽपि द्विविधःद्विप्रकारः स्मृतः-कथितः, तस्यैव-पूर्वोदितस्य संग्रहनयस्य भेदवदस्याऽपि भेदभावना कर्त्तव्या,यत एकः सामान्यसंग्रहभेदकव्यवहारः१, द्वितीयो विशेषसंहग्रहभेदकव्यवहारः२, एवं भेदद्वयम् / अथ तयोरूदाहरणे तत्राद्यस्योदाहृतिर्यथा जीवाजीवौ द्रव्यम्। अत्रजीवस्य चेत नस्याजीवस्याचेतनस्य संग्रहसामान्यविषयत्वाद्व्यमिति एकैव संज्ञा। कथम्? द्रवति तांस्तान् पायान गच्छतीति त्रिकालाहनुयायी यो वस्त्वंशस्तद् द्रव्यमिति व्युत्पत्त्या स्वगुणपर्यायवत्त्वेनोभयोरपि जीवाजीवयोर्द्रव्यपदं साधारणमित्याज्जीवद्रव्यमजीवद्रव्यमिति सामान्यसंग्रहभेदकव्यवहारः 1, अथ जीवाःसंरगरिणः, सिद्धाश्च अत्र जीवानामनन्तानां चैतन्यवतां संसारित्वं सिद्धत्वं च विशेषव्यवहारः, अतो द्वितीयभेदः विशेषसंग्रहभेदकव्यवहारः 2, एवमुत्तरोत्तरविवक्षया सामान्यविशेषवत्त्वं भावनीयम् / द्रव्या०६ अ०। (संग्रहरवरूपापवर्णन 'णय' शब्दे चतुर्थभागे 1856 पृष्ट गतम्।) प्रकारान्तरण संग्रह लक्षयतिसंग्रहः संगृहीतस्य, पिण्डितस्य च निश्चयः। संगृहीतं परा जातिः, पिण्डितं च परा स्मृता / / 22 / / सग्रह इति-संग्रहीतस्य पिण्डितस्य च निश्चयः संग्रहस्तत्र संगृहीत परा- | सर्वव्यापिका जातिर्मताऽऽख्याता महासामान्यमिति यावत्। पिण्डितं त्वपरा देशव्यापिकाजातिव्यत्वादिसामान्यमिति यावत्। यद्यप्येतदुभयग्राहित्व प्रत्येकग्राहिण्यवाप्तप्रत्येकग्राहित्वं चाननुगत तथाऽपि सामान्यमात्राभ्युपगमप्रवणैकदेशयोधत्वं संग्रहनयत्वमिति लक्षण बोध्यम्, 'संगहे अपिण्डिअत्थं संगहवयणं समासओ बिति' त्ति सूत्रस्वारस्याचेत्थमुक्तिः। यदा-नैकगमाद्यपगतार्थपदं संग्रहश्च विशेषविनिर्मोकोऽशुद्धविषयविनिर्मोकश्चेत्यादि यथासम्भवमुपादेयस्तेन न प्रस्थल सामान्यविधयाऽसंग्रहात्तत्स्थलप्रदर्शितसंग्रहनयेऽव्याप्तिरियादिक बोध्यम्। “अर्थाना सर्वैकदेशग्रहणं संग्रहः” इति तत्त्वार्थभाष्यम् / अत्र सर्व सामान्यम एकदेशश्च विशेषस्तयोर्ग्रहण संग्रहः सामान्यैकशेषस्वीकार इत्यर्थः / अयं हि घटादीनां भवनानान्तरत्वाद्भावांशएवच प्रत्यक्षादिप्रमाण वृत्तेस्तन्मात्रत्वमेव स्वीकुरुते, घटादिविशेषविकल्पस्त्वविद्योपजनित एवेति मन्यते, अतव्यावृत्तिव्यवहारोऽप्यस्य प्रतियोगिसापेक्षत्वेन कल्पनामूल एवाय चाऽशुद्ध-संग्रहविषय एव तदवान्तरभेदास्तुयत् यत् सामान्यान्तविन विधिव्यवहारं प्रवर्त्तयन्ति तत्तत्सामान्यैकशेषस्वीकारिणो द्रष्टव्याः, तादृशतादृशसंग्रहनयविचारे च तत्तदवान्तरधर्माकारश्रुतिनिश्रितं मतिज्ञानमपि जायत एव, रूपविशेषवान्मणिः पद्मराग इत्युपदेशार्थप्रतिसन्धानानन्तरं चाक्षुषोपयोगे पद्मरागाकारमिव प्रत्यक्षमिति कार्यविशेषादपि तद्विशेष इति दिक्। संग्रहावान्तरभेदैरेव संग्राह्यार्थव्यवहारभेदमुपदर्शयतिएकद्वित्रिचतुःपञ्च-षड्भेदा जीवंगोचराः। मेदाभ्यामस्य सामान्य-विशेषाभ्यामुदीरिताः।।२३।। एकेति-चेतनत्वेन जीव एकः, सस्थावराभ्यां द्विविधः, पुंवेद 1 स्त्रीवेद 2 नपुसकवेदैस्त्रिविधः, देवमनुष्यतिर्यगनारकगतिभेदैश्चतुर्विधः, एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियभेदात्पञ्चविधः, पृथ्वीकायाष्कायतेजस्कायवायुकायवनस्पतिकायत्रसकायभेदात् षड्विधः, इत्येव येजीवगोचराः संग्रहप्रकारा उदीरिताः सिद्धान्ते तेऽस्य संग्रहनयस्य सामान्यविशेषाभ्या-सामान्यसंग्रहविशेषसंग्रहलक्षणाभ्यां भेदाभ्यामवगन्तव्याः। नैगमव्यवहारयोरपेक्षया यथाऽस्य शुद्धत्वं तथाहउपचारा विशेषाश्च, नैगमव्यवहारयोः। इष्टा ह्यनेन नेष्यन्ते, शुद्धार्थपक्षपातिना // 24 // उपचारा इति-उपचाराःगौणव्यवहारा विशेषाश्व तत्तद्व्यावृत्तिरूपा नैगमव्यवहारयोरिष्टाः शुद्धार्थपक्षपातिना एतदुभयापेक्षया स्वविषयोत्कर्षाभिमानिना हि निश्चितमनेन संग्रहनयेन नेष्यन्ते, तथा च-नैगमव्यवहारसंमतोपचारविशेषानवलम्बित्वादस्य शुद्धत्वं स्वसमवायोचितोपचारविशेषयोः कचिदवलम्बनेनाऽपि नापोद्यत इति भावः / नयो० / स्या० / सम्म० / अत्यर्थमतृष्णया धनमेलने, अनु० / संगृह्यते नेनेति संग्रहः / “पुन्नाम्नि घः" / / 5 / 3 / 130 / / इति करणे घ (ज) प्रत्ययः। संग्राहके, पं०सं०१द्वार।