________________ संगल 73 - अभिधानराजेन्द्रः - भाग 7 संगह संगल धा० (सम् घट् ) संघटनं, “समो गलः" ||8|4|113 / / अनेन सम्पूर्वस्य घटतेवैकल्पिको गलादेशः। संगलइ। संघटते। प्रा० 4 पाद। संगलिया स्त्री० (सङ्गलि का) कलिकायाम्, अणु० / संगह पुं० (संग्रह) संग्रहण संग्रहः / स्वीकारणे, स्था० 5 ठा०३ उ०। संग्रहो द्विधा-द्रव्यतो, भावतश्च / तत्र द्रव्यतः-आहारोपध्यादीनाम, भावतः सूत्रार्थी / व्य०३ उ०॥ सम्प्रति संग्रहकुशलो व्याख्येयस्ततः संग्रहप्ररूपणार्थमाहदव्वे भावे संगहो, दव्वे ऊ उक्खहारमादी उ। साहिज्जादी भावे, परूवणा तस्सिमा होइ / / 150 // संग्रहां द्विधा-द्रव्ये, भावे च / तत्र द्रव्ये-उक्षादिकः, आहारादिकश्च / उक्षाबलीवर्दः / भावे भावविषयः साहाय्यादिकस्य भावसंग्रहस्य इयंतक्ष्यमाणा भवति प्ररूपणा / तामेवाहसाहिजवयण दायण-अणुभासण देसकालसंसमरण / अणुकंपणमणुसासण-पूयणमभंतरं करणं / / 151 / / संभुंजणसंभोगे, भत्तोवहिअन्नमन्नसंवासो।। संगहकुसल गुणनिही, अणुकरणकारावणनिसग्गो।।१५२।। 'साहिज़' सहायकृत्यकरणं वचनमाभाषितस्य इच्छाकारभणनम्, अथवा-अभिग्रहस्य-गृहीतमौनव्रतस्य वचनविषयेन केनाऽप्याभाषणं कृते तस्योत्तरभणनं वचनं 'वायण' त्ति वाचनया क्लान्ते गुरौ साधूनां ददाति वाचकम्। अनुभाषणं नाम-आचार्येण भाषिते पश्चाद्भाषणं, न पुनः प्रधानीभूयाचार्यभाषणादग्रेऽवभाषते / देशकालसंस्मरण नाम अस्मिन् देशेअरिमन काले च कर्त्तव्यमिदं ग्लानादीनामिति विज्ञाय सद्देशे यत्काले स्मारयत्याचार्याणां ग्लानादीनामनुकम्पनंदुःखार्तस्यानुकम्पाकरण बालवृद्धासहायान् यथादशकालमनुकम्पते इति भावः। (अनुशासनरय व्याख्या 'अणुरासण' शब्दे प्रथमभागे 421 पृष्ठे गता।) पूजनं नाम यथा-क्रम गुर्वादीनामाहारादिसम्पादनविनयकरणम्, यदि वा-ज्ञानाचारादिषु पञ्चस्वाचारादिषु यथायोगमुद्यच्छतामुपवृहणम्, अभ्यन्तरकरणं नाम-द्वयाः साध्वोर्गच्छमेढीभूतयोरभ्यन्तरे कुलादिकार्यनिमित्तं परस्परमुल्लपतास्तृतीयस्योपशुश्रूषोर्बहिष्करणम्। अथवा-यदिष्टः सन्नभ्यन्तरे गत्वा तत् गच्छादिप्रयोजनं ब्रूते एतदभ्यन्तरकरणम्। यदि वा-तेन सह ये बाह्यभावं मन्यन्ते तानपि तथाऽनुवर्तयति यथा तं तेजस्विनमभिमन्यन्ते एतदभ्यन्तरकरणम् // 151 / / संभोजनं नामयत्सांभोगिकैः सह भोजनसंयोगः, 'भत्तोवहीति' यदि भक्तमुपधि वा संभोगयति। किमुक्तं भवति-यद्यस्योपकारकं भक्तमुपधिर्वा तत्स्वयमुत्पाद्य तस्मै ददाति ततो गृह्णाति वा तथा 'अन्नमन्नं संवासे' इति साम्भोगिकः परस्परमेकत्र वसनमेतानि कुर्वाणः संग्रहकुशलः / व्य०३ उ० (अन्यदत्रैव 'सग-हकुसल' शब्दे वक्ष्यते।) संगृह्णातीति संग्रहः / संग्राहके, व्य०३ उ०। शिष्याणां श्रुतोपादाने, स्था० 5 ठा०३ उ०।। व्य० / संग्रहणं संग्रहः / व्यसनादौ सहायकरणे, स्था० 10 ठा०३ उ०। शिष्याणा संग्रहणे, प्रति०। पं० भा०। दव्वे भावे संगहो, दव्वे आहारमादिएहिं तु। सिक्खावणमगिलाए, गेलण्णे यावि करणं तु / / भावम्मि संगहो खलु,णाणादी तत्तु होति बोधव्वो। जह वट्टावेउं वा, गच्छं तु उवायकुसले तु / / संसारभउव्विग्गो, संविग्गो सोऽवि होति णायव्यो। एतेसिं तु पदाणं, चउभंगा होंति एकेके / तदुभयविसारदो खलु, न संगहे कुसलो एत्थ चउभंगो। तदुभयवाए कुसले, एत्थं पि तु होति चउभंगा। तदुभयसंविग्गेहि वि, चउभंगो एव होति कायव्वो। एवं गुणजातियस्स,पव्वावेउं तु कप्पति तु / / पव्वावेतॉ भणित्ता। पं० भा०१ कल्प। "दव्व भावे संगहों", दव्वे आहारवत्थमादीहिं / भावे णाणादीहि तु, संगेहति संगहो तणं" (पं०भा०५ कल्प।) इत्युक्तलक्षणायां गौणानुज्ञायाम्, नं० / उग्रादिक्षत्रियसंघे, ति। उग्गा भोगा रायम-खत्तिया संगहो भवे चउहा। आरक्खि (ग) गुरुवयंसा, सेसाओ खत्तिया होति।। ति०। संगृह्णाति सामान्यरूपतया सर्ववस्तु क्रोडीकरोतीति संग्रहः। ग० 2 अधि० / अष्ट० / स्था० / अनु० / सूत्र०। (अत्रत्या व्याख्या 'जाइ' शब्दे चतुर्थभागे 1438 पृष्ठे गता।) संगहियपिंडियत्थं, संगहवयणं समासतो बिंति। सम्-आभिमुख्येन गृहीत उपात्तः संगृहीतः, पिण्डित एकजाति-मापन्नः अर्थो विषयो यस्य तत्संगृहीतपिण्डितार्थम्। संग्रहस्य वचनं संग्रहवचन समासतः संक्षेपण ब्रुवते तीर्थकरणधराः / किमुक्त भवति-सामान्यप्रतिपादनपरः संग्रहनयः, शब्दव्युत्पत्तिश्चैवम्-संगृह्णाति अशेषविशेषविरोधनद्वारण सामान्यरूपतया समस्त जगदादत्ते इति संग्रहः। आ०म० १अ०। अथ संग्रहनयं विवृणोतिसंग्रहो द्विविधो ज्ञेयः, सामान्याच्च विशेषतः। द्रव्याणि चाविरोधीनि, यथा जीवाः समे समाः।।१२।। संग्रहातीति संग्रहः, अथवा-संगृह्येते अनेन सामान्यविशेषाविति संग्रहः, 'स च द्विविधः -द्विप्रकारस्तयोरेकः सामान्यौघात् सामान्यसंग्रहः, १द्वितीयो विशेषाद व्यक्तेर्विशेषसंग्रहः 2, इत्थं द्विभेदः / अथानयोः प्रत्येकमुदाहरणे द्रव्याणि धर्मास्तिकायादीनि अविरोधीनि परस्परविरोधरहितानीत्यर्थः / एकद्रव्यसद्भावे द्रव्यषट्कमेव प्राप्यते इति प्रथमोदाहरणम् 1, यथा च जीवाः सर्वेऽविरोधिनो जीवा हि संसृतिविषयिणः सिद्धिविषयिणश्चानन्ता वर्तन्ते। तेषा निरूक्तिः-जीवतिचैतन्यादिति जीवः / अथ च जीव प्राणधारणे, तत्र प्राणा द्विधा-द्रव्य-भावभेदा