________________ सुत्त 946 - अमिधानराजेन्द्रः - भाग 7 सुत्तकप्प ना भवति / ततः सा निश्छेकानिलेजा जायते / यादृशं च कार्ये साध्वीसमीपे पठति तदुपरिष्टाद्वक्ष्यते तेन संज्ञासूत्रमिष्यते। कारकसूत्रं नाम यथा आह-"कम्मन भुजमाणे से समणे णिगंथेकइ कम्मपगडीओ बंधति, गोयमा ! आउवजाओ सत्त कम्मपगडीओ बंधति। से केणट्ठणं भंते ! एव वुचई" त्यादि, प्रज्ञप्तेरालापकः / ननु सर्वज्ञप्रमाण्यादेवैतत् श्रद्धीयते यथाऽऽधाकर्मभुजान आयुर्वर्जानां सप्तानां कर्मप्रकृतीनां बन्धकस्ततः कस्मादुच्यते केनार्थेन भदन्त ! एवमुच्यते इत्यादि। तत आहसवण्णुप्पामण्णा, जइ विय उस्सग्गतो सुयपसिद्धी। वित्थरओऽपायाण य, दरिसणमिइ कारगं तम्हा।।३२०।। यद्यपि सर्वज्ञप्रामाण्यादुत्सर्गत एकान्तेन श्रुतस्य सर्वस्यापि प्रसिद्धिः तथापि विस्तरतोऽपायानां दर्शनं स्यादिति, तस्मादधिकृतार्थप्रसिद्धिकारकम् 'से केणमि त्यादिसूत्रमुपन्यस्यते। ___इदानीं प्रकरणसूत्रमाह - पगरणओ पुण सुत्तं, जत्थ उ अक्खेवनिन्नयपसिद्धी। नमि गोयमकेसिज्जा, अद्दगनालंदइजाय / / 321 / / प्रकरणतः सूत्रं नाम यत्र-स्वसमय एवाक्षेपनिर्णय-प्रसिद्धिरुपवर्ण्यते, यथा नमिप्रव्रज्या गौतमकेशीयम्, आर्द्रकीयनालन्दीयमिति। तदेवमुक्तं संज्ञादिभेदतस्विप्रकार सूत्रम्।) बृ०१उ०१प्रक०। (उत्सर्गापवादभेदतो द्विविधसूत्राणि 'उस्सग्ग' शब्दे द्वितीयभागे 1167 पृष्ठे गतानि।) सन्नाइँ सुत्तससमय, परसमओसग्गमेव अववाए। हीणाहियजिणथेरे, अज्जाकाले य वयणाई।।४२१।। इह मौनीन्द्रे प्रवचने अनेकधा सूत्राणि भवन्ति तत्र किंचित् संज्ञासूत्रं यथा "यो छेए से सागारियं न सेवे" यश्छेकः-पण्डितः स सागारिक मैथुनं न सेवेत / अथवा- 'सव्वाभगंध परिन्नाय निरामगंधो परिव्वए' आमम्-अविशोधिकोटिः गन्ध-विशोधिकोटिः, तथा "आरं दुगुणेणं पारं एगगुणेणं' आरं संसारस्तं द्विगुणेण रागद्वेषयुगलेन पारं निर्वाणं तदेकगुणेन रागद्वेषपरिहारलक्षणे जीवः प्राप्नोतीति गम्यते, आदिग्रहणादेशीभाषानियतं सूत्रंगृह्यते, यथा"दिगिंछा परीसहे" दिगिंछेति-बुभुक्षा स्वसमयसूत्रं यथा "करेमि भंते! सामाइयमि'' त्यादिपरसमयसूत्रं यथा "पचखंधे वयंतेगे, वालाउखणजोइणो।" उत्सर्गसूत्रं यथा "अभिक्खणं निविगयं गया य" इत्यादि अपवादसूत्रं यथा- 'तिण्ह सन्नवरागस्स, निसिज्जा जस्स कप्पई। जराए अभिभूयस्स, बाहियस्स तवस्सिणो" हीनमिति-हीनाक्षरं यैरक्षरैर्विना सूत्रस्यार्थो न पूर्यते। अधिकमित्यधिकाक्षरम्, एवविधं यत्पूर्वमज्ञानतः सूत्रमधीतं तस्यार्थ सम्यगवगम्य हीन प्रतिपूरयति अधिकं परित्यजति। जिनकल्पिकसूत्रं यथा-"तेगिच्छन भिन्नं दिज्जा, संविक्खत्तग वेसए। एवं खु तस्स सामन्नं, जं न कुज्जा न कारवे / " स्थविरकल्पसूत्रं यथा- 'भिक्खू इच्छिज्जा अन्नयरं तेगिच्छं आउं दित्तए" अथवा-जिनकल्पस्थविरकल्पयोः सामान्यसूत्रमिदम'संसट्ठकप्पेण चरिज भिक्खू' आर्यासूत्रं यथा - 'कप्पइ निग्गंथीणं अंतोलित्तं घडिमन्नयं धारित्तए" काले' त्ति-कालविषयं किमपि सूत्रं यथा-अनागतं कालमङ्गीकृत्य। 'नयालभेजा निउणं सहाय, गुणाहियं वा गुणाओसमंवा।" इत्यादि। वयणाइंति-वचनमेकद्विबहुवचनादिकं षोडशधा यथा-पीठिकायां तथा तत्प्रतिपादकं सूत्रं- यथा आचाराने भाषाध्ययने 'एगवयणं वयमाणे एगवयणं वएज्जा दुवयणं वयमाणे दुवयणं वएजा बहुवयणं वयमाणे बहुवयणं वइजा इत्थीवयणं वयमाणे इत्थीवयणं' "इत्थी' इत्यादि आदिशब्दाद्भूयः सूत्रादिपरिग्रहः / इत्थमनेकधा सूत्राणां संभवे तदर्थश्रवणमन्तरेण न शक्यते कीदृशमिति विवेकः कर्तुमिति कर्तव्यमर्थग्रहणम्। अथते शिष्या ब्रूयः। यः कण्ठतः सूत्रे निबद्धोऽर्थस्तेनैव वयं तुष्टाः किमस्माकं दुरधिगमत्वाद्बहुपरिक्लेशे 'मजणनिसणजअक्खा' इत्यादि प्रक्रियापुरस्सरमर्थग्रहणप्रयासेनेति ते इत्थं ब्रुवाणाः प्रज्ञापयितव्याः। कथमित्याहजे सुत्तगुणा खलु ल-क्खणम्मि कहिया उ सुत्तमाई य। अत्थरगहणमराला, तेहि चिय पन्नविजंति॥५२२।। पीठिकायां लक्षणद्वारे ये सूत्रस्य गुणाः "निघोसंसारवंतंच" इत्यादिना कथिताः / यद्वा- 'सुत्तमाई यत्ति-"सुत्तं तु सुत्तमेव उ" इत्यादिना प्रतिपादिताः तैरेव हेतुभिरर्थग्रहणे मरालाः अलसाः शिष्याः प्रज्ञाप्यन्ते / यथा भो भद्रा ! निर्दोषसारवद्विश्वतोमुखादयः सूत्रस्य गुणा भवन्ति।तेच यथाविधे गुरुमुखार्थे श्रूयमाण एव प्रकटीभवन्ति। किंच यथा-द्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तः सन्न किञ्चित् तासां कलानां जानीते एवं सूत्रमप्यर्थेनाबोधितं सुप्तमिव द्रष्टव्यं विचित्रार्थनिबद्धानि सोपस्कराणि च सूत्राणि भवन्ति, अतो गुरुसम्प्रदायादेव यथावदवसीयन्ते यतः, तत इत्थं युक्तियुक्तैर्वचोभिः प्रज्ञापितास्ते विनेयाः प्रतिपद्यन्ते गुरूणामुपदेश गृह्णन्ति द्वादश वर्षाणि विधिवदर्थमिति। गतमर्थग्रहणद्वारम्। बृ०१ उ० २प्रक०ालक्षणे, स०२६ समाधर्मार्थकामार्जनोपाय-प्रतिपादनपरे, ग्रन्थे, आ०म०१ अ०। *सूक्त-न० सुभाषिते, अष्ट०६ अष्ट०। सुत्तक न०(सूत्रक) कटीसूत्रके, प्रश्न०४ आश्र० द्वार। सुत्तकड न०(सूत्रकृत) सूत्रानुसारेण तत्त्वावबोधः क्रियते अस्मिन्निति। स्वनामख्याते द्वितीयेऽङ्गे, सूत्र० 1Q01 अ०१ उ०। सुत्तकप्पपुं०(सूत्रकप्प) सूत्राध्ययनसामाचार्याम् , पं० भा०। 000000000 अधुणा, सुत्तकप्पं तु वोच्छामि। जे तस्स हों ति विधयो, अहिज्जए जेण वा विधिणा।। दुविहम्मि आगमम्मि, सुत्ते अत्थे य जे जहिं भावा। सुत्तमसुत्तकडाणं, पवित्थर ताण अत्थेणं / / वित्थरो णाम सुत्तम्मि, गहिए अत्थो तु दिखती। सुत्ते अहिजियय्वे य, मज्जादा तु इमा भवे / / पडिलेहण काऊणं, सज्झायं पट्ठवे तुवट्ठादि। आयरियादि णिसेजं, करेति पच्छाय सज्झायं / / पोरुसि सातुं सातुं, चरमाए पुडियपत्तपडिलेहे। ताहे तु अत्थपोरुसि, इमिणा विहिणा करेंतीतु / / शामा