________________ सुत्त 647- अभिधानराजेन्द्रः - भाग 7 सुत्त रिएए कसिणा कसाया, सिंचंति मूलाइँ पुणम्भवस्स॥१॥" अथोत्क्रमक्रमयुक्तानि सूत्राणि दर्शयति॥ सत्थपरिण्णादुक्कम्में, गोयरपिंडेसणा कमेणं तु। जंपि य उक्कमकरणं, तमभिणवधम्ममादिट्ठा // 34 // शस्त्रपरिज्ञाध्ययने तेजः कायोद्देशकानन्तरं वायुकायोद्देशकः क्रमप्राप्तोऽपि नोक्तः; किंतु वनस्पतित्रसकायोद्देशको प्ररूप्य पर्यन्ते स भणितः, एवमादिकमुत्क्रमयुक्तं सूत्रमुच्यते। कचित्तु सूत्रे क्रमेणैवार्थपदानि भवन्ति। यथाष्टौ गोचरभूमयः, तद्यथा-"पडाआ अद्धपडा-गोमुत्तिया पत्तंगविहिया। अंतोसंबुक्का वा बाहिं संबुक्का उज्जगीयं तुपव्वाग।" तथा सप्तपिण्डेषणासूत्रमपि क्रमनिबद्ध मन्तव्यम्; तद्यथा- "संसट्ठा असंसट्ठा उव्वडा अचलेवाडग्गहिता उज्झितधम्मिया।" अथवा - पिण्डेषणेति प्रथम पिण्डपदं तत एषणापदं यत्रौघनिर्युक्त्यादौ सूत्रे यथाक्रमं प्ररूप्यते तत्क्रमनिबद्धम्। यदपि चोत्क्रमकरणं शस्त्रपरिज्ञादावध्ययने तदभिनवधर्माद्यर्थम्। किमुक्तं भवति-अभिनवधर्मा शैक्षः सचाद्याप्यपरिणतजिनवचनतया वा युक्तोऽयं परिस्फुटमनुपलभ्यमानतया प्रथमतः प्ररूप्यमाणं न सम्यक् प्रतिपद्यते, अतोवनस्पतित्रसान्प्ररूप्य यदा तेषु सम्यग् जीवत्वं प्रतिपन्नस्तदा वायुकार्य जीवत्वेन प्ररूप्यमाणं सुखेनैव श्रद्धत्ते, एवमादिभिः कारणैरुत्क्रमकरणं मन्तव्यम्। अथ 'बीएहिँ सूइया मूलमाइणो' त्ति पदं व्याचष्टे / / बीएहि कदमादी, विसूइया तेहिं सव्ववणकाओ। भोम्मादिगा वणाओ, सभेदसारोवणा मणिता॥३५।। इहैव सूत्रे बीजैगृहीताः कन्दमूलादयोऽपि भेदाः सूचिताः तेष्वपि तिष्ठतः प्रायश्चित्तं भवतीति भावः / तैश्च कन्दादिभिः सर्वोऽपि वनस्पतिकायः परीत्तानन्तभेदभिन्नः सूचितः, अनेन तु वनस्पतिना भौमादयः कायाः सूचिताः एवं सभेदाः--भेदसहिताः षडपिकायाः सारोपणाः सप्रायश्चित्ता भणिता अवसातव्याः। जत्थ उदंसग्गहणं, तत्थ ऽवसेसाइं सूइयवसेणं। मोत्तूणं अहिगारं, अणुयोगधरा पभासंति // 36|| एवमत्रापि यत्र देशग्रहणंतत्रावशेषाण्यर्थपदानि, सूचितस्वभावत्वप्रत्ययः तादृशेनावगन्तव्यानि, तथा कुत्रापि सूत्रे अनुयोगधरा अधिकार-- प्रस्तुतार्थ मुक्त्वा सूत्रानुपाति-प्रसङ्गागतमर्थ प्रथमतः प्रभाषन्ते। यथा पिण्डाधिकारप्रस्तुते "पुढवीआउक्काए, तेउवाऊवणस्सई चेव / बिइय तिइय चउरो, पंचिं-दिया य लेवो दसमओ अ॥१॥" इत्यादिनौघनिर्युक्तौ सविस्तरं कायप्ररूपणा कृता। एवं विचित्राणि सूत्राणि भवन्ति; अत एव यावदमीषामर्थः सूरिणा न व्यक्तीकृतस्वातन्न सम्यगवगममुपगच्छति। अथौत्सर्गिकापवादिकसूत्रयोर्विषयविभागमाह / / उस्सग्गेणं भणिया-णि जाणि अववादतो य जाणि भवे / कारणजातेन मुणी, सव्वाणि विजाणितव्वाणि // 37 // उत्सर्गेण यानि सूत्राणि भणितानि यानि चापवादतः सूत्राणि तानि हे मुने ! कारणजातेन सर्वाण्यति ज्ञातव्यानि। किमुक्तं भवति-प्रतिषिद्धस्यावरणहेतुः-कारणं, तच्च ज्ञानादि। तत्र चोत्सर्गसूत्रेषु साक्षादुत्सर्ग- | विषयो निबन्धः, अर्थतस्तु कारणजाते तत्राप्यनुज्ञा मन्तव्या / अपवाप- | सूत्रेषु पुनः कारणजातमुदिश्य साक्षादपवादविषयो निबन्धः, अर्थतस्तु तत्राप्युत्सर्गो द्रष्टव्यः / एवं सर्वसूत्रेषु तत्वत उत्सर्गापवादावुभावपि निबद्धाववगन्तव्यौ। ___ अत्र किं पुनरनयोः स्वस्थानमित्याह - उस्सग्गेण निसिद्धा-ई जाइ दव्वाइँ संथरे मुणिणो। कारणजाते जाते, सव्वाणि वि ताणि कप्पंति॥३८॥ उत्सर्गेण संस्तरणमाश्रित्य यानि द्रव्याणि प्रलम्बादीनि मुनेः--संयतस्य प्रतिषिद्धानि तान्येव कारणजाते-विशुद्धालम्बनप्रकारे जाते-समुत्पन्ने सति सर्वाण्यपि कल्पन्ते। अत्र परः प्रश्नयतिजं चिय पयं णिसिद्धं, तं चिय जति भूयों कप्पती तस्स। एवं हो अणवत्था,ण य तित्थं णेव सव्वं तु // 39 // यदेव प्रलम्बादिकं प्राप्तपूर्वं निषिद्धं तदेव यदि भूयः पुनरपि तस्यसाधोः कल्पते ततएवं सूत्रार्थस्य यदृच्छाप्रवृत्तो चरणकरणस्यानवस्था भवति, ततश्च न तीर्थमनुसजति, नैव च प्रतिषिद्धं समाचरतस्तस्य असंयमो भवति, तदभावे दीक्षा निरर्थिका, तन्निरर्थकतायां मोक्षस्याप्यभावः प्राप्नोति। अपि चउम्मत्तवायसरिसं, खुदंसणं ण वि य कप्पऽकप्पं तु। अह ते एवं सिद्धी,ण होज सिद्धी उ कस्सेवं ||4|| आचार्यः पूर्वमेकत्र सूत्रे प्रतिषिध्य पुनस्तदेवानुज्ञायते इदं भवतो दर्शनमुन्मत्तवाक्यसदृशं प्राप्नोति, तथा नापिचेदं कल्पमिदमकल्पमिति व्यवस्था भवति / यदि चैवमपि ब्रुवतः सूत्राभिप्रेतार्थसिद्धिर्भवति तर्हि कस्य न सा भवति चरकपरिव्राजकादीनामप्यसमञ्जसप्रलापिता सा भविष्यतीति भावः। सूरिराह - ण वि किंचि अणुण्णायं, पडिसिद्धं वावि जिणवरिंदेहि। एसा तेसिं आणा, कब्जे सचेण होतय्वं // 41|| हे नोदक ! यदेतद्भवता प्रलपितं तत्प्रवचन-रहस्यानभिज्ञतासूचकम्, यतो निवरेन्द्रैस्तथाविधकारणाभावे नापि किंचिदकल्पनीयमनुज्ञातम्, कारणे च समुत्पन्ने नापि किञ्चित्प्रतिषिद्धं; किंतु एषा तेषां तीर्थकृताम् निश्चयव्यवहारनयद्वयाश्रिता सम्यगाज्ञा मन्तव्या। यदुत कार्ये ज्ञानादावालम्बने सत्येन-सद्भावानुसारेण साधुना भवितव्यं न मातृस्थानतो यत्किञ्चिदालम्बनीयमित्यर्थः / अथवा- सत्यं नाम संयमः तेन कार्ये समुत्पन्ने भवितव्यं यथा यथा संयम उत्सर्पति तथा तथा कर्तव्यमिति भावः। आह च बृहद्भाष्यकार:कजं नाणादीयं, सव्वं पुण होइ संजमो नियमा। जह जह सो होइ थिरो, तह तह कायव्वयं होइ / / 12 / / इदमेव भावयतिदोसाजेण निरंभ-ति जेण खिजंति पुष्वकम्माइं। सो सो मोक्खोवाओ, रोगावत्थासु समणं वा।।३।।