________________ 945 - अभिधानराजेन्द्रः - भाग 7 सुत्त सुत्ते अलंकारा'' इति परिग्रहः / उपनीतं खलु वदन्ति सोपनयं सोपसंहारम्, अनुपचारं नाम-यत्काहलं फल्गुप्रायं तद्विपरीतं सोपचारम्, मितं पदैः श्लोकादिभिर्वा अमितं दण्डकैः, मधुरं त्रिधा सूत्रमधुरम्, अर्थमधुरम्, उभयमधुरम्, एतैरष्टभिर्गुणैरुपेतम्, ब०। (अल्पाक्षरादिशब्देषु तत्तत्पदानामर्थः।) साम्प्रतमेतेषु हीनाक्षरादिषु प्रायश्चित्तमाह। खलियमिलियवाइद्धं, हीणं अमक्खरं वयंतस्स। विचामेलियअप्पडि-पुनघोसे यमासलहुँ॥३०१।। स्खलितं मिलितं व्याविद्धं हीनाक्षरमत्यक्षरं व्यत्यामे डितम् अपरिपूर्णघोषंचवदतः प्रत्येकं प्रायश्चितं मासलघु। स्वामिनः आज्ञाभङ्गे चतुर्गुरु / स तथाऽन्येऽपि करिष्यन्तीति गुरु। यथोक्तकारी न भवतीति मिथ्यात्वे चतुर्लघु / विराधना द्विविधा-आत्मविराधना च, संयमविराधना च आत्मविराधना देवतया छलनम्, संयमविराधना कोऽपि साधुवारयेत् मा स्खलितादीनि कुरुत ततः कलहतोऽस्थिभङ्गादिः आत्मविराधनायां परितापः महाग्लानाधारोपणा संययविराधना सूत्रस्यान्यथोचारणादर्थे विसंवादः, अर्थविसंवादे चरणाभावश्चरणाभावे मोक्षाभाव इति दीक्षा निरर्थिकी। लघुग्रहणात् गुरुकमपि- सूचितम्, हस्वोक्त्या यथा दीर्घस्य सूचनम्। तत्र गुरुकमिति वा अनुद्धातीति वा कालकमिति वा गुरुकस्य नामानि / लघुकमिति वा उद्धातमिति वा शुक्लमिति वा लघुकस्य नामानि / अत्र गुरुलघुविशेषविस्तरपरिज्ञानार्थमाचार्यस्त्रिविधं प्रायश्चित्तं दर्शयति-तथा दानप्रायश्चितं तपः मायश्चित्तं कालप्रायश्चित्तं वा / तत्र दानप्रायश्चित्तं गुरुकं लघुकं च / एवं तपःकालप्रायश्चित्ते अपि गुरुलघुके प्रत्येकं वक्तव्ये। तत्र दानप्रायश्चित्तं गुरुकमाह / / जंतु निरंतरदाणं, जस्स व तस्स व तवस्स.तं गुरुकं। जं पुण संतरदाणं, गुरू वि सो खलु भवे लहुओ // 302 / / यस्य वा तस्य वा तपसो गुरुकस्याष्टमादेरगुरुकस्य निवृतिकादेर्यनिरन्तरंदानं तद्भवति दानप्रायश्चित्तं गुरु। यत्पुनः सान्तरमष्टमादेर्गुरुकस्य तपसो दानं तत् गुर्वपि खलु भवति-- लघु, यथा आपत्तिश्चतुर्लघुकस्य षट्लघुकस्यवा, तत्राष्टमदशमानिसान्तराणि दीयन्ते। एषदानप्रायश्चित्ते गुरुलघुकयोर्विशेषः। सम्प्रति तपःकालयोराह / / कालतवे आसज्जव, गुरु वि होई लहूउ लहुगुरुगो। कालो गिम्हो उ गुरू, अट्ठाइतवो लहू सेसो // 303 / / कालंतपश्चासाद्य गुर्वपि लघु भवति, लध्वपि च गुरु। तत्र कालो गीष्मो गुरुः, तपोऽष्टमादि शेषः कालस्तपश्च लघु / इयमत्र भावना, लघ्वपि यदष्टमादिना तपसा उह्यते तत्तपो गुरु। यन्निर्विकृतिकादिना षष्ठपर्यन्तेनोह्यते तत्तपो लघु। तथा यद् गीष्मे काले उह्यते तत्कालगुरु, वर्षारात्रे हेमन्ते वोह्यमानं काललघु। तदेवं यतः स्खलिताधुचारणे प्रायश्चित्तमज्ञानमिथ्यात्वविराधनाश्च दोषास्तस्मात् सूत्रमस्खलितादिदोषरहितमुच्चारणीयम्-पठनीयं च। एवं पठितस्य सूत्रव्याख्या कर्तव्या। बृ०१ उ०१ प्रक०1 अनु०। आ०म०। अथ वेदं सर्वज्ञभाषितसूत्रलक्षणम्॥ अप्पक्खरमसंदिद्धं, सारवं विस्सतोमुहं। अत्थोभमणवजंच, सुत्तं सव्वण्णुभासियं // 286| अल्पाक्षरं नाम-मिताक्षरंयथा सामायिकसूत्रम्, असंदिग्धं यत्सैन्धवशब्दवत् लवणपटघोटकाद्यनेकार्थसंशयकारिन भवति, सारवत्बहुपर्यायं प्रतिमुखमनेकार्थाभिधायकं वा, विश्वतो मुखम् अनेकमुखं प्रतिसूत्रमनुयोगचतुष्टयाभिधानात्, अस्तोभं च वावैहिहकारादिपदछिद्रपूरणस्तोभकशून्यम् स्तोभका निपाता इति पूर्ववैयाकरणेषु प्रसिद्धेः, अनवद्यम् अगम्-न हिंसाप्रतिपादकं "षट्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि / अश्वमेधस्य वचनात्, न्यूनानि पुशभिस्त्रिभिः / / 1 // " इत्यादिवचनमिव न हिंसाविधायकम्। एवंभूतं सूत्रं सर्वज्ञभाषितमिति। आ०म०१ उ०। एकस्मात् सूत्राद्बहबोऽर्थाः प्रतीयन्ते उत्सर्गा पवादादयः सूत्रभेदाः।। एयारिसम्मि वासो,ण कम्मती जति विसुत्तणुण्णातो। अव्वागडो व मणितो, आयरिओं उवेहती अत्यं / / 2 / / एतादृशे उपाश्रये वासो यद्यपि सूत्रे अनुज्ञातः तथापि न कल्पते यतः अव्याकृतोऽविशेषित एवार्थः सूत्रे भणितः परम् आचार्यस्तमर्थमुत्प्रेक्षितविषयविभागप्रकटनेनोन्मीलयति, यथा किलैकस्मात्, मृत्पिण्डात् कुलालोऽनेकानि घटशरावादिरूपाणि निष्पादयति एवमाचार्योऽप्येकस्मात् सूत्रपदादभ्यूह्याने-केषामर्थविकल्पानामुपदर्शनं करोति / यथा वा सान्धकारगृहादौ विद्यमाना अपि घटादयः पदार्थाः प्रदीपं विना न विलोक्यन्ते तथा सूत्रेऽप्यर्थविशेषाः आचार्येणाप्रकाशिताः सन्तोऽपि नोपलभ्यन्ते। किं च।। जंजह सुत्ते भणियं, तहेव तंजह वियालणा नत्थि। किं कालियाणुओगो, दिह्रो दिहिप्पहाणेहिं // 26|| यद्-वस्तु यदात्म्येन विधिरूपेण वा प्रकारेण सूत्रे भणितंतत्तथैव यदि प्रतिपत्तव्यं विचारणा-विषयविभागव्यवस्थापनायुक्तः विमर्शो वा नास्ति-न क्रियते, ततः किं केन हेतुना कालिकश्रुतस्यानुयोगो दृष्टोविधेयतयोपलब्धो दृष्टिप्रधानैः, केवलज्ञानश्रुतज्ञानरूपालोचनप्रवरैस्तीर्थकरगणधरैः / अथवा- प्रधान- गमादिनयमतिविशारदैः श्रीभद्रबाहुस्वामिभिः, किमिति नियुक्तिकरणद्वारेण कालिकश्रुतानुयोगो दृष्टः -प्रतिपादितः। अपि च॥ उस्सग्गसुतं, किंचि य, किंचि य अववातियं भवे सुत्तं / तदुभयसुत्तं, किंचि य, सुत्तस्स गमा मुणेयव्वा // 27 // किंचिदुत्सर्गसूत्रं, किञ्चित्पुनरापवादिकं सूत्रं, किञ्चित्तदुभयसूत्रम्। तच द्विधा- औत्सर्गापवादिकम् अपवादौत्सर्गिकम् / एते सूत्रस्य गमाः प्रकाराश्चत्वारो ज्ञातव्याः। अथवागमा नाम-द्विरुचारणीयानि पदानि, तद्यथा-उत्सर्गोत्सर्गिकम् अपवादापवादिकम्। एवमेते द्वौ भेदौ चत्वारश्च प्रागुक्ता इत्येवं सूत्रस्य षड्भेदाः संजाताः, एतेच पुरस्तादुदाहरिष्यन्ते।