________________ सुत्त 143- अभिधानराजेन्द्रः - भाग 7 सुत्त अत्र निर्वचनम्- 'जाणयसरीरभविअसरीरवइरित्तं दध्वसुअ' मित्यादि, यत्रज्ञसरीरभव्यशरीरयोः सम्बन्धि अनन्तरोक्तस्वरूपंन घटतेतत्ताभ्यां व्यतिरिक्तं-भिन्ने द्रव्यश्रुतम्, किं पुनस्तदित्याह- 'पत्तयपोत्थयलिहिय' ति पत्रकाणि-तालताल्यादिसंबन्धीनि तत्संघातनिष्पन्नास्तुपुस्तकाः, ततश्च पत्रकाणि च पुस्तकाश्च तेषु लिखितं पत्रकपुस्तकलिखितम् , अथवा-पोत्थयं ति-पोतं वस्त्र पत्रकाणिच पोतं च तेषु लिखितं पत्रकपोतलिखितं ज्ञशरीरभव्यशरीरत्यतिरिक्त द्रव्यश्रुतम् , अत्र च पत्रकादिलिखितस्य श्रुतस्य भावश्रुतकारणत्वात्, द्रव्यन्वमवसेयम्, नोआगमत्वं तु आगमतो द्रव्यश्रुत इव आगमकारणम्या-त्मदेहशब्दत्रयरूपस्याभावाद् भावनीयम् / तदेवमेकेन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमुक्तम्।साम्प्रतंतदेव प्रकारान्तरेण निरूपयितुमाह'अहवे' त्यादि, अथ वा-श्रुतं पञ्चविधं प्रज्ञप्तम, तद्यथा-'अंडयमि' त्यादि, अत्राऽऽहननु श्रुत प्रक्रान्ते सूत्रस्य प्ररूपणमप्रस्तुतम्, सत्यम्, किन्तुप्राकृतशैलीमङ्गीकृत्य श्रुतस्याण्डजादिसूत्रस्यं च सूत्रलक्षणेनैकेन शब्देनाभिधीयमानत्वसाम्यादिदमपि प्ररूपयतीत्यदोषः। प्रसङ्गतोऽण्डजादि-सूत्रस्वरूपज्ञापनेन शिष्यव्युत्पत्तिश्चैवं कृता भवति, अत एव भावश्रुते प्रक्रान्ते नामश्रुरूपदिप्ररूपणमप्रस्तुतमित्याद्यपि प्रेर्यमपान्तं, तस्यापि शिष्यव्युत्पादनादिफलत्वात्। न च भावश्रुतप्रतिपक्षस्य नामश्रुतादः प्ररूपणमन्तरेण भावश्रुतस्य निर्दोषत्वादिस्वरूपनिश्चयः कर्तु पार्यते, 'जे सव्वं जाणइ से एगं जाणइ' त्ति वचनाद् इत्यलं विस्तरेण / अवाद्यभेदज्ञापनार्थमाह- 'से कि त्' मित्यादि, अत्रोत्तरम्- 'अंडयं हंसगढभाइ' त्ति- अण्डाजातमण्डजम्, हंसः- पतङ्गश्चतुरिन्द्रियो जीवविशेषः, गर्भरतु तन्निवर्तितः कोसिकाकारः, हंसस्य गर्भो हसगभः तदुत्पन्नं सूत्रमण्डजमुच्यते, आदिशब्दः स्वभेदप्रख्यापनपरः। ननु यदि हंसग ट्पन्नसूत्रमण्डलमुच्यते तर्हि सूत्रे 'अंडयं हंसगमाइ'त्ति सामानाधिकरण्यं विरुध्यते, हंसगर्भस्य प्रस्तुतसूत्रकारणत्वादेव सत्यम् / कारणे कार्योपचारात्तदविरोधः, कोशकारभवं सूत्रं चटकसूत्रमिति लोकं प्रतीतमण्डजमुच्यत इति हृदयम्, पञ्चेन्द्रियहंसगभसम्भवमित्यन्ये। ‘से तमि' - त्यादि निगमनम्। अथ द्वितीयभेद उच्यते- 'से किंत' मित्यादि अत्र निर्वचनम्-बोंडयं फलिहमाइत्ति-बोण्ड वमनीफलं तस्माज्जातं बोण्डज, फलिही-वमनी तस्याः फलमपिफलिहंकासाश्रयं कोशकरूपंतदिहापि कारणे कार्योपवाराद्वोण्डजंसूत्रमुच्यते इतिभावः / 'से तमित्यादि निगमनम्। अथ तृतीयभेद उच्यते- 'से किंतमि त्यादि, अत्रोतरम्- 'कीडय पंचविहमि, त्यादि, कीटाज्जातं कीटजं सूत्रं तत् पञ्चावधं प्रज्ञप्तम्, तद्यथा- 'पट्टे त्ति पट्टसूत्रं मलयम् अंशुकम्, चीनांशुकं कृमिरागम्। अत्र वृद्धव्याख्या किल यत्र विषये पट्टसूत्रमुत्पद्यते, तत्रारण्ये वननिकुञ्जस्थाने मांसचीडादिरूपस्याऽऽमिषस्य पुजाः क्रियन्ते, तेषां च पुञ्जानां पार्श्वतो निम्ना उन्नताश्च सान्तरा बहवः कीलका भूमौ निखायन्ते तत्र वनान्तरेषु संचरन्तः पतङ्ग कीटाः समागत्य मासांद्यभिलापोषभोगलुब्धाः कीलकान्तरेष्वितस्ततः परिभ्रमन्तो लालाःप्रमुञ्चन्ति, ताश्च कीलकेलेषु लग्राः परिगृह्यन्ते, इत्येतत् पट्टसूत्रमभिधीयते / अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव मलयम्, इत्थमेव | चीनविषये बहिस्तादुत्पन्नं तदेवांशुकम् इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमभिधीयते, क्षेत्र विशेषाद्धि कीटविशेषस्तद्विशेषात् तुपट्टसूत्रादिव्यपदेश इति भावः। एवं क्वचिद्विषये मनुष्यादिशाणितं गृहीत्वा केनापि योगेने युक्तं भाजनसम्पुटे स्थाप्यते, तत्रच प्रभूताः कृमयः समुत्पद्यन्ते, तेच वाताभिलाषितो भाजनच्छिद्रैर्निर्गत्य आसन्नं पयटन्तो यल्लालाजालमभिमुञ्चन्ति तत् कृमिरागंपट्टसूत्रमुच्यते, तच्चरक्तवर्णकृमिसमुत्थत्वात्स्वपरिणामतएव रक्तं भवात। अन्ये त्वभिदधति-यदातत्रशोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्टिसं परित्यज्य रसो गृह्यत, तत्र च कश्चिद् योगः प्रक्षिप्यत, ततस्तेन यद् रज्यते पट्टसूत्रं तत् कृमिरागमुच्यते / तच्च धौताद्यवस्थासु मनागपि कथञ्चिद्रागं न मुञ्चति, ‘से तमि' त्यादि निगमनम् / अथ चतुर्थो भेद उच्यते- 'से किंतमि' त्यादि, अत्रोत्तरम् (अनु०1)(बालयपदव्याख्या 'बालय' शब्द पञ्चमभागे गता।) अथपञ्चमो भेदोऽभिधीयत-‘से किंतमि' त्यादि, बल्काज्जातंवल्कजं, तच सणप्रभृति, क्वचित् पुनरतस्यादीति पाठ, तत्रातसीसूत्रं मालवादिदेशप्रसिद्धम्, 'सेतमि' त्यादि निगमनम्। उक्तं पञ्चविधमण्डजादिसूत्रं, तगणन चोक्तं ज्ञाशरीर-भव्यशरीरव्यतिरिक्त द्रव्यश्रुतम्, अतस्तदपि निगमयति- ‘से तं जाणने' त्यादि, एवगणनेन च समर्पित नोआगमतो द्रव्यश्रुतमतस्तदपि निगमयति- 'से तं नोआगमओ' इत्यादि, एतत् समर्थने च समर्यितं द्विविधमपि द्रव्यश्रुतमतस्तदपि निगमयति- 'सेतं दव्वसुअमि, त्यादि। अनु०॥ विध्युद्यमादिसूत्राणि॥ विहि 1 उज्जम 2 वन्नय-३ भय / उस्सग्ग 5 ऽववाय 6 तदुभयगयाइं७। सुत्ताई बहुविहाईसमए गंभीरभावाई।।१०६|| ध००३ अधि०३ लक्ष०। (अस्याः व्याख्या 'सद्धा शब्देऽस्मिन्नेव भागे गता।) अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्। किं तत् इत्याह॥ अप्पग्गन्थमहत्थं, बत्तीसदोसविरहियं जंच। लक्खणजुत्तं सुत्तं, अट्ठहि य गुणेहि उववेयं |||| अल्पग्रन्थं महार्थ च सूत्रं विज्ञेयम्, "उत्पादव्यय-ध्रौव्ययुक्तं सत् "इत्यादिवत् सूत्र मल्पग्रन्थं महार्थं च भवतीत्यर्थः, यच द्वात्रिंशद्दोषविरहितम्, तल्लक्षणयुक्तं सूत्रमुच्यते। ते चैतेऽन्यत्रोक्ता द्वात्रिंशदोषाः-- "अलियमवघायजणय, निरत्थयमवत्थयं छलं दुहिलं। निस्सारमहियमूर्ण, पुणरुत्तं वाहयमजुत्तं / / 1 / / . कमभिन्नवयणभिन्नं, विभत्तिभिन्नं च लिंगभिन्नं च। अणमिहियमपयमेव य, सहावहोणं ववहियं च / / 2 / / कालजइच्छविदोसो, समयविरुद्धं च वयणमेतं च।