________________ सुण्णवाय ९४०-अभिधानराजेन्द्रः - भाग 7 सुण्णवाय मो वेत्यादौ शरीराश्रयतयाऽप्युपपत्ते, किश्चप्ययेयमहङ्कारप्रत्यय आत्मगोचरः स्यात् तदान कादाचित्कः स्यात्। आत्मनः सदा संनिहितत्वात्, कादाचित्कं हि ज्ञाने, कादाचित्ककारणपूर्वकं दृष्टम् , तथा सौदामिनीज्ञानमिति। नाप्यनुमानेन अव्यभिचारलिङ्गाऽग्रहणात्। आगमानां च परस्परविरुद्धार्थवादिनां नास्त्येष प्रामाण्यम् / तथाहि--एकेन कथमपि कश्चिदर्थो व्यवस्थापितः अभियुक्ततरेणाऽपरेण स एवान्यथा व्यवस्थाप्यते, स्वयमध्यवस्थितप्रमाण्यानांच तेषां कथमन्यव्यवस्थापने सामर्थ्यम् ? इति नास्ति प्रमाता प्रमेयं च बाह्योऽथः, स चानन्तरमेव बाह्याथप्रतिक्षेपक्षणे निर्लोठितः। प्रमाणं च स्वपरावभासि ज्ञानम्, तच प्रमेयाभावे कस्य ग्राहकमस्तु? निर्विषयत्वात्। किं च-एतत् अर्थसमकालम् तद्भिन्नकालं वा तद् ग्राहकं कल्प्यते ? आद्यपक्षे त्रिभुवनवर्तिनोऽपि पदार्थास्तत्राऽवभासेहन; समकालत्वाविशेषात् / द्वितीये तु, निराकारम्, साकारं वा तत्स्यात् ? प्रथमे प्रतिनियत पदार्थपरिच्छेदानुपपत्तिः। द्वितीये तु किमयमाकारो व्यतिरिक्तः, अव्यतिरक्तो वा ज्ञानात् ? अव्यातरेके, ज्ञानमेवायम्, तथा च निराकारपक्षदोषः। व्यतिरेके यद्ययं चिदूपः, तदानीमाकारोऽपि वेदकः स्यात्, तथा च-अयमपि निराकारः साकारो वातद्धेदको भवेत् ? इत्यावर्त्तनेनाऽनवस्था। अथ-अचिद्रूपः किमज्ञातः, ज्ञातो वा तज्झापकः स्यात् ? प्राचीने विकल्पे, चैअस्येव मैत्रस्यापि ततज्झापकोऽसौ स्यात् / तदुत्तरे तु, निराकारेण, साकारण वा ज्ञानेन, तस्यापि ज्ञानं स्यात् इत्याद्यावृतावनवस्थैवेति / इत्थं प्रमाणाभावे तत्फलरूपा प्रमिति कुतस्तनी ? इति सर्वशून्यतैव परं तत्त्वमिति तथा च पठन्ति-यथा यथा विचार्यन्ते, विशीर्यन्ते तथा तथा। यदेतद् स्वयमर्थेभ्यो, रोचते तत्र के वयम् ? // 1 // '' इति पूर्वपक्षः / विस्तरतस्तु प्रमाणखण्डनं तत्त्वोपप्लवसिंहादवलोकनीयम् / / अत्र प्रतिविधीयते- ननु यदिदंशून्यवादव्यवस्थापनाय देवानांप्रियेण वचनमुपन्यस्तम्, तत्शून्यम्, अशून्यं वा ? शून्यं चेत्, सर्वोपाख्या विरहितत्वात् खपुष्पेणेव नाऽनेन किञ्चित्साध्यते, निषिध्यते वा। ततश्च निष्प्रतिपक्षा प्रमाणादितत्त्वचतुदृष्टयीव्यवस्था। अशून्यं चेत् प्रलीनस्तपस्वी शून्यवादः ? भवद्वचनेनैव सर्वशून्यताया व्यभिचारात् तत्रापि निष्कण्टकैव सा भगवती / तथापि प्रामाणिकसमयपरिपालनार्थ किञ्चित् तत्साधनं दूष्यते। तत्र यत्तावदुक्तम्-प्रमातुः प्रत्यक्षेण न सिद्धिः इन्द्रियगोचराऽतिक्रान्तत्वादिति, तत्सिद्धसाधनम्। यत्पुनः, अहंप्रत्ययेन तस्य मानसप्रत्यक्षत्वमनैकान्तिकमित्युक्तम्, तदसिद्धम् / अहं सुखी, अहं दुःखी इति अन्तर्मुखस्य प्रत्ययस्य आत्मालम्बनतयैवोप-पत्तेः / तथा चाहुः "सुखादि चेत्यमानं हि, स्वतन्त्रं नानुभूयते। मतुवर्थानुवेधात्तु, सिद्धं ग्रहणमात्मनः॥१।। इदं सुखमिति ज्ञानं, दृश्यंत नघटादिवत्। अहं सुखी ति तु ज्ञप्ति-रात्मनोऽपि प्रकाशिका // 2 // " यत्पुनः अहं गौरः, अहं श्यामः' इत्यादिबहिर्मुखः प्रत्ययः स खल्वात्मोपकारकत्येन लक्षणया शरीरे प्रयुज्यते; यथा प्रियभृत्येऽहमितिव्यप्रदेशः / यच, अहंप्रत्ययस्य कादाचित्कत्यम्, तत्रेयं वासनाआत्मा तावदुपयोगलक्षणः, सच साकारा-नाकारोपयोगयोरन्यतरस्मिन्नियमेनोपयुक्त एव भवति। अहं प्रत्ययोऽपि चोपयोगविशेष एव, तस्य च कर्मक्षयोपशमवैचित्र्याम् इन्द्रियानिन्द्रियालोकविषयादिनिमित्तसव्यपेक्षतया प्रवर्त्तमानस्य कादाचित्कत्वमुपपन्नमेव / यथा-बीजं, सत्यामप्यकुरोपजननशक्ती पृथिव्युदकादिसहकारिकारणकलापसंभवहितमेवाऽकुरं जनयति, नान्यथा। न चैतावना तस्याड्कुरात्पादने, कादाचित्केऽपि तदुत्पादनशक्तिरपि कादाचित्की, तस्याः कथांचन्नित्यत्वात् / एवमात्मनः सदा सन्निहितत्वेऽप्यहंप्रत्ययस्य कादाचित्कत्वम् / यदप्युक्तम तस्याऽव्यभिचारि लिङ्ग किमपिनोपलभ्यत इतितदप्यसारं; साध्याऽविनाभाविनोऽनेकस्य लिङ्गस्य तत्रोपलब्धेः, तथाहि-रूपाधुपलब्धिः सकर्तका, क्रियात्वात्छिदिक्रियावत्, यश्चास्याः कर्तास आत्मा।नचात्र चक्षुरादीनां कर्तृत्यम्, येषां कुठारादिवत् करणत्वेनास्वतन्त्रत्वात् / करणत्वं चैषां पौद्गलिकत्वेनाऽचेतनत्वात्, परप्रर्यत्वात्, प्रयोक्तृव्यापारनिरपेक्षप्रवृत्त्यभावात्। यदि हि इन्द्रियाणामेव कतृव्यं स्यात् तदा तेषु विनष्टेषु पूर्वाऽनुभूतार्थस्मृतेः, 'भया दृष्टम, स्पृष्टम्, घ्रातम्, आस्वादितम्, श्रुतम्' इतिप्रत्ययानामेककतृकत्वप्रतिपत्तेश्च कुतः संभवः? किञ्चि-इन्डियाणां स्वस्वविषयनियतत्वेन रूपरसयोः साहचर्य प्रतीतौन सामर्थ्यम्। अस्ति / च, तथाविधफलादे रूपग्रहणानन्तरं तत्सहचरितरसानुस्समणम्, दन्तोदकसंप्लवान्यथानुपपत्तेः / तस्मादुभयोगवाक्षकयोरन्तर्गतः प्रेक्षक इव; द्वाभ्यामिन्द्रियाभ्यां रूपरसयोर्दशी कश्चिदेकोऽनुमीयते। तस्मात्करणान्येनाति। यश्चैषां व्यापारयितास आत्मा। तथा, साधनोपादानपरिवर्जनद्वारेण हिताहितप्राप्तिपरिहारसमर्था चेष्टा प्रयत्नपूर्विका, विशिष्टक्रियात्वात, रथक्रियावत्, शरीरं च प्रयत्नवदधिष्ठितम् विशिष्ट - क्रियाश्रयत्वात्, रथवत्। यश्चाऽस्याऽधिष्ठाता, स आत्मासारथि-वत्। तथाऽत्रेव पक्षो इच्छापूर्वकविकृतवाय्वाश्रयत्वातद् भस्त्रावत्, वायश्चप्राणापानादिः, यश्चान्याधिष्ठाता, स आत्मा, भस्वाध्यापयितृवत् / तथाऽत्रैव पक्षे, इच्छाधीननिमेषोन्मेषवदवयवयोगित्वाद्, दारुयन्त्रवत्। तथा शरीरस्य वृद्धिक्षतभनसंरोहणं च प्रयत्नवत्कृतम्, वृद्धिक्षतभनसंरोहणत्वात् गृहवृद्धिक्षतभग्नसंरोहणवत्। वृक्षादिगतेन बृद्ध्यादिना व्यभिचार इति चेत्। न, तेषामपि एकेन्द्रियजन्तुत्वेन सात्मकत्वात्। यश्चैषां कर्ता, स आत्मा, गृहपतिवत्। वृक्षादीनां च सात्मकत्वमाचाराङ्गादेरवसेयम्, किं चिद्वक्ष्यते च। तथा प्रेयं मनः, अभिमतविषयसंबन्धनिमित्तक्रियाश्रयत्वाद् , दारकहस्तगतगोलकवत्। यश्चास्य प्रेरकः, स आत्मा, इति। तथा, आत्म-चेतन--क्षेत्रज्ञ-जीव-पुरुषादयः पर्याया न निर्विषयाः पर्यायत्वाद्, घट--कुट-कलशादिपर्यायवत्, व्यतिरेके षष्ठभूतादि। यश्चैषां विषयः, स आत्मा। तथा अस्त्यात्मा, असमस्तपर्यायवाच्यत्वात्, यो योऽसाङ्केतिकशुद्धपर्यायवाच्यः, सः सोऽम्भोरुहादयः। तथा सुखादीनि द्रव्याश्रितानि गुणत्वाद, रूपवत्, योऽसौ गुणी, स आत्मा, इत्यादिलिङ्गानि। तस्यादनुमानततोऽप्यात्मा सिद्धः / स्या०। आभाष्य भगवता किमुक्तोऽयमित्याह / / किं मन्ने अस्थि भूया, उयाहु नत्थि त्ति संसओ तुज्झ।