________________ सुणिऊण 936 - अभिधानराजेन्द्रः - भाग 7 सुण्णवाय सुणिऊण-अव्य०(श्रुत्वा)"चि-जि-श्रु-हु-स्त-लू-पू -धू -- गां णो हस्वच" ||8/4/241 / / इति णकारः बहुलाधिकाराद्विकल्पेन ह्रस्वः / सोऊण / सुणिऊण / आकयेत्यर्थे, 'सुणित्ता' अप्यत्र / प्रा०४ पाद। सूत्र० / सुणिट्ठिय-पुं०(सुनिष्ठित) सुष्टु- निष्ठितम् अतिशयेन रस प्रकषप र्वन्तात्मिका निष्ठां गते, उत्त०१ अ०। दश०। सुणिप्पकंप-त्रि०(सुनिष्प्रकम्प) अतीव निश्चले, दर्श०४ तत्त्व। सुणिम्भिय-त्रि०(सुनिर्मित) सुष्ठु- अतिशयेन निर्मितं सुनिर्मितम् / सुविरचिते, जी०३ प्रति० 4 अधि० / कल्प० / "सुनिम्मि-यसुगूढजाणुमंडलसुबद्धा" सुष्टु अतिशयेन निर्मितः सुनिर्मितः, एवं सुगूढमांसलतया अनुपलक्ष्यमाणंजानुमण्डलं सुबद्धंस्नायुभिरतीवबद्धंयासां ताः सुनिर्मितसुगूढजानुमण्डलसुबद्धाः / सुबद्धशब्दस्य निष्ठान्तस्य परनिपातः सुखादिदर्शनात, प्राकृत्वाद्वा। जी०३ प्रति० 4 अधि०। उत्त०। सुणिय-अव्य०(श्रुत्वा) आकयेत्यर्थे, आचा०१ श्रु०५ अ०३ उ०। प्रज्ञा०। आ० म०। सुणिरुद्धदसण-त्रि०(सुनिरुद्धदर्शन) सुष्ठ अतिशयेन निरुद्धम्-आवृतं दशनं सम्यगवबोधरूपं यस्य स तथा। दर्शनमोहनीयकर्मणे ज्ञानदर्शनावरणकर्मणोर्वोदये वर्तमाने, 'हंदि हु सुनिरुद्धदसणे मोहानज्जणं कडेण कम्मुणा'। सूत्र०१श्रु०२ अ०३ उ०। सुणिविट्ठ-त्रि०(सुनिविष्ट) सुखोपविष्ट, ग०२ अधि०। सुणासंत-त्रि०(सुनिशान्त) परिचिते, आचा०१ श्रु०८ अ०१ उ०। श्रुते, गते च आचा०२ श्रु०१ चू०२ अ०२ उ०। सुणिसिय-त्रि०(सुनिशित) अतितेजिते, जी०३ प्रति० 4 अधि०। अतिनिशिते, प्रश्न०३ आश्र० द्वार। उज्यालिते, दश० 10 अ०। सुणी-स्त्री०(शुनी) कुक्कुर्याम्, सूत्र०१श्रु०३ अ०१उ०। उत्त०। सुणेवत्थ-त्रि०(सुनेपथ्य) सुप्रावृते, बृ०३ उ०। सुण्ण-न०(शून्य) श्वभ्यो हितमिति वाक्ये उगवादिभ्यो यदित्यत्र (पा० 5 / 12) शुनः संप्रसारणं दीर्घत्वमिति वचनतो यति प्रत्यये संप्रसारणे दीर्घत्वे च शून्यम्। उद्वसे, उत्त०३ अ०। विशे०। सुण्णगिह-न०(शून्यगिह) शून्यागारे, नि० चू०८ उ०। सूत्र० / आवor | सुण्णवम्गणा-स्त्री०(शून्यवर्गणा) वर्गणान्तरबाहुल्यपरिज्ञानार्थ प्ररूप णामात्रायां लोकप्रसिद्धायां वर्गणायाम, पं० सं०५ द्वार। सुण्णवाय पुं०(शून्यवाद) सर्वस्य जगतः शून्यताङ्गीकारेण सवनास्तित्ववादे, स्या०। अथ तत्त्वव्यवस्थापकप्रमाणादिचतुष्टव्यवहारापलापिनः शून्यवादिनः सौगतजातीयस्तित्कक्षीकृतपक्षसाधकस्य प्रमाणस्याङ्गीकारानङ्गी- | कारलक्षणे पक्षद्वयेऽपि तदभिमताथाऽसिद्धिप्रदर्शनपूर्वकमुपहसन्नाहविना प्रमाणं परवन्न शून्यः, स्वपक्षसिद्धेः पदमश्नुवीत। कुप्येत्कृतान्तः स्पृशते प्रमाण महो ! सुद्दष्टं त्वदसूयिदृष्टम् // 17 // शून्यः शून्यवादी प्रमाणं प्रत्यक्षादकं विना अन्तरेण स्वपक्षसिद्धेःस्वाभ्युपगतशून्यवादनिष्पत्तेः पदं प्रतिष्ठां नाश्नुवीत- न प्राप्नुयात्। किंवत् ? परवत्- इतरप्रामाणिकवत्, वैधhणायं दृष्टान्त / यथा इतरे प्रामाणिकाः प्रमाणेन साधकतमेन स्वपक्षसिद्धिमश्नुवते, एवं नायम्, अस्त मते प्रमाण-प्रमेयादिव्यवहारस्यापारमार्थिकत्वात्"सवएवायमनु-मानानुमयव्यवहारो बुत्यारूढन धर्मधर्मिभावेन न बहि "सदसत्त्वमपेक्षते " इत्यादिवचनात्। अप्रामाणिकश्च शून्यवादाभ्युपगमः कथमिव प्रेक्षावतामुपादेयो भविष्यति प्रेक्षावत्त्वव्याहतिप्रसङ्गात् ? अथ चेत् स्वपक्षसंसिद्धये किमपि प्रमाणमयमङ्गीकुरुते, तत्रायमुपालम्भ, 'कुप्येदित्यादि' प्रमाण प्रत्यक्षाद्यन्यतमत् स्पृशते आश्रयमाणाय, प्रकरणादस्मै-- शून्यवादिने, कृतान्तस्तत्सिद्धान्तः कुप्येत् - कोपं कुर्यात्; सिद्धान्तबाधः स्यादित्यर्थः / यथा किल सेवकस्य विरुद्धवृत्त्या कुपितो नृपतिः सवस्वमपहरति, एवं तत्सिद्धान्तोऽपिशून्यवादविरुद्धं प्रमाणव्यवहारमङ्गीकुर्वाणस्य तस्य सवस्वभूतं सम्यग्वादित्वमपहरति / किश्चस्वागमोपदेशेनैव तेन वादिना शून्यवादः प्ररूप्यते, इति स्वीकृतमागमस्य प्रामाण्यमिति कुतस्तस्य स्वपक्षसिद्धिः, प्रमाणाङ्गीकरणात् ? किञ्चप्रमाणं प्रमेयं विना न भवतीति प्रमाणानङ्गीकरणे प्रमेयमपि विशीर्णम् / ततश्चास्य मूकतैव युक्ता, नएनःशून्यवादोपन्यासाय तुण्ड-ताण्डवाडम्बर शून्यवादस्याऽपि प्रमेयत्वात् / अत्र चस्पृशिधातुंकृतान्तशब्दच प्रयुञ्जानस्य सूरेरयमभिप्रायः- यद्यसौ शून्यवादी दूरे प्रमाणस्य सर्वथाङ्गीकारो यावत् प्रमाणस्पर्शमात्रमपि विधत्ते, तदा तस्मै कृतान्तोयमराजः कुप्येत्, तत्कोपो हि मरणफलः; ततश्च स्वसिद्धान्तविरुद्धमसौ, प्रमाणयन् निग्रहस्थानापन्नत्वाद् मृतएवेति।एवंसति'अहो' इत्युपहास-प्रशंसायाम्' तुभ्यमसूयन्ति गुणेषु दोषानाविष्कुर्वन्तीत्येवंशीलास्त्व-दसूयिनस्तन्त्रान्तरीयास्तैदृष्टमत्यज्ञानचक्षुषानिरीक्षितमहो! सुदृष्ट साधुदृष्टम्। विपरीतलक्षणयापहासान्न सम्यग् दृष्टमित्यर्थः, अत्राऽसूयधातोस्ताच्छीलिकणप्राप्तादपि बाहुलकाणिन् / असूयाऽस्त्येषामित्य-सूयिनस्त्वय्यसूयिनस्त्वदसूयिन इति मत्वर्थीयान्तंवा। त्वदसूयुदृष्टमिति पाठापिन किञ्चिदचारु, असूयुशब्दस्योदन्तस्योदयनाद्यैायतात्पर्यपरिशुद्ध्यादौ मत्सरिणि प्रयोगादिति / इह शून्यवादिनामयमभिसंधिः-- प्रमाता, प्रमेयं, प्रमाणं, प्रतितिरिति तत्त्वचतुष्टयं परपरिकल्पितमवस्त्वेव विचारासहत्यात्, तुरङ्गशृङ्गवत् / तत्र प्रमाता तावदात्मा तस्य च प्रमाणग्राह्यत्याभावोदभावः, तथाहि-न प्रत्यक्षण तत्सिद्धिरिन्द्रियगोचरातिक्रान्तत्वात् / यत्तु अहङ्कारप्रत्ययेनतस्यमानसप्रत्यक्षत्वसाधनम्, तदप्यनैकान्तिकम्,तस्याहगौरः श्या