________________ सीस 106- अभिधानराजेन्द्रः - भाग 7 सीस अप्पच्छंदमईओ, सच्छंदं कुणइ सव्वकज्जाइं। पत्थियओ संपत्थिय-बिइज्जओ निच्चगमिउव्व ||1449ll गंतुमणो जो जंपइ, नवरि समप्पउ इमो सुयक्खंधो। पढिउं सोउंच तओ, गच्छं, को अत्थए एत्थ ?||1450 / / तिस्रोऽपि गतार्थाः। नवरं 'निचगमिउ व्व' त्ति यो यः प्रस्थितस्तत्तद् द्वितीयः प्रस्थित उच्यते। क इव ? नित्यगामीव पथिक इवेत्यर्थः। अथ योग्यशिष्यगुणान् दर्शयन्नाहविणओणएहिँ पंजलि-यडेहि छंदमणुयत्तमाणेहिं। आराहिओ गुरुजणो, सुर्य बहुविहं लहुँ देइ॥१४५१॥ विनयो-वन्दनादिलक्षणस्तेनावनता विनयावनतास्तैरित्थंभूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जलयस्तैः, तथा छन्दोगुर्वभिप्रायस्तमिङ्गिताकारादिना विज्ञाय तदध्यवसितश्रद्धानसमर्थनकरणकारणद्वारेणानुवर्तमानैराराधितो गुरुजनः श्रुतं सूत्राऽर्थोभयरूपं बहुविधमनेकप्रकारं लघुशीघ्रं ददाति-प्रयच्छति / इति नियुक्तिगाथार्थः। भाष्यम्विणओ णओऽभिवंदइ, पढए पुच्छए पडिच्छद वाणं। पंजलियडो अभिमुहो, कयंजली पुच्छणाईसु // 1452 / / सद्दहइ समत्थेइ य, कुणइ करावेइ गुरुजाभिमयं / छंदमणुयत्तमाणो, स गुरुजणाराहणं कुणइ / / 1453|| उक्तार्थेअथ प्रकारान्तरेणापि योग्याऽयोग्यशिष्यानुपदर्शयन्नाह - सेलघणकुडगचालणि-परिपूणगहंसमहिसमेसे य। मसगजलूगविराली-जाहगगोभेरि आहेरी॥१४५४|| 'सेल' त्ति-- मुद्गशैलः-पाषाणविशेषः, घनो-मेघः मुद्गशैलश्च घनश्च तदुदाहरणं प्रथमम्, कुटो-घटः, चालनी प्रतीता, परिपूणकः-सुघरीचिटिकागृहम्, हंसमहिषमेषमशकजलूका-विडाल्यः प्रतीताः,जाहकःसेहुलकः गोभेरी, आभेरी चेतियोग्यायोग्यशिष्यविषयाणि चतुर्दशैतान्युदाहरणानि इतिनियुक्तिगाथासंक्षेपार्थः / उदाहरणं च द्विविधं भवति चरितं, कल्पितं च। तत्रेह प्रथमं कल्पितमुदाहरणम् / एतच भाष्यकारो विवृण्वन्नाहउल्लेऊण न सक्को, गज्जइ इय मुग्गसेलओऽरने / तं संवट्टयमेहो, गंतुं तस्सोवरिं पडइ // 1455 / / दविउ त्ति ठिओ मेहो, उल्लोऽम्हि नव त्ति गजई सेलो। सेलसमं गाहिस्सं, निट्विज्जइ गाहगो एवं // 1456|| इह क्वचिदरण्ये पर्वतासन्न प्रदेशे समन्ताद् निविडो मुद्गवद वृत्तत्वश्लक्ष्णत्वादिधर्मयुक्तः किश्चिद् भूतले निमग्रः किञ्चित्तु प्रकाशश्चिकचिकायमानो बदरादिप्रमाणलघूपलरूपों मुद्गशैलः | किलासीत् / स च गर्जति-साक्षेपं जल्पति / कथम् ? इत्याह:अहमाीकर्तुंजलेन भेत्तुं केनापिन शक्य इति। तच्च मुद्गशैलस्य सम्बन्धि गर्ववचः कुतश्चिद् नारदकल्पात् श्रुत्वा संवर्तको नाम महामेघः 'तद्गर्वमद्याहमपनयामि' इति सम्प्रधार्य तं मुद्गशैलं गत्वा संप्राप्य तस्यैवोपरिपतति निरन्तरं मुशलप्रमाणधाराभिर्वर्षतीत्यर्थः, संवर्तकमेघश्चोत्सर्पिण्यां शुभीभवति, काले पूर्वदग्धभूम्याश्वासनार्थ वर्षति, इत्यागमे, प्रतिपाद्यते। तस्य च सम्बन्धि जलमतीव भूम्यादेर्द्रावकं वासकं च भवति, इति विशेषतस्तस्येह ग्रहणम् / एवं-सप्ताहोरात्राणि महावृष्टिं कृत्वा 'ठिओ मेघो' त्ति स्थितो वृष्टरुपरतोऽसौ मेघः। कया बुद्ध्या ? इत्याह- 'दविउ' ति-द्रावितः खण्डशो नीतो मयाऽसौ मुद्गशैल इत्यभिप्रायेणेत्यर्थः / पानीये चापसृते सुतरामुज्वलीभूतोऽसौ चिकचिकायमानो मुद्गशैलः पुनरपि गर्जति / कथम् ? इत्याह- 'उल्लोऽम्हिनव' त्ति आर्दोऽस्म्यहं नवा? इति सम्यग् निरीक्षस्व। भोः पुष्करावर्तक ! किमित्येवमेव स्थितोऽसि तिलतुषत्रिभागमात्रमपि ममाद्यापिन भिद्यत इति भावः। ततोलज्जितो विलक्षीभूतः स्वस्थानमुपाश्रितो मेघः। तदेवं मुद्गशैलोदाहरणमभिधायोपनयमाह-'सेलसममि' त्यादि, यस्य वचनकोटिभिरपि चित्तं न भिद्यते; एकमप्यक्षरं तन्मध्यात् न परिणमतीत्यर्थः स एवंभूतः शैलसमी; मुद्गशैलतुल्य इत्यर्थः,तंतथाभूतं शिष्यं ज्ञात्वाऽपि कश्चिद् ग्राहयतीति ग्राहको गुरुः, "आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते। गावो गोपालकेनैव, कुतीर्थेनावतारिताः॥१॥" इत्यादि श्लोकार्थविभ्रमितमतिर्गर्वाद् 'अहममुंग्राहयिष्ये इति प्रतिज्ञाय समागतो महता च संरम्भेणाऽध्यापयितुमारब्धः, तथापि स मुद्गशैलोपमः शिष्योऽक्षरमपिनगृह्णाति। नचमनागपि स्वाग्रहग्रस्तत्वेन बुध्यते। ततश्चैवं यथा पुस्करावर्ताः तथैव सुचिरं क्लेशमनुभूय निर्विद्यते-- पराजयते, ततो विलक्षीभूतो लज्जितश्च निवर्त्तते तद्ग्रहणादयमाचार्य इति / एवंभूतस्य च शिष्यस्य सूत्राऽर्थदाने आगमे प्रायश्चित्तमुक्तम्। कुतः? इत्याहआयरिये सुत्तम्मिय, परिवाओ सुत्तअत्थपलिमंथो। अग्नेसिं पिय हाणी, पुट्ठाविन दुद्धया वंझा॥१४५७|| एवं शैलसमस्यापि शिष्यस्य सूत्राऽर्थदाने प्रवृत्त आचार्ये, सूत्रेऽपि चागमे परिवादोऽवर्णवादो लोकसमुत्थो भवति, तद्यथा-- अहो ! नास्य सूरेःप्रतिपादिका शक्तिः,नापि तथाविधं किमपिपरिज्ञानं, यतोऽमुमप्येकं शिष्यमवबोधयितुं न क्षमः, आगमोऽप्यमीषां संबन्धी निरतिशयो युक्तिविकलश्च इतरथा कथमयमेकोऽप्यस्माद् नावबुध्यते इत्यादि / तथा-सूत्राऽर्थयोरन्तरायसम्भवात्परिमन्थनमर्दनं विनाशनं सूत्राऽर्थपरिमन्थः, तच्छिक्षणप्रवृत्तस्य सूरेरात्मनः सूत्रपठनपरावर्तनव्याख्यानभङ्गो भवतीत्यर्थः / अपरं च-तद्ग्रहणप्रसक्तेः सूरावन्येषां शिष्याणां सूत्राऽर्थहानिः; तदग्रहणभङ्ग इत्यर्थः। नच बहुनाऽपि कालेन तथाविधः शिष्यः किञ्चिदपि ग्राहयितुं शक्यः / कुतः ? इत्याशङ्कयात्रार्थे दृष्टान्तमाह-- 'पुट्ठावी' त्यादि, नियमनेन नियन्त्र्य स्तनेषु करैबहुधा स्पृष्टाऽपि बन्ध्या गौर्न खलु दुग्धदा भवति एवं मुद्गशैलसमः शिष्योऽपि ग्राहणकुशलेनापि गुरुणा ग्राह्यमाणोऽपि नाक्षरमपि गृह्णाति, ततस्तादृशस्य