________________ सीस 605 - अभिधानराजेन्द्रः - भाग 7 सीस झगित्येव मुञ्च तानि, तया च क्रमेणावतार्य तथैव मुक्तानि / ततो ज्ञातः कारणिकैः सद्भावः। दण्डितश्च शरीरनिग्रहेण राज्ञा जीर्णश्रेष्ठी। तददुहिता चाऽनर्थभाजनं संजाता। एवं जीर्णश्रेष्ठिदुहितेवाभरणानामस्थानेऽर्थानां नियोक्ता नगुरु:-गुरुपदयोग्योऽसौ न भवतीत्यर्थः / ऐहिकामुष्मिकाणां निःसंख्यानर्थानां भाजनमसौ संपद्यते। विधिभणितेच-गुरुणा यथावत् प्ररूपितेचाज्ञानादिना विपरीतयोजकः शिष्योऽपि 'न' नैव श्रवणयोग्यः; नापि कल्याणभागित्यर्थः / स्वस्थाने त्वर्थानां नियोक्ता, ईश्वदुहितेव स्वभूषणानां, गुरुयोग्यो भवति / शिष्योऽपि गुरुभिर्यथोपदिष्टं तथैव नियोजयन् श्रवणयोग्यः कल्याणभाक् च भवतीति। श्रावकोदाहरणभाष्यम्चिरपरिचियं पिन सरइ, सुत्तत्थं सावओ सभखं व। जो न स जोग्गो सीसो, गुरुत्तणं तस्स दूरेणं / / 1442 / / इह कथानकं सावगभज्जा' इत्यादौ कथितमेव। ततश्च यथा चिरपरिचितामपि स्वभार्यां परकलत्रबुद्ध्या भुञ्जानो न स्मरति, एवं चिरपरिचितमपि सूत्रार्थ यः शून्यहृदयतया न स्मरति, स शिष्यो न योग्यः शिष्यत्वस्यापि, गुरुत्वं तु तस्य दूरेणैवेत्यर्थः। अथ बधिरगोदोहोदाहरणम्अन्नं पुट्ठो अन्नं, जो साहइ सो गुरू न बहिरु व्व। नय सीसो जो अन्नं, सुणेइ परिभासए अन्नं // 1443|| बधिरकथानकं प्रागुतमेव। गाथाक्षरार्थस्तुसुगमः। अथवा-बधिरश्वासौ गोदोहश्चेति कर्मधारयो न क्रियते, किन्तु-बधिरश्च गोदोहश्चेति द्वन्द्वः / ततो गोदोहो-ग्रामेयकः, तत्कथानकं तु भिन्नमेवेह प्रागुक्तं द्रष्टव्यम् / उपनयस्तु स्वयमभ्यूह्यः। यो ग्रामेयकवद्यावन्मात्रमुक्तस्तावन्मात्रमेव स्वयं द्रव्यक्षत्रकालाद्यौचित्यविरहितो वक्ति, स शिष्यत्वेऽप्ययोग्यः; गुरुत्वं तुदूरेणैव तस्येति। अथ टङ्कणकव्यवहारदृष्टान्तभाष्यम् - अक्खेवनिण्णयपसं-गदाणगहणाणुवत्तिणे दो वि। जोग्गा सीसायरिया, टंकणवणिओवमा समए॥१४४४|| अहवा गुरुविणयसुय-प्पयाणभण्डविणिओगओ दो वि। निजरलाभयसहिया, टंकणवणिओवमा जोग्गा॥१४४५।। इहोत्तरापथे म्लेच्छदेशे क्वचिटणाभिधानाम्लेच्छाः। तेच सुवर्णसट्टेन दक्षिणापथायातानिक्रयाणकानि गृह्णन्ति, परंवाणिज्यकास्तद्भाषां नजानन्ति, तेऽपीतरभाषां नावगच्छन्ति। ततश्च कनकस्य क्रयाणकानां च तावत् पुञ्जः क्रियते, यावदुभयपक्षस्याऽपीच्छापरिपूर्त्तिः, यावच्चैकस्यापि पक्षस्येच्छा न पूर्यते, तावत् कनकपुञ्जात्क्रयाणकपुञ्जाच हस्तं नापसारयन्ति, इच्छापरिपूर्ती तु तमपसारयन्ति / एवं तेषां परस्परमीप्सितप्रतीप्सितो व्यवहारः। अथोपनयगाथाद्वयं व्याख्यायते, तद्यथाटङ्कणाश्च वणिजश्च तेषामुपमैवं समये वर्णिता, यथैव टङ्कणवणिजः परस्परमीप्सितप्रतीप्सितव्यवहारेण व्यवहरन्ति, एक्माक्षेपनिर्णय प्रसङ्गदानग्रहणानुवर्तिनो द्वयेऽपि शिष्या आचार्याश्चानुयोगयोग्या भवन्ति / इदमुक्तं भवति-- यथा टङ्कणा वणिजश्च परस्परेच्छापरिपूर्ति यावत्सुवर्णस्य क्रथाणकस्य च पुञ्जान् करोति, एवं शिष्योऽपि तावदाक्षेपं पूर्वपक्षं करोति यावत् सूत्रार्थमवबुध्यते, नपुनर्भयलज्जाऽहङ्कारादिभिरेवमेवानवगतेनाग्रतो याति, गुरुरपि तावद् निर्णयं प्रयच्छति यावच्छिष्यः सूत्रार्थमवगच्छति / प्रासङ्गिकं च तावद् गुरुः कथयति यावन्मात्रं शिष्योऽवधारयति / शिष्योऽपि यथाशक्ति तत् सर्वं गृह्णातीति / एवं दानग्रहणानुवर्तिनो द्वयेऽपि शिष्याऽऽचार्या योग्याः। तत्र दानं च ग्रहणं च दानग्रहणे, प्रसङ्गस्य प्रसङ्गात्तस्य दानग्रहणे प्रसङ्गदानग्रहणे, आक्षेपश्च निर्णयश्च प्रसङ्गदानग्रहणे च तानि तथेति समासः, तदनुवर्तनशीला द्वयेऽपि शिष्याऽचार्या योग्या भवन्ति प्रकारान्तरेणापि टङ्कणवणिगुपमानं भावयति-- 'अहवे' त्यादि गाथा / अथवा-शिष्येणौचित्यानतिक्रमात् कर्तव्यः सर्वोऽपि गुरुविनयः, गुरुणाऽपि शिष्यौचित्येन कर्तव्यं सर्वमपि श्रुतप्रदानम्। गुरुविनयश्च श्रुतप्रदानं च, ते एव भाण्डे ग्राह्यदेयक्रयाणके तयोर्विनियोगो विनिमयस्तस्माद् गुरुविनयश्रुतप्रदानभाण्डविनियोगाद् द्वयेऽपि शिष्याऽऽचार्याः कर्मनिर्जरालाभसहिताष्टङ्कणवणिगुपमा अनुयोगस्य योग्या भवन्ति / विपर्यये तु विपर्यय इति / तदेवं 'गोणी चंदण' इत्यादिना योग्या अयाग्योश्चोक्ताः शिष्याऽऽचार्याः। इदानीं शिष्यस्य विशेषतएव योग्यायोग्यत्वमभिधित्सुः प्रस्तावनामाहअत्थी स एव य गुरू, होइजओ तो विसेसओ सीसो। जोग्गोऽजोग्गो भन्नइ, तत्थाजोग्गो इमो होइ॥१४४६।। य इदानीं श्रुतस्यार्थ शृणोति स एव शिष्यः कालान्तरेणार्थी अर्थयुक्तोऽवगतसूत्रार्थःसन् यस्माद् गुरुर्भवति नान्यः तस्माद् योग्योऽयोग्यश्च विशेषतः शिष्यो भण्यते / तत्रायोग्यस्तावदयं वक्ष्यमाणो भवति। इति द्वादशगाथार्थः॥ कस्स न होही देसो, अणमुवगओ य निरुवगारीय। अप्पच्छंदमईओ, पत्थियओ गंतुकामो य॥१४४७।। कस्य गुरोर्न भविष्यति द्वेष्योऽप्रीतिकरः शिष्यः,अपितु भविष्यत्येव। किं सर्व एव ? न इत्याह-अनभ्युपगताः श्रुतसंपदाऽनुपसंपन्नो निवेदिताल्मेत्यर्थः / अनुपसम्पन्नत्वेऽपि तथा निरुपकारी गुरूणामनुपकारकः सर्वथा गुरुकृत्येष्वप्रवर्तक इत्यर्थः, तत्राप्यात्मच्छन्दमतिः स्वाभिप्राय कार्यकारीत्यर्थः / तथा, प्रस्थितो यो योऽन्यः कोऽपि शिष्यो जिगमिषुः, तस्य तस्य द्वितीयः। तथा गन्तुकामश्च सदैव गन्तुमना य आस्ते, वक्ति च 'कोऽस्य गुरोः संनिधानेऽवतिष्ठते? समर्प्यतामेतत् श्रुतस्कन्धादि, ततो यास्यामि, इत्येवं चित्त एव सदैवास्ते / तदेवंभूतः शिष्योऽयोग्य एव श्रवणस्येति भावः / इति नियुक्तिगाथार्थः / अनभ्युपगतादिस्वरूपं भाष्यकारोऽप्याह - भन्नइ अणन्मुवगओ-अणुवसंपन्नो सुओवसंपदया। गुरुणो करणिज्जाइं, अकुप्वमाणो निरवगारी / / 1448||