________________ सीस 104 - अभिधानराजेन्द्रः-भाग 7 सीस मशिवमुपशाम्यति। इयं च प्रकृतोपयोगिनी चतुर्थी भेरी। इति तदुत्पत्तिर्लिख्यतेकदाचित् सौधर्मदेवलोके समस्ताऽमरसभापुरस्सरमभिहितं शक्रेण"पेच्छ अहो ! हरिपमुहा, सप्पुरिसा दोसलक्खमज्झे वि। गिण्हंति गुणं चिय तह, ननीयजुज्झेण जुज्झंति / / 1 / / एयं असद्दहतो, कोइ सुरो चिंतए किह णु एवं / संभवइ जं अगहिउं, परदोसं चिट्ठए कोइ।।२।। इय चिंतिऊण इहई, समागओतो विउव्वए एसो। बीभत्थकसिणवन्नं, अइदुग्गंधं मयगसुणयं // 3 // तस्स य मुहे विउव्वइ, कुंदुजलपवरदसणरिंछाली। नेमिजिणवन्दणत्थं, चलियस्स पहम्मि हरिणो य / / 4 / / तंउवदंसइ सुणयं, भगं गंधेण तस्स हरिसेन्नं। सयलं पि उप्पहेणं, वचइ कण्हो उण सरूवं / / 5 / / विविहं भावंतो पो गलाण बच्चइ पहेण तेणेव। दठूण य सुणयसवं, पभणइ गुरुयत्तणेणेवं / / 6 / / अइमसिणकसिणवत्थं-चले व्व वयणे इमस्स पेच्छ अहो। मुत्तावलि व्व रेहइ, निम्मलजोण्हा दसणपती॥७॥ अह चिंतियं सुरेणं, सचं अमरसामिणा भणियं। नूण गुणं चिय गुरुया, पिच्छंति परस्स नहु दोस।।८।। अह अन्नदिणे देवो, तुरयं अवहरइ वल्लह हरिणो। सिन्नं च तस्स सयलं, विणिज्जियं तेण कुटलग्गं / / 6 / / तो अप्पणा वि विण्हू, तुरगस्स कुढावयम्मि पडिलग्गो। अह देवेणं भणियं, जिणिउं घेप्पंति रयणाइ॥१०|| तो जुज्झामो त्ति भणे-इ केसवो किं रहवरे अहयं / तो गेण्ह तुमं पिरह, जेण समाणं हवइ जुज्झं // 11 // नेच्छइ एयं देवो, तुरएहिँ गयाइएहिँ वि स तुज्झं। जा नेच्छइ ता भणिओ, हरिणा तो भणसु तुममवे // 12 // देवेण तओ भणियं, परंमुहा दो वि होइऊण पुणो। जुज्झामो पूयघाए-हि भणइ तो केसवो देवं / / 13 / / जइएवं तो विजिओ, अहयं तुमए तुरंगमं नेहि। जुज्झामि पुणो कहमवि, न हु एरिसनीयजुज्झेणं // 14 // संजायपचओ सो, पचक्खो होइऊण तो देवो। भणइ अमोहं देवा-ण देसणं भणसु किं पि वरं / / 15 / / अह भणइ केसवो असि-वपसमणिं तो पयच्छ मह भेरिं। दिन्नाय सुरेणागम-गवइयरं साहिउंथ गओ|१६|| छण्हं छह मासा-ग साइवाइज्जए तहिं भेरी। जो सुणइ तीऍ सदं, पुव्वुप्पन्नाउ वाहीओ।।१७।। नस्संति तस्स अवरा, ताउ(तह)य नहु होति जाव छम्मासा। अह अन्नया कयाई, वणिओ आगंतुओ कोइ / / 18|| दाहज्जरेण धणियं, अभिभूओ भेरिरक्खयं भणइ। दीणारसयसहस्सं, गेण्हसुमहदेसु पलमेगं / / 16 / / भेरीऍ छिदिऊणं, दिन्नं तेणाविलोभवसगेणं। अन्नेण चंदणेण य, भेरीए थिग्गलं दिन्नं // 20 // इय अन्नाण विदिते-ण तेण कंथीकया इमा भेरी। अह अन्नया य असिवे, हरिणा ताडाविया एसा // 21 / / कथंत्तणेण तीसे, सद्दो सुच्चइ हरिसभाए वि। कंथीकरणवइयरो, विनाओ केसवेण तओ // 22 // * माराविओ य सो भे-रिरक्खओ तेण अट्ठमं काउं। आराहिओ स देवो, अन्नं भेरिंच सो देइ / / 23 / / अन्नो य केसवेणं, कओ तहि भेरिपालओ सोय। रक्खइ तं जत्तेणं, लहेइ लाभं च तो हरिणो॥२४॥" अथ गाथाक्षरार्थः कथ्यते--स शिष्योऽनुयोगश्रवणस्य न योग्यः, किम्? इत्याह-यः सूत्रम्, अर्थ वा चन्दनकन्थावत् परमतादिभिर्मिश्रयति / गलितं वा विस्मृतं शिक्षितमानेनशिक्षितत्वाहङ्कारेण परमतादिभिर्मिश्रयित्वा संपूर्ण करोति। इदमुक्तं भवति-यथा भेरीपालकेनगोशीर्षश्रीखण्डभेरी इतरचन्दनखण्डैर्मिश्रयित्वा कन्था कृता, एवं यः शिष्यः सूत्रमर्थं वा परमतेन, आदिशब्देन स्वकीयेनैव ग्रन्थान्तरेण मिश्रयित्वा कन्थीकरोति, अथवा--विस्मृतं सूत्रमर्थं वा 'सुशिक्षितः स्वयमेवाहम्, नान्यं कञ्चित् कदाचित् किमपि पृच्छामि' इत्यहङ्कारेण परमतादिभिरपि मिश्रयित्वा संपूरणं विदधाति, सोऽनुयोगश्रवणस्य न योग्य इति / एवं कन्थीकृतसूत्रार्थो गुरुरप्यनुयोगभाषणस्य न योग्यः, किन्त्वविनाशितसूत्रार्थाः शिष्याचार्या अनुयोगस्य योग्या विनिर्दिष्टा इति। अथचेटिदृष्टान्तो विब्रियतेअत्थाणत्थनिउत्ता-मरणाणं जिण्णसेहिधूय व्व। नगुरू विहिमणिए वा, विवरीयनिओयओसीसो॥१४४०।। सत्थाणत्थनिउत्ता, ईसरधूया सभूसणाणं व।। होइ गुरू सीसोऽविय, विणिओएंतो जहाभणियं // 1441 / / भावार्थः कथानकेनोच्यते-- वसन्तपुरे नगरेऽग्रेतनः श्रेष्ठीराज्ञा पदात् स्फेटितोऽन्यो नवश्रेष्ठी विहितः। तथापिजीर्णश्रेष्ठि-दुहितुर्नवश्रेष्ठिदुहित्रा सह कथमति महती प्रीतिः संजाता / परं तथापि जीर्णश्रेष्ठिपुत्रिका हृदये कालुष्यं न मुञ्चति-- 'वयमेतैः पदात्परिभ्रंशिताः' इति। अन्यदा चते द्वे अपि जलाशये क्वचिद् गते। ततश्चाभरणानि तटे मुक्त्वा नवश्रेष्ठिदुहिता जीर्णश्रेष्ठिपुत्रिकया सहैव मज्जानार्थं प्रविष्टा / ततश्च जीर्णश्रेष्ठिदुहिता झगित्येव जलाद् निर्गत्य नवश्रेष्ठिदुहितृसत्कान्याभरणानि गृहीत्वा चलिता। इतरया तु जलमध्यगततयाऽप्युच्चैः स्वरेण निषिद्धवा / ततश्च 'का त्वम् ? कानि च तानि त्वदीयाभरणानि? मया ह्येतान्यात्मीयान्येव गृहीतानि, इत्यादि जल्पन्ती गाढमाक्रोशन्ती च सा गृहं गता। कथितंच निजमातापित्रोः अनुमतं च तत् ताभ्याम् / भणिताऽसौ तूष्णीं विधाय तिष्ठ त्वम् / तत् इतरयाऽपि निजपित्रोस्तत् कथितम् / याचितानि च ताभ्यां तान्याभरणानि। नसमर्पयन्तिचेतराणि ततो राजकुलव्यवहारो जातः। कारणिकैश्च साक्षी पृष्टः। न चकोऽप्यसौ संजातः। ततस्ते द्वे अपि दारिके आकार्यजीर्णश्रेष्ठिदुहिता प्रोक्ता यदि त्वदियान्याभरणानि, तर्हि झगित्येवामून्यस्माकमेव पश्यतां परिधाय दर्शय। यावच्चैषातानि परिधातुमारब्धा, तावदनभ्यासादन्यस्थानोचितमाभरणमन्यत्र नियोजयति। यदपि किञ्चित् स्थाने नियुङ्क्ते तदप्यश्लिष्टमेवाभाति, क्षुभितत्वेन च न किञ्चिदसौ जानाति ततो नवश्रेष्ठिदुहिता तैरुक्ता। तया च स्वभ्यस्ततया स्थानौचित्येन सर्वाण्यप्यामरणानि झगित्येव परिहितानि, श्लिष्टा चातीव शोभन्ते / ततस्तैः पुनरपि सा प्रोक्ता