________________ सीस 903 - अभिधानराजेन्द्रः - भाग 7 सीस तथा रत्नभाजनस्थानीये श्रुतेस्तोक बहु-बहुतरार्थवेत्तारो भाषकादयो विज्ञेया इति। पोण्डदृष्टान्तव्याख्यामाहवोडं विभिन्नमीसं, दरफुल्लं वियसियं विसेसेण / जह कमलं चउरूवं, सुत्ताइचउक्कमप्पेवं // 1431 // पोण्डमविकसितावस्थंकमलम्। तस्य च पश्चात् तिस्रोऽवस्था जायन्ते, तद्यथा-"विभिन्नमीसं' ति ईषद्विभिन्नमित्यर्थः / तथा 'दरफुल्लं' ति अर्धविकसितमित्यर्थः / तथाः "वियसितं विसेसेण' त्ति सर्वात्मना विकसितमित्यर्थः / एवं च सति यथा कमलं चतूरूपमुक्तम्, तथा सूत्रादिचतुष्कमपि विज्ञेयम्- अविवृतं मुकुलितं सूत्रम्, तथा, अल्पबहु-बहुतरव्याख्यानरूपास्तस्य तिस्रोऽवस्थाः, इत्येवं चतूरूपतेति। अथदेशिकदृष्टान्तव्याख्यामाहपंथो दिसाविभागो, गाम-पुराइगुण दोसपेयालं। जह पहदेसणमेवं, सुत्तं भासाइतिययं च // 1432 // इह पन्थाः कश्चिद् ग्राम-नगरादीनां भवति / तं च पृष्टः कोऽपि दिविभागमात्रमेव कथयति, अन्यस्तु तद्व्यवस्थितग्रामनगरा-दीन् कथयति, अपरस्तुमार्गगतनिः शेषगुण-दोषविचारमपि कथयति। इत्थं यथा पथो मार्गस्य देशनं त्रिविधं प्रवर्तते, एवं भाषा-विभाषावार्तिकलक्षणमपि त्रितयमवगन्तव्यम् / तदिह सर्वेष्वपि काष्ठादिदृष्टान्तेष्वयं परमार्थः-जघन्य मध्यमोत्कृष्टव्याख्यातारो भाषक-विभाषकव्यक्तीकरा उच्यन्त इति / तदेवं जिन-प्रवचनोत्पत्तिः, प्रवचनैकार्थिकानि, तद्विभागश्चोक्तः। अथ कमप्राप्तमपिद्वारविधिं 'दारविही विमहत्था तत्थ वि वक्खाणविहिविदज्जासो, मा होज्न' इत्यादिपूर्वोक्तकारणादुल्लङ्घय, व्याख्यानविधिमेवेह तावदभिधित्सुः प्रस्तावनामाहएयस्स को णु जोग्गो, वत्तुं सोउंच केण विहिणा वा। पुव्वोइयसंबंधो, वक्खाणविही विभागाओ॥१४३३॥ एतस्य च वक्ष्यमाणस्य 'उद्देसे निद्देसे य' इत्यादिद्वारविधेः, सर्वस्य वाऽनुयोगस्य को वक्तुं योग्यो गुरुः? कश्च श्रोतुं योग्यः श्रोता? केन वा विधिनाऽसौ वक्तव्यः ? इत्येतदभिधानीयम् / अत एव तस्मात् प्रवचनैकार्थिकविभागादनन्तरं 'दारविही वि महत्था' इत्यादिना पूर्वप्रतिपादितसंबन्धो व्याख्यानविधिरुच्यते। पाठान्तरं वा विभासाउ त्ति' सामान्येन पूर्वमुद्दिष्टस्येदानीं व्याख्यानविधिर्विशेषेण भाषणं भाषा भणनं क्रियते' इति शेषः। इतिगाथाष्टकार्यः। (1434 गाथा 'वक्खाण' शब्दे षष्ठे भागे उक्ता) विस्तरतस्तु गोदृष्टान्तं भाष्यकारः प्राहभगनिविटुं गोणिं, केउं दंतो व्व न सुयमायरिओ। एवं मए वि गहियं, गिहि तुमं पित्ति जंपतो॥१४३५॥ अविगलगोविक्केया, व जो वि मंदक्खमो सुगंभीरो। अक्खेवनिण्णयपसं-पारओ सो गुरु जोग्गो॥१४३६|| सीसो वि पहाणयरो, णेगंताणावियारियग्गाही। सुपरिच्छियकेया इव,थाणवियारक्खमो इहो // 1437 // कस्यापि धूर्तस्योपचितसर्वाङ्गसुन्दरस्वरूपाऽपि गौः कथमपि संस्थानीयप्रदेशे स्थिता भग्ना / ततश्चोत्थातुं न शक्रोति, इत्युपविष्टव तिष्ठति / ततस्तेन धूर्तेन कस्यापि मुग्धस्य क्रेतुस्तथैवोपविष्टा मूल्येन प्रदत्ताऽसौ। स्वयं पुनरपसृतः। क्रेताऽपि यावत् तामुत्थापयति, तावद्न शकोत्युत्थातुमसौ / ततस्तथैव स्थिताऽन्यस्य मूल्येन दातुमारब्धा तेनेयम्। स च दक्षत्वादधः प्रभृत्यवयवानां निरीक्षणार्थ तामुत्थापयति मूलक्रेता च तत्कर्तुं न ददाति / वदति च मयोपविष्टवेयं गृहीता, त्वमप्युपविष्टामेवामुं गृहाण / एवं च न कोऽपि गृह्णाति, उपहसति च तमिति / अथ प्रकृते योज्यते- भग्ना सति निविष्टा भग्ननिविष्टा तां भग्ननिविष्टां 'गोणिं' गां यथा मुग्धः कश्चिदुपविष्टामेव क्रीत्वोपविष्टामेवाऽन्यस्य ददत्-प्रयच्छन् क्रेतोपहासविषयत्वादयोग्यः / 'नसुयमायरिउ' त्ति एवामाचार्योऽपि 'न' नैव योग्यो भवति; किं कुर्वन् ? श्रुतं ददत्प्रयच्छन् / कथंभूतः सन् ? इत्याह- 'एवमविचारितमेव मयाऽप्येतत् श्रुतं गृहीतम्, त्वमप्यविचारितमेव गृहाण' इति शिष्यं प्रति जल्पन्निति। इत्थंभूतस्य सूरेः पार्श्वे न श्रोतव्यम्, संशीतिपदेषु निश्चयाभावेन मिथ्यात्वगमनप्रसङ्गात् / अतो व्याख्यानस्यायमयोग्यो-ऽभिधीयत इति / कथंभूतः पुनर्योग्यः,? इत्याह-'अविगलेत्यादि' सुगमा / तदेवं गुरोरयोग्यस्य योग्यस्य च स्वरूपमुपदर्थ्य शिष्यस्यापि तदाह- 'सीसो वी' त्यादि, शिष्योऽपि 'न' नैव प्रधानतरः, किन्त्व-योग्यः / कथंभूतः ? इत्याह-मुग्धगोक्रेते-वैकान्तेनाऽविचारितग्राही। यस्तु स्थानविचारक्षम आग्रहरहितो विचारयोग्ये वस्तुनिविचारकः स सुपरीक्षितगवादिक्रयिक इव सिद्धान्तश्रवणे इष्टो योग्यः शिष्ट इति। ___ अथचन्दनकन्थादृष्टान्तविवरणमाहजो सीसो सुत्तत्थं, चंदणकथं व परमयाईहिं। मीसेइ गलियमहवा, सिक्खियमाणेण सनजोग्गो॥१५३८|| कंथीकयसुत्तत्थो गुरू वि जोग्गो न भासियव्वस्स।। अविणासियसुत्तत्था, सीसाऽऽयरिया विणिहिट्ठा।।१४३९।। इह भावार्थस्तावत् कथानकेनोच्यते-द्वारवत्यां नगर्यां वासुदेवस्य राज्यं पालयतो गोशीर्ष श्रीखण्डमय्यो देवतापरिगृहीतास्तिस्रो भेर्य आसन, तद्यथा-सांग्रामिकी, औद्भतिकी, कौमुदिका / तत्र प्रथमा संग्रामकाले समुपस्थिते सामन्तादीनां ज्ञापनार्थं वाद्यते, द्वितीया पुनरुद्भूते-आगन्तुके कस्मिंश्चित् प्रयोजनेसामन्ताऽमात्यादिलोकस्यैव ज्ञापनार्थ वाद्यते। तृतीया तु कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थं वाद्यते। चतुर्थ्यपिगोशीर्षश्री-खण्डमयी भेरीतस्यासीत्। इयंतुषट्षण्मासपर्यन्ते वद्यते, यश्च तच्छब्दं शृणोति, तस्यातीतम्, अनागतंच प्रत्येकंषाण्मासिक