________________ सीस 107- अमिधानराजेन्द्रः - भाग 7 सीस सूत्रार्थी नदातव्यौ, ऐहिकाऽऽमुष्मिकक्लेशादिबहुदोषसंभवात्, ददाति चेत्, तर्हि समयोक्तप्रायश्चित्तभागिति / अत्राह- ननु प्रोक्तोऽसौ मुद्गशैलदृष्टान्तः, केवलं पाषाणमेघादीनां जल्पः, अभिप्रायपूर्विके च प्रवृत्तिनिवृत्ती इत्यलौकिकमेवेदम्। सत्यय, किन्तु पूर्वमुनिभिरेवात्रोक्तं प्रतिविधानम् / तद्यथा- "चरियं च कप्पियं चिय, आहरणं दुविहमेव पन्नत्तं / अत्थस्स साहणट्ठा, इंधणमिव ओयणट्ठाए।।१।। न वि अत्थिन वि य होही, उल्लावो मुग्गसैलमेहाणं / उवमा खलु एस कया, भवियजणविबोहणट्ठाए / / 2 / " इत्यलं प्रसङ्गेनेति। अथ मुद्गशैलप्रतिपक्षभूतं घनदृष्टान्तमाहवुढे वि दोणमेहे, न कण्हभोमा पलोठए उदयं / गहणधरणासमत्थे, इय देयमछि त्ति कारिम्मि॥१४५८|| यावता वृष्टेनाकाशबिन्दुभिर्महती गगरी म्रियते, तावत्प्रमाणजलवर्षी मेधो द्रोणमेघ उच्यते। तस्मिन् वृष्टऽपि सति कृष्णा भूमिर्यत्र प्रदेशेऽसौ कृष्णभूमः प्रदेशस्तस्माद् न प्रलोठति बहपि तन्मेधलजं पतितं न लुठित्वाऽन्यत्र गच्छति, किन्तु तत्रैवान्तः प्रविशतीति भावः / एवं शिष्योऽपि स कश्चिद् भवति यो गुरुभिरुक्तं बहूप्यवधारयति, न पुनरक्षरमपि पार्श्वतो गच्छतीति। एवंभूते च सूत्रार्थग्रहणावधारणासमर्थे शिष्ये सूत्रार्थयोः शिष्यप्रशिष्य-परम्पराप्रदानेनाव्यबच्छेदकारिणि देयं सूत्रार्थजातम्, नान्यस्मिन्ननन्तराभिहितमुद्गशैलकल्पे। इत्यन्वयव्यतिरेकात्मकत्वादेकमेवेदमुदाहरणम्। ___ अथ द्वितीयं कुटोदाहरणं विवृण्वन्नाहभाविय इयरे य कुडा, अपसत्थपसत्थभाविया दुविहा। पुप्फाईहिँ पसत्था, सुरतेल्लाईहिँ अपसत्था // 1456|| वम्मा य अवम्मा विय, पसत्थवम्मा उहाति अग्गेज्झा। अपसत्थअवम्मा विय, तप्पडिवक्खा भवे गेज्झा॥१४६०॥ कुप्प वयणआसन्ने-हिँ भाविया एवमेव मावकुडा / संविग्गेहि पसत्था, वम्माऽवम्माय तह चेव // 1461|| कुटा-घटाः, ते च तावद् द्विविधाः -एके आपाकोत्तीर्णा नूतना अव्याप्रियमाणत्वादद्यापि पुष्पजलतैलादिनाऽभाविताः, अन्ये तु व्याप्रियमाणत्वाद् भाविताः। विशे०। (भावि तविषयः ‘भाविय' शब्दे पञ्चमभागे उक्तः।) तत्र येप्रशस्तवाम्याः प्रशस्तभावं वमयितुं शक्यास्तेऽग्राह्या भवन्ति, अनादेयाः; असुन्दरा इति यावत् / तथा येऽप्रशस्तभावं वमयितुमशक्या अप्रशस्तावाम्यास्तेऽप्यग्राह्या भवन्ति / 'तप्पडिवक्खा भवे गेज्झ' त्ति- तेषां प्रशस्तवाम्यानाम्, अप्रशस्तावाम्यानां च ये प्रतिपक्षाः प्रशस्ता वाम्याः, अप्रशस्तवाम्याश्च ते ग्राह्या आदेयाः सुन्दरा भवन्ति। तदेवं द्रव्यकूटास्तावत्प्ररूपिताः। भावकूटा अपि प्रशस्ताऽ-प्रशस्तगुणजलाधारत्वाच्छिष्यजीवा एवमेव भाविताsभावितादिभेदात् द्रष्टव्याः केवलमत्र पक्षे कुप्रवचना-वसन्नादिभिर्भाविताः 'अप्रशस्तभाविता उच्यन्ते' इत्यध्याहारः।येतुसंविगैरेव साधुभिर्भावितास्ते प्रशस्ताः; प्रशस्तभाविता इत्यर्थः। वम्मा अवम्मा य तह चेव' / त्ति-वाम्याऽवाम्यभावना- यथा द्रव्यकुटपक्षे तथैव भावकुटपक्षेऽपि द्रष्टव्येत्यर्थः / सा चैवम्-प्रशस्तभाविता वाम्याः, अप्रशस्तभावितास्त्ववाम्याः, एते उभयेऽप्यग्राह्याः / उक्तविपरीतास्तु ग्राह्या इति / तदेवमुक्तो भावितकुटपक्षः। अथाभावितकुटपक्षमधिकृत्याहजे उण अभाविया ते, चउव्विहा अह विमो गमो अन्नो। छिडकुडभिन्नखंडे, सगले य परूवणा तेसिं // 1462 / / ये पुनरभाविताः कुटास्ते छिन्नभिन्नखण्डसकलभेदाचतुर्विधाः / अथवा-भाविताऽभावितपक्षनिरपेक्ष एवायमन्यच्छिन्नभिन्नादिको गमःप्रकारो वर्तत इत्यर्थः / तमेवाह- 'छिडकुडे' त्यादि, इह कुटो-घटः कोऽपितावच्छिद्रो भवति, बुध्ने सच्छिद्रो भवतीत्यर्थः / अन्यस्तु भिन्नो राजिमान् भवति। तृतीयस्तु खण्डो भग्नकर्णः। चतुर्थस्तु सकलः परिपूर्ण एव भवति। एतेषां च चतुर्णामपि कुटभेदानांदार्शन्तिकमधिकृत्य प्ररूपणा स्वयमेव कार्या, यथा कोऽपि शिष्यः श्रुतग्रहणमाश्रित्य छिद्रघटकल्पो भवति, कश्चित्तु भिन्नघटकल्प इत्यादि वाच्यमिति। अथ क्रमप्राप्तं चालन्युदाहरणमभिधित्सुः मुद्रशैलच्छिद्रकुटचालन्युदाहरणानां परस्पराभेदो द्भावकशिष्यमतं च निराचिकीर्षुराहसेलेय छिबुचालणि, मिहोकहा सोउमुट्ठियाणं तु। छिड्डाह तत्थ विट्ठो, सुमरिंसु सरामि नेदाणिं // 1563 / / एगेण विसइबीए-ण नीइकन्नेण चालणी आह। धनत्थ आह सेलो, जं पविसइ नीइ वा तुज्झं // 1464 / / शैलच्छिद्रकुटचालन्युदाहरणैः प्रतिपादिताः शिष्या अप्युपचारात् तथोच्यन्ते, तस्सादृश्यात् / ततश्च शैलच्छिद्रकुटचालन्यभिधानानां शिष्याणां गुर्वन्तिके व्याख्यानं श्रुत्वा, उत्थायान्यत्र गतानां मिथः परस्परं कथा समभवत्। कीदृशी? इत्याह-'छिड्डे' त्यादि, छिद्रघटकल्पच्छिद्रः शिष्यः प्राह। किम् ? इत्याह-तत्र गुरुसमीपे उपविष्टस्तदुक्तमस्मार्षमहम्, इदानीं तु न किमपि स्मरामि। छिद्रघटो ह्येवंविध एव भवति / सोऽपि स्थानस्थितो मुद्रादिकं प्रक्षिप्तं धरति, अन्यत्र तूत्क्षिप्य नीतस्य तन्न प्राप्येत, अधश्छिद्रेण गलित्वा निःसृतत्वात्, अतस्तत्कल्पः शिष्यो, ऽपीत्थमाहेति भावः। छिद्रकुटकल्पेन शिष्येणैवमुक्ते चालनीकल्पः प्राह'एक्कणे' त्यादि, चालनीकल्पः शिष्यश्चलनी, स प्राह-भोश्छिद्रकुट ! शोभनस्त्वम्, येन गुरुसमीपस्थेन त्वया तावदवधारितं तद्वचः पश्चादेव विस्मृतम्, मम तुगुर्वान्तिकेऽपि स्थितस्यैकेन कर्णेन विशति, द्वितीयेन तु निर्गच्छति, न पुनः किमपि हृदये स्थितम्। कणिक्कादिचालन्या अपि हि जलादिकमुपरिभागे निक्षिप्यते, अधोभागेन तु निर्गच्छति, नतु किमपि। संतिष्ठते, अतस्तदुपमः शिष्योऽपीत्थमेवाहेतिभावः। तदेवं छिद्रकूटचालनीभ्यामेवमुक्ते मुद्गशैलः प्राह-'धन्नेत्थे त्यादि मुद्गशैलो वदति-धन्यावत्र युवाम्, यद्-यस्मात् कारणायुवायोस्तावत्कर्णयोर्गुरूक्तं किमपि प्रविशति निर्गच्छति च / मम त्वेतदपि नास्ति, तदुक्तस्य सर्वथाऽपि मध्ये प्रवे