SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ सीयपरिसह 896 - अभिधानराजेन्द्रः - भाग 7 सीयपरिसह ऽभूद् अतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्वभाष आयुष्मन् ! गृहपते! 'नो खलु' नैव ग्रामधा मामुद्राधन्ते, यत्पुनर्वपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्भितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्रोम्यधिसोढुम्, एवमुक्तः सन् भक्तिकरुणारसाक्षिप्तहृदयो ब्रूयात्-- सुप्रज्वलितमाशुशुक्षणिं किमिति न सेवसे ? | महामुनिराह- भो गृहपते ! न खलु मे कल्पतेऽनिकायं मनाग ज्वालयितुम् उज्जवालयितु प्रकर्षेण ज्वालयितुंप्रज्वालयितुंस्वतो ज्वलितादौ कार्य-शरीरमीषत् तापयितुमातापयितुंवा प्रकर्षेण तापयितुं प्रतापयितुं वा, अन्येषां वा वचनात् ममैतत्कर्तुं न कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुं न कल्पते ममेति / तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह- स्यात्- कदाचित्स-परो गृहस्थ एवमुक्तनीत्या वदतः साधोर-ग्निकायमुज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेगा, तबोज्ज्वालनातापनादिकं भिक्षुः प्रत्युपेक्ष्य-- विचार्य स्वसन्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत्- प्रतिबोधयेत् कया ? अनासेवनया, यथैतत् ममायुक्तमासेवितुं, भवता तु पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमीतिशब्दावुक्तार्थी / आचा० 1 श्रु०८ अ०४ उ०। शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांति गृह्णीयात् परिभुजीत वा नापि शीतार्तोऽग्निं ज्वालयेदन्यज्वालितं वा नासेवेत / आव० 4 अ०। एतदेव सूत्रकृदाहचरंतं विरयं लूहं, सीयं फुसइ एगया। नाइवेलं मुणी गच्छे, सोचा थे जिणसासणं // 6|| तत्परीषहमाह - चरंतं विरयं लूह, सीयं फुसइ एगया / नाइवेलं विहन्निज्जा, पावदिट्ठी विहन्नइ / / 6 / / (सू०) व्याख्या- 'चरन्तम्' इति ग्रामानुग्रामं मुक्तिपथे वा व्रजन्तं, धर्ममासेवमानं वा, विरतम्- अग्निसमारम्भादेर्निवृत्तं विगतरतं वा 'लूह' ति स्नानस्निग्धभोजनादिपरिहारेण रूक्ष, किमित्याह-शृणाति इति शीतं, स्पृशति-अभिद्रवति, चरदादिविशेषणविशिष्टो हि सुतरां शीतेन बाध्यते, 'एकदे' ति शीतकालादौ प्रतिमाप्रतिपत्त्यादौ वा, नतः, किम् ? 'न' नैव वेला सीमा मर्यादा सेतुरित्यनर्थान्तरं ततश्चातीति शेषसमयेभ्यः स्थविरकल्पिकापेक्षया जिनकल्पिकापेक्षया च स्थविर-कल्पाचातिशायिनी वेला शक्त्यपेक्षतया च सर्वथानपेक्षतया च शीतसहनलक्षणा मर्यादा तां विहन्यात् / कोऽर्थः ? अपध्यानस्थानान्तरसर्पणादिभिरतिक्रामेत, किमेवमुपदिश्यत इत्याहपासयति पातयति वा भवावर्त इति पापा, तादृशी दृष्टि:-बुद्धिरस्येति पापदृष्टिः 'विहन्नइ' इति सूत्रत्वाद्विहन्ति- अतिकामत्यतिवेलामिति प्रक्रमः / अयमत्र भावार्थः- पापदृष्टिरेवोक्तरूपमर्यादातिक्रमकारी, ततःपापबुद्धिकृतत्वादस्य सद् बुद्धिभिः परिहारो विधेयः, पठ्यते च "नाइवेल मुणी गच्छे, सुच्चा णं जिणसासणं' तत्र वेला स्वाध्यायादि- समयात्मिका तामतिक्रम्य शीतेनाभिहतोऽहमिति मुनिः- तपस्वी न गच्छेत्-स्थानान्तरमभिसप्त्, 'सोचे' ति श्रुत्वा णमिति वाक्यालङ्कारे जिनशासन-जिनागमम् अन्यो जीवोऽन्यश्च देहस्तीव्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वा इत्यादिकमिति सूत्रार्थः // 6 // अन्यच - ण मे णिवारणं अत्थि, छवित्ताणं न विजइ / अहं तु अग्गि सेवामि, इइ भिक्खू न चिंतए / 7 / / न'मे' मम नितरां वार्यते--निषिध्यतेऽनेन शीतवातादीति निवारणं.. सौधादि अस्ति- विद्यते, तथा छविः-त्वक् त्रायते- शीतादिभ्यो रक्ष्यतेऽनेनेति छवित्राणं-वस्त्रकम्बलादिन विद्यते, वृद्धास्तु निवारणंवस्त्रादि तथा छविः- त्वक् त्राणं न विद्यते- न भवति, असौ हि शीतोष्णादीनां ग्राहिकेति व्याचक्षते अतः 'अह' मित्यात्मनिर्देशः, तुः पुनरर्थः, तद्भावना च येषां निवारणं छवित्राणं वा समस्ति ते किमित अग्नि सेवेयुः ? अहं तु तदभावादत्राणः तत्किमन्यत्करोमीत्यग्निं सेवे 'इती' त्येवं भिक्षुः-- यतिः न चिन्तयेत्-न ध्यायेत्, चिन्तानिषेधे च सेवनं दुरापास्तमिति सूत्रार्थः / 7 / / इदानीं लयनद्वारं, तत्र च 'नातिवेलं मुनिर्गच्छेदि' त्यादिसूत्रावयवसूचितं दृष्टान्तमाह रायगिहम्मि वयंसा, सीसा चउरो उ भद्दबाहुस्स / वेभारगिरिगुहाए, सीयपरिगया समाहिगया ||1|| राजगृहे नगरे वयस्याः शिष्याश्चत्वारस्तु भद्रबाहोर्वैभारगिरिगुहायां शीतपरिगताः-समाधिगता इत्यक्षरार्थः ||1|| भावार्थस्तु वृद्धविवरणादवसेयः- तच्चेदम् "रायगिहे णयरे चत्तारि वयंसा वाणियगा सहवड्डियया, ते भद्दबाहुस्स अंतिए धम्म सोचा पव्वइया, ते सुयं बहु अहिन्जित्ता अन्नया कयाइ एगल्लविहारपडिम पडिवन्ना, ते समावत्तीए विहरता पुणोवि रायगिहं नयरं संपत्ता / हेमंतो य वति, ते य भिक्खं काउं तइयाए पोरिसीए पडिनियत्ता, तेसिंच वेभारगिरितेणं गंतव्वं / तत्थ पढमस्स गिरिगुहादारे चरिमा पोरिसी ओगाढा, सो तत्थेव ठिओ / बिझ्यस्स उजाणे, ततियस्स उजाणसमीवे, चउत्थस्स नगरब्भासे चेव / तत्थ जो गिरिगुहन्भासे तस्स निरागं सीयं सो सम्मं सहतो खमंतो अ पढमजामे चेव कालगतो। एवं जो नगरसमीवे सो चउत्थे जामे कालगतो, तेसिं जो नगर भासे तस्स नगरुण्हाए न तहा सीअंतेण पच्छा कालगतो, ते सम्म कालगया। एवं सम्म अहियासियव्वं जहा तेहिं चउहिं अहियासियं"। उत्त० 2 अ० / अत्र भद्रबाहुशिष्याणं कथाः- राजगृहे नगरे चत्वारो वयस्या वणिजः श्रीभद्रबाहुगुर्वन्तिके प्रवृज्य श्रुतं चाधीत्य एकाकित्वं प्रतिमया विहरन्तस्तत्रैव ईयुः, तदा हेमन्त आसीत् / ते च भिक्षाभोजनमादाय तृतीयपौरुष्यां निवर्तन्ते पुरात् पृथक् / तेषामेकस्य चरसपौरुषीवैभाराद्रिगुहाद्वारे अवगाढा तत्रैव सोऽस्थात् द्वितीयः पुरोद्याने, तृतीयस्तु उद्यानसमीपे, चतुर्थस्तु पुराऽभ्यर्णे। तत्र यो वैभाराद्रिगुहासन्नः स महासीव्यथितो रजन्या आद्ययामे मृतः, उद्यानस्थो द्विती०
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy