________________ सीयपरिसह 867- अभिधानराजेन्द्रः - भाग 7 सीयल यमाने मृतः, उद्यानासन्नस्तृतीये यामे मृतः, पुरासन्नस्तु पुरोष्मणाऽल्पशीतत्वेन चतुर्थे प्रहरे मृतः / सर्वेऽप्येते साधवो विपद्य दिवं जग्मुः शीतपरिषहः सोढव्यः / उत्त०२ अ०। सीयपरिसहविजय-पुं० (शीतपरिषहविजय) महत्यपि शतिपतति परित्यक्ताकल्पनीयवाससः प्रवचनोक्तेन विधिना कल्पनीयवासांसि परिभुजानस्य वृक्षवदनवधारितालयविशेषस्य क्षमूले पथि शून्यागारेऽन्यत्र वा क्वापि निवसतो हिमानीकण-सम्मिश्रशीतानिलसंमिश्रेऽपि तत्प्रतीकारहेतूपादानं प्रति निवृत्तेच्छस्य पूर्वानुभूतशीतप्रतीकारहेतूनस्मरतः सम्यग्भावनागर्भशीतसहने, पं० सं०४ द्वार। सीयपिंड-पुं० (शीतपिण्ड) शीतः शीतलः पिण्ड आहारः, शीतश्चासौ पिण्डश्च शीतपिण्डः | शाल्यादिपिण्डे, "पंताणि चेव सेविजा, सीयपिण्ड पुराणकुम्मासं / " आचा०१ श्रु०६ अ० 4 उ० / सीयप्पवायदह-पुं० (शीताप्रपातहद) यत्र नीलवतः शीतानिपतति यत्र चत्वार्यशीत्यधिकानि योजनशतानि आयामविष्कम्भः पञ्चदशाष्टादशोत्तराणि विशेषन्यूनानि परिक्षेपेण यस्य च मध्ये शीताद्वीपः चतुष्षटियोजनायामविष्कम्भो व्युत्तरयोजन-शतद्वयपरिक्षेपः जलान्तात् द्विक्रोशोच्छ्रितः शीतादेवीभवनेन विभूषितोपरितनभागः स शीताप्रपात हृद इति / शीतादेव्या निवासभूते शीतानद्या जलप्रपातस्थाने, स्था० २ठा०३ उ०। सीयफास-पुं० (शीतस्पर्श) शीतापादितदुःखविशेषे, आचा०१ श्रु०८ अ०४ उ० / शीतले, आचा०१ श्रु०६ अ०३ उ०। सीयफासणाम-न० (शीतस्पर्शनामन्) नामकर्मभेदे, यदुदायाजन्तुशरीरं शीतं शीतलं मृणालादिवद् भवति तत् शीतस्पर्शनाम / कर्म०१ कर्म०। सीयल-त्रि० (शीतल) शीतवेदनोत्पादके, स्था०४ ठा०४ उ०। आ० म०। औ०। चन्द्रं सूर्यं वा गृह्णतो राहोः कृष्णपुद्गलः एकः शीतलः। चं० प्र० 20 पाहु० / दशमे तीर्थकारे, सम्प्रति शीतलः सकलसर्वसंतापकरणविरहादाह्रादजननाचशीललः, तत्र सर्वेऽपि भगवन्तः शत्रूणां मित्राणां चोपरि समानास्ततः शेषमाहपिउणो दाहोवसमो, गब्भगए सीयलो तेणं / भगवतः पितुः पूर्वोत्पन्नोऽसदृशः पित्तदाहोऽभवत् स चौषधैर्नानाप्रकारैर्नोपशाम्यति, भगवति तु गर्भगते देव्या परामर्श स दाह उपशान्तस्तेन शीतल इति नाम। आ० म०२ अ०। ध०। प्रव / आ० चू० / स० / कल्प० / (अस्य वक्तव्यता 'तित्थयर' शब्दे चतुर्थभागे 2260 पृष्ठे गता।) शीतलस्य अशोका देवी / प्रव०७ द्वार / सीयल(ग)-पुं० [शीतल)(क)] स्वनामख्याते नृपतौ, शीतलको नृपतिः परित्यक्तराज्यसमृद्धिः गृहीतसर्वज्ञंदीक्षोऽक्षुणेन तदीयगुणेन प्रमोदमानमानसैनिजगुरुभिर्विश्राणितश्रमणानन्दादिसूरिपदो द्रव्यभावभेदभिन्ने वन्दनके उदाहरणम् / तत्कथा चैवम् - "अवनीवनिताभाल-तिलके श्रीपुरे पुर / प्रतापाक्रान्तदिक्चक्रः, क्ष्मापालः शीतलोऽजनि // 1 // सर्वज्ञशासनक्षीर-नीरधौ सद्गनिस्तुतः। शुद्धपक्षद्वयो राज-हंसः क्रीडति यः सदा / / 2 / / तस्याभूद्भगिनी भाग्य- सौभाग्यैकनिकेतनम्। सद्धर्मकर्मनिर्माण-परा शृङ्गारमञ्जरी // 3 // सा च विद्युभसिंहस्य, राज्ञी जाता जगत्पतेः / सल्लक्षणे क्रमात्पुत्र- चतुष्टयमजीजनम् // 4 // शीतलश्च महीपाल-श्वारुवैराग्यरङ्गितः। श्रीधर्मघोषसरीणा-मन्तिके व्रतमग्रहीत् / / 5 / / तं च विज्ञातसिद्धान्त- तत्त्वं गीतार्थशेखरम्। गुरवस्तद्गुणैस्तुष्टाः, स्वपदेऽथ न्यबीविशन् / / 6 / / अन्येधुर्निजपुत्राणां, कलाकौशलशालिनाम् / शृङ्गारमञ्जरी राज्ञी, रहस्येवमवोचत् // 7 // वत्सास्त्वदीय एवैकः, श्लाघ्यो जगति मातुलः / येन साम्राज्यमुत्सृज्य, जगृहे व्रतमुत्तमम् // 8 // यश्च निःशेषशास्त्राब्धि-पारदृश्वा मुनीश्वरः / निस्सङ्ग विहरन्नित्यं, प्रबोधयति देहिनः / / 6 / / पचेलिमं यथाग्राही, संसारस्यामुना फलम् / तथा वत्सास्तदादातुं, भवतामपि युज्यते / / 10 / / यतःकोटिशो विषयाः प्राप्ताः, संपदश्च सहस्रशः। राज्यं च शतशो जीव-र्न च धर्मः कदाचन // 11 // इत्थं मातुर्वचः श्रुत्वा, संविग्ना जनकं निजम् / तेऽनुज्ञाप्याहतीं दीक्षा, जगृहुः स्थविरान्तिके // 12 // संजातास्ते च गीतार्था, वन्दितुं निजमातुलम् / अवन्त्यां च गताः सायं, तद्राह्यायामवस्थिताः // 13 // अथ गन्ता पुरीमध्ये, श्रावकः कोऽपि तगिरा। श्रीशीतलमुनीन्द्राय, तत्स्वरूपं न्यवेदयत् // 14 // इतश्वशुभेनाध्यवसायेन, तेन तेन महात्मनाम् / तेषां निशि समुत्पन्नं, चतुर्णामपि केवलम् // 15 // ततश्च कृतकृत्यत्वा-द्यावत्तत्रैव ते स्थिताः। प्रभाते नागमंस्ताव- दुत्कः श्रीशीतलोऽजनि / / 16 / / अहो दुष्टा अमी शैक्षा, निर्लजा इत्यवेत्य सः। क्रोधाध्मातो ददौ तेषां, चतुर्णामपि वन्दनम् // 17 // यामादूर्ध्व स्वयं तेषा–मन्तिकेऽसौ गतस्ततः / अनादरपरांस्तांश्च, वीक्ष्य संस्थाप्य दण्डकम् // 18 // ऐर्यापथीं प्रतिक्रम्य, समालोच्यैवमभ्यधात् / वन्देऽहं भवतो ह्यत्र, समागत्यापि सांप्रतम् / / 16 / / कषायकण्टकारूद, तमूचुस्ते त्वया पुरा / द्रव्यतो वन्दनं दत्त-मिदानीं देहि भावतः // 20 // किमेतदिति जानन्ति, भवन्त इति सोऽब्रवीत्। तेऽपि तं प्रत्यवोचन्त, जानीमो नितरामिदम् / / 21 / / आचार्यः कथमित्याह, तेऽप्याहुनितः स च / यतीति कीदृशात्ते च, ब्रुवन्त्यप्रतिपातितः // 22 // रापनाशातिता, एते, मया केवलिनो हहा। इत्थं निन्दनिवृत्तोऽसौ, कण्टकस्था तस्ततः / / 23 / / क्रमात्तेषु चतुर्थाय, ददतस्तस्य वन्दनम्। केवलज्ञानमुत्पन्न- मपूर्वकरणादिना // 24 //