________________ संखेज्जय 65 - अभिधानराजेन्द्रः - भाग 7 संखेज्जय ता इत्याह- 'संसिहभरिय' ति सह शिखयोच्छ्रयलक्षणया वर्तन्त इति सशिखाः, ततः सशिखं यथाभवति तथा सर्षपै ता:- पूरिताः सशिखभृताः कर्तव्या इति शेषः / अयमत्राशयः-एतेषां व्यावर्णितस्वरूपाणां चतुर्णामपि पल्यानां मध्याद्यो यथावसरं सर्षपैः पूर्यते तं योजनसहस्रावगाढादूर्ध्व समधिकाष्टयोजनोच्छ्रितवेदिकान्तं पूरयित्वा तदुपरितावच्छिखा वर्द्धनीया यावदेकोऽपि सर्षपो नावतिष्ठत इति। अत्र सर्वे सवेदिकान्ताः सशिखभृताश्व कर्तव्या इति सामान्योक्तावपि प्रथममनवस्थितपल्य एव भृत: करणीयः, शेषास्तु यथावसरमेवेति मन्तव्यमिति / / 7 / / अधुना तस्यानवस्थितपल्यस्य जम्बूद्वीपप्रमाणस्य सर्ष __पैर्भूतस्य यद्विधेय तदाहतादीवुदहिसु इकि-कसरिसवं खिविय निट्ठिए पढमे। पढमं व तदंत चिय, पुण भरिए तम्मि तह खीणे / / 74 / / ततः सर्षपभरणादनन्तरमसत्कल्पनया के नचिद्देवेन दानवेन वा वामकरतले धृत्वा द्वीपोदधिषु द्वीपसमुद्रेषु एकैकं सर्षपंसिद्धार्थ क्षिप्त्या निष्ठितेऽन्तर्भूते, अथवा-निष्ठापिते रिक्तीकृते प्रथमेऽनवस्थितपल्ये, कोऽर्थः? एक सर्षपंद्वीपे प्रक्षिपति. एकमुदधौ, पुनरप्येकं द्वीपे, एकमुदधौ, एवं प्रतिद्वीपं प्रत्युदधि चैकैकं सर्षपं प्रतिक्षिपन्नसौ देवो वा दानवो वा तावद्गतो यावदनवस्थितपल्यो निष्ठितो भवति। ततः किं विधेयमित्याह'पढमं वे' त्यादि द्वीपे समुद्रेवा यत्रासावनवस्थितपल्यो निष्टितो भवति तदन्त चिय' ति स एवानवस्थितपल्यस्य निष्ठाकारी द्वीपः समुद्रो वाऽन्तः पर्यवसानप्रमाणतया यस्य द्वितीयानवस्थित पल्यस्य स तदन्तस्तं द्वितीयानवस्थितपल्यप्रमाणाभिधायक विशेषणमिदम्, ततस्तदन्तमेव चियशब्दस्यावधारणार्थत्वाद्विस्तीर्णतया तावत्प्रमाणमे वेत्यर्थः / प्रथममिवाद्यपल्यमिवेत्युपमानेन द्वितीयमनवस्थितपल्यमपि सहस्रयोजनावगाढमष्टयोजनोच्छ्रितजगत्युपरिवेदिकोपशोभितं सशिख सर्षपैर्भूतं कुर्यादिति सूचयति। ततः प्रथमानवस्थितपल्यमिव तदन्तमेव पुनर्भूयो भृतः सर्षपैः पूरिते तस्मिन् द्वितीयानवस्थितपल्ये तथा तेन प्रकारेण निक्षिप्तचरमसर्षपद्वीपादेरगत एकः सर्षपो द्वीपे, एकः समुद्रे, इत्यादिना क्षीणे निष्ठिते सति द्वितीयानवस्थितपल्ये। ततः किं विधेयमित्याहखिप्पे सलागपल्ले, गुसरिसवो इय सलागखवणेणं। पुन्नो वीओ य तओ, पुट्विं पिव तम्मि उद्धरिए // 7 // क्षिप्यते -निधीयते शलाकापल्ये द्वितीये शलाकासंज्ञक एकसंख्य एव सर्षपः, स च नानवस्थितपल्यसत्कः, किं त्वन्य एवेत्यक्सीयते, 'पुण भरिए तम्मि तह खीणे' इति सूत्रावयवस्य सामस्त्यरिक्तीकरणप्रतिपादनपरत्वात्। अन्ये त्वनवस्थितपल्यसत्क एव क्षिप्यते इत्याचक्षते। तत्त्वं तु केवलिनो विदन्तीति / आह-किमिति द्वितीयपल्य एव निष्ठिते सत्येकस्य सर्षपस्य शलाकापल्ये प्रक्षेपक्षणभिहितं यावता प्रथमपल्येऽपि निष्ठिते तत्रैकस्य सर्षपस्य प्रक्षेपो युज्यत इति ? तदयुक्तम, अभिप्राया- | परिज्ञानात्, यतोऽनवस्थितपल्यस्य शलाकाभिरेवासी पूरणीयः, प्रथमश्च लक्षयो-जनविस्तृतत्वेनावस्थितपरिणामतयाऽनवस्थित एवन भवतीत्यतो द्वितीयाद्यनवस्थितपल्यशलाका एव तत्र प्रक्षेपमहन्तीति। न चैतत् स्वमनीषिकाविजृम्भितम्, यदुक्तमनु योगद्वारेषु - "रेण पल्ले सिद्धत्थयाणं भरिए तओ णं तेहिं सिद्धत्थएहिं दीवसमुदाणं उतारे धिप्पइ एगे दीवे एगे समुद्दे, एगे दीवे एगे समुद्दे एवं खिप्पमाणेहिं खिप्पमाणेहि जावइया णं दीवसमुद्दा तेहिं सिद्धत्थएहि अप्फुन्ना एस णं एवइए रिखने पल्ले आइट्टे से णं पल्ले सिद्धत्थयाणं भरिए तओ णं तहिं सिद्धत्थरहि दीवसमुद्दाणं उद्धारे धिप्पइ एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं खिप्पमाणेहि खिप्पमाणेहिं जावइयाणं दीवसमुद्दा तेहिं सिद्धत्थरहि अप्फुन्ना एस णं एवइए खित्ते पल्ले पढमा सलागा" इति। यश्च पल्लाणवहिए इत्यादिना गाथायां प्रथमस्यानवस्थितव्यपदेशोऽसौ योग्यतामात्रेय राज्याईकुमारस्य राजव्यपदेशवत् द्रष्टव्यः / 'इय सलागखवणे पुग्न वीओ य त्ति' इत्यमुना पूर्वप्रदर्शितशलाकाक्षपणप्रकारेण द्वितीय शलाकापल्यः पूर्णो भृतो भवति सशिख इति यावत् / इयमत्र भावनाततो यस्मिन् द्वीपे समुद्रे वा स एष द्वितीयपल्यो निष्ठां गतस्तदन्ता मूलतः सर्वेऽपि ये द्वीपसमुद्रास्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते पूर्ववन सर्षपः पूर्यते, ततस्तं तावत्प्रमाण पल्यमुत्पाट्य ततो निष्ठितस्थानात परतो द्वीपसमुद्रेष्वेकैक सर्षपं प्रक्षिपेत, यावदसौ निष्ठितो भवति। तते द्वितीया शलाका सर्षपरूपा शलाकापल्ये प्रक्षिप्यते ततोऽपि यस्मिन द्वीप समुद्रे वा स एष तृतीयोऽनवस्थितपल्यो निष्ठतस्तदन्ता मूलतः सर्वेऽपि ये द्वीपसमुद्रास्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते पूर्ववत सर्षपेरापूर्यते, ततस्ते तावत्प्रमाणं पल्यमुत्पाट्य ततो निष्ठित. स्थानात्परतो द्वीपसमुद्रेष्वेकैकं सर्षपंप्रक्षिपेत्,यावदसौ निष्ठतो भवति। ततस्तृतीया सर्षपरूपा शलाका शलाकापल्ये प्रक्षिप्यते, एवमनेन क्रमेण पुनः पुनरनवस्थितपल्यस्य सर्षपभरणरिवतीकरणलब्धकैकसरूपाभिः शलाकाभिः शलाकापल्यो यथोक्तप्रमाणः सशिखाक स्तावत्पूरयितव्यो यावत्तत्रेकोऽप्यन्यः सर्षपो नमातीति। बीओट' ति इत्यत्र चशब्दात्पूर्वपरिपाट्यागतोऽनवस्थितपल्यः सर्षपैरापूरणीयः। ततः किं विधेयमित्याह- 'तओ पुव्वं पिव तम्मि उद्धरिए' त्ति ततः शलाकापल्यपूर्वपरिपाट्यागतानवस्थितपल्यापूरणानन्तरं पूर्ववत्तस्तिन शलाकापल्यै उद्धृते सति। खीणे सलाग तइए, एवं पढमेहि वीययं भरसु / तेहिं तइयं तेहि य, तुरियं जाकिर फुडा चउरो / / 76|| क्षीणे च निर्लेपे सति सर्षपरूपा शलाका तृतीये प्रतिशलाकापल्ये प्रक्षिप्यते इतीयमक्षरगमनिका / भावार्थस्त्वयम्ततःशलाकापल्यापूरणानन्तरं त शलाकापल्यं वामकरतले कुत्वा पूर्वानवस्थितपल्यचरमसषफाक्रान्ताद् द्वीपात् समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रं चैकैकं सोट प्रतिक्षिपेद्यावदसौ निष्ठितो भवति। ततः प्रतिशलाकापल्ये सर्षपरूपाप्रक प्रतिशलाका प्रक्षिप्यते, ततोऽनन्तरोक्तोऽनवस्थितण्ज्य उत्पाय