SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ संखेज्जय 67 - अभिधानराजेन्द्रः - भाग 7 संखेज्जय सम्प्रति संख्येयकादिद्वारं प्रचिकटयिषुराहसंखिजेगमसंखं, परित्तजुत्तनियपयजुयं तिविहं। एवमणंतं पि तिहा, जहन्नमज्झुक्कसा सव्वे / / 71 / / एतावन्त एत इति संख्यानं संख्येयम् “य एचातः” (5-1-28) इति यप्रत्ययः / तच्चेकमेकमेव भवति नापरे असंख्येयादेरिव परीत्तादयो मूलभेदस्वरूपा भेदा अस्य विद्यन्त इति भावः। न संख्यामर्हतीत्यसंख्य "दण्डादिभ्यो यः" (6-4-176) इति यप्रत्ययः। असंख्येयकं तत्पुनः परीतं च युक्तं च निजपदं स्वकीयपदमसंख्येयकलक्षणम्, तच परीत्तयुक्तनिजपदानि च तैर्युक्त-समन्वितं सत्। किमित्याह-त्रिविधंत्रिप्रकारं भवति / यथा-परीत्तासंख्येयक, युक्तासंख्येयकम, असंख्यातासंख्येयकमित्युक्तं त्रिधाऽसंख्येयकम्।। अधुना त्रिविध-मनन्तकमाह- 'एव-मणतं पि तिह' ति एवमनेनानन्तरप्रदर्शितप्रकारेण परीत्तयुक्तनिजपदयुक्तलक्षणेनानन्तमपि-अनन्तकमपि न केवलमसंख्येयकमित्यपिशब्दार्थः / त्रिधा त्रिप्रकारं वेदितव्यम, तद्यथा-परीत्तानन्तकं, युक्तानन्तकम्, अनन्तानन्तकमित्येवमेतानि समुदितानि सप्तापि पदानि मुनरेकैकशस्विरूपाणि भवन्तीति दर्शयितु-माह- "जहन्नमज्झुकसा सव्वे" तिं प्राकृतत्वाल्लिङ्गव्यत्ययाजघन्यमध्यमोत्कृष्टानिजघन्यमध्यमोत्कृष्टभेदभिन्नानि सर्वाणिसमस्तानि एकैकशः सप्तापि पदानि वेदितव्यानीत्यर्थः / तथाहि-जघन्यसंख्येयकं, मध्यमसंख्येयकम्, उत्कृष्टसंख्येयकम्। तथा जघन्यपरीत्तासंख्येयक, मध्यमपरीत्तासंख्येयकम्, उत्कृष्टपरीत्तासंख्येयकम्। जघन्ययुक्ता-संख्येयकं, मध्यमयुक्तासंख्येयकम्, उत्कृष्टयुक्तासंख्येयकम्। जघन्यासंख्यातासंख्येयकं, मध्यमासंख्यातासंख्येयकम्, उत्कृष्टासंख्यातासंख्येयकम् / तथा जघन्यपरीत्तानन्तक, मध्यमपरीत्तानन्तकम्,उत्कृष्टपरीत्तानन्तकम्, जघन्ययुक्तानन्तकं, मध्यमयुक्ता-नन्तकम्, उत्कृष्टयुक्तानन्तकम्। जघन्यानन्तानन्तक, मध्यमानन्ता-नन्तकम्, उत्कृष्टानन्तानन्तकम्।। तदेव संख्यातक त्रिधा, असंख्यात-मनन्तकं च नवधा भवतीति।।७१।। तदेवं संख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतस्तस्वरूपं निरूरूपयिषुः संख्यातकं विधेति यदुद्दिष्ट तद्विवृण्वन्नाहलहु संखिजं दुचिय, अओ परं मज्झिमं तु जा गुरुयं / जंबुद्दीवपमाणय, चउपल्लपरूवणाइ इमं / / 72 / / इहैकको गणनसंख्यां न लभते, यत एकस्मिन् घटादौ दृष्ट घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरूत्पद्यते, नैकसंख्याविषयत्वेन। अथवा-दानसमर्पणादिव्यवहारकाले एकं वस्तु प्रायो न कश्चिद्गणयति, अतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसंख्यां लभते, तस्माद् द्विप्रभृतिरेव गणनसंख्या। अत एवाह-संख्येयं संख्यातकं लघु जघन्यं हस्व, चियशब्दस्यावधारणार्थत्वात्, यदाहुः श्रीहेमचन्द्रसूरिपादाः प्राकृतलक्षणे- “णाइ चेव चियच अवधारणे" (82-84) द्वावेव, नैकः पूर्वोदितयुक्तेः / अतः परमेतस्माद् द्विकभूतजघन्यसंख्यातकादूर्ध्व, मध्यम तुसंख्यातक, पुनस्त्रिचतुरादिकमनेकप्रकारं भवति। कियद् दूर यावन्मध्यम भवतीत्याह- 'जा गुरुयं' ति यावदित्यवधौ गुरुकमुत्कृष्ट सर्वोपरिवर्ति संख्यातकं प्राप्रोति इति शेषः / अथेदमेव गुरुकं संख्यातकं कथं विज्ञेयमित्याह-इदमधुनैव वक्ष्यमाणस्वरूपं गुरुकं संख्यातकं ज्ञेयमिति शेषः / कया? जम्बूद्वीपप्रमाणचतुष्पल्य (प्र) रूपणया जम्बूनाम्ना वृक्षणोपल क्षितो द्वीपो जम्बूद्वीपस्तेन जम्बूद्वीपेन प्रमाणमियत्तावधारणं येषा ते जम्बूद्वीपप्रमाणकास्ते च ते चत्वारश्वतुःसंख्याः पल्याश्च धान्यपल्या इव जम्बूद्वीपप्रमाणकचतुष्पल्यास्तेषां प्रकृष्टरूपा प्ररूपणा व्यावर्णना तया / एतदुक्तं भवति। यथा-जम्बूद्वीपो लक्षयोजनप्रमाण एवमेतेऽप्यायामविष्कम्भाभ्यां प्रत्येकं लक्षयोजनप्रमाणा वृत्ताकारत्वाच्च परिधिना- "परिहीति लक्ख सलेस,सहस्स दो य सयसत्तवीराहिया। कोसतिय अट्ठवीसं, धणुसयतेरंगुलद्धहियं / / 1 / / " इति गाथाभिहितप्रमाणोपेताः। उक्तंच श्रीमदनुयोगद्वारसूत्रे- “जहन्नयं सखिज्जयं कित्तिल्लिय होइ? दो रूवाइं तेण परं अजहन्नमणुक्कोसयं ठाणाई जाव उक्कोसयं संखिजयं न व पावइ। उक्कोसयं संखिज्जयं कित्तिय होइ? उक्कोसयस्त संखिज्जयस्स परूवणं करिस्सामि, से जहानामए पल्ले सिया एग जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सौलससहस्साइंदोन्नि य सत्तावीसे जोयणसए तिन्निय कोसे अट्ठावीसं च धणुसय तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं" ततोजम्बूद्वीपप्रमाणचतुष्पल्यप्ररूपणयेदमुत्कृष्टसंख्यातकं प्ररूपयिष्यत इति भावः।।७२॥ अथैते चत्वारोऽपि पल्याः किंनामान इत्येतदाहपल्लाणवट्ठियसला-गपडिसलागमहासलागक्खा। जोयणसहसोगाढा, सवेइयंता ससिहभरिया।।७३।। धान्यपल्य इव पल्या कल्प्यन्ते, ते च जम्बूद्वीपप्रमाणाः किंनामान इत्याह- 'अणवडिये त्यादियथोत्तरं वर्धमानस्वभावतयाऽवस्थितरूपाभावादनवस्थित एवोच्यते / तथेह शलाकाएकैकसर्षपप्रक्षेपलक्षणास्ताभिःशलाकाभिर्धियमाणत्वात्पल्योऽपि शलाका / तथा प्रतिशलाकाभिनिष्पन्नत्वात्प्रतिशलाका, महाशलाकाभिर्निवृत्तत्वान्महाशलाका। तत एषां द्वन्द्वेऽनवस्थितशलाकाप्रतिशलाकामहालाकास्ता' इत्थम्भूता आख्या संज्ञा येषां तेऽनवस्थितशलाकाप्रतिशलाकामहाशलाकाख्याः। त एव विशिष्यन्ते-योजनसहस्रं तु व्यवगाढा। इदमुक्तं भवति-रत्नप्रभायाः पृथिव्याः प्रथमं योजनसहस्र-प्रमाणं रत्नकाण्ड भित्त्वा द्वितीये वज़काण्डे प्रतिष्ठिता इति / पुनस्त एव विशिष्यन्ते'सवेइयंत त्ति वज्रमय्या अष्टयोजनोच्छायाश्चत्वार्यष्टौ द्वादश योजनान्युपरि मध्याधोविस्तृताया जन्बूद्वीपनगरप्राकारकल्पाया जगत्याद्वि. गव्यूतोच्छ्रितेन पञ्चधनुःशतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ताया उपरिवेदिकेति; पद्मवरवेदिकेत्यर्थः / द्विगव्यूतोच्छ्रिता पशधनुःशततिस्तीर्णा गवाक्षहे मकिङ्किणीजालघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतो वनखण्डवती तस्या अन्तः-पर्यावसानमग्रभाग इति यावत् वेदिकान्तः, ततश्च सह वेदिकान्तेन वर्तन्त इति सवेदिकान्ताः। ते च कथं सर्षपै -
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy