________________ सीओसणिज्ज 863 - अमिधानराजेन्द्रः - भाग 7 सीओसणिज्ज - यः-कश्चिदविशेषितः एकं--परमाण्वादि द्रव्यं पश्चात्- पुरस्कृतपर्याय स्वपरपर्यायं वा जानाति-परिच्छिनत्ति स सर्वं स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभावित्वाद् / इदमेव हेतुहेतुमद्भावेन लगयितुमाह- 'जे सव्व' मित्यादि, यः सर्व संसारोदरविवरवर्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति / तदुक्तम्- "एगदवियस्स जे अ-त्थपज्जवा वयणपज्जवा वावि। तीयाणामयभूया, तावइयं तं हवइ दव्वं / / 1 / / " तदेवं सर्वज्ञस्तीर्थकृत, सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयतिसवओ पमत्तस्स भयं, सव्वओ अप्पमत्तस्स नत्थि मयं जे एगं नामे से बहुं नामे,जे बहुं नामे से एग नामे। दुक्खं लोगस्स जाणित्ता वंता लोगस्स संजोगं जंति धीरा महाजाणं, परेण परं जंति, नावकंखंति जीवियं / (सू० 223) सर्वतः- सर्वप्रकारेण द्रव्यादिना यद्भयकारि कर्मोपादीयते ततः प्रमत्तस्यमद्यादिप्रमादवतो भयं-भीतिः, तद्यथा- प्रमत्तो हि कर्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशैः, क्षेत्रतः षड्दिग्व्यवस्थितं, कालतोऽनुसमयं, भावतो हिंसादिभिः, यदिवा-सर्वत्र-सर्वतो भयमिहामुत्र च, एतद्विपरीतस्य च नास्ति भयमिति / आह–च 'सव्वओ' इत्यादि, सर्वतः- ऐहिकामुष्मिकापायाद् अप्रमत्तस्य- आत्महितेषु जाग्रतो नास्ति भयं संसारापसदात्सकाशात्कर्मणा वा / अप्रमत्तता च कषायाभावाद्भवति, तदभावाचाशेषमोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः, तदेवमेकाभावे सति बहूनामभावसम्भवः / (आचा० 1) 'दुक्ख' मित्यादि, 'दुःखम्' असातोदयस्तत्कारणं वा कर्म तत् 'लोकस्य' भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च यथा तदभावो भवति तथा विदध्यात् / कथं तदभावः ? का वा तद भावे गुणावाप्तिरित्युभयमपि दर्शयितुमाह.. 'वंता' इत्यादिवान्त्वात्यक्त्वा लोकस्य-आत्मव्यतिरिक्तस्य धनपुत्रशरीरादेः संयोगममत्वपूर्वकं सम्बन्धं शारीरदुःखादिहेतु तद्धेतुकर्मोपादानकारणं वा यान्तिगच्छन्ति धीराः- कर्मबिदारणसहिष्णवः / यान्त्यनेन मोक्षमिति यानं-चारित्रं तचानेकभवकौटिदुर्लभं लब्धमपि प्रमाद्यतस्तथाविधकमोदयात् स्वपावाप्तनिधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते, महच तद्यानं च महायानम् यदिवा- महद्यानं- सम्यग्दर्शनादित्रयं यस्य स महायानो-मोक्षस्तं यान्तीति सम्बन्धः / स्यात्-किमेकेनैव. भवेनावाप्त-महायानदेश्यचारित्रस्य मोक्षावाप्तिरुत पारम्पर्येण ? उभयथाऽपि ब्रूमः, तद्यथा- अवाप्ततधाग्यक्षेत्रकालस्य लघुकर्मणस्तेनैव भवेन मुक्त्यवाप्तिरपरस्य त्वन्यथेति दर्शयति- 'परेण पर' मित्यादि, सम्यक्त्वप्रतिषिद्धनरकगतितिर्यग्गतयो ज्ञानावाप्तियथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नुवन्ति, ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्त मधितिष्ठन्ति, पुनरपि ततश्च्युतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः,तदेवं परेणसंयमेनोद्दिष्टविधिना परंस्वर्ग पारम्पर्येणापवर्गमपि या न्ति, यदि वा-- परेण-- सम्यग्दृष्टिगुणस्थानेन परं-देशविरत्याद्ययोगिकेवलि-पर्यन्तं गुणस्थानकमधितिष्ठन्ति, परेण वाऽनन्तानुबन्धिक्षयेणोल्ल-सत्कण्डकस्थानाः परं-दर्शनमोहनीयचारित्रमोहनीयक्षयं धातिभवोपग्राहिकर्मणां वा क्षयमवाप्नुवन्ति, एवंविधाश्च कर्मक्षपणोद्यता जीवितं कियद्गतं किं वा शेषमित्येवं नावकाङ्कन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकासन्तीति / यदिवा- परेण परं यान्तीत्युत्तरोत्तरां तेजोलेश्यामवाप्नुवन्तीति / उक्तं च-"जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं कस्स तेयलेस्सं बीईवयंति? गोयमा ! मासपरियाए समणे निग्गंथे वाणमन्तराणं देवाणं तेयलेस्संधीइवयइ, एवं दुमासपरियाए असुरिंदवजियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणं, चउमासपरियाए गहगणनक्खत्ततारारूवाणं जोइसियाणं देवाणं, पञ्चमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्तमासपरिआए सणंकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महासुक्कसहस्साराणं देवाणं, दसमासपरियाए, आणयपाणय-आरणचुआणं देवाणं, एगारसमासपरियाए गेवेजाणं, बारसमासे समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेसं वीइवयइ, तेण परं सुक्के सुक्कभिजाई भवित्ता तओ पच्छा सिज्झइ / " यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्त्तते उत नेत्याहएग विगिंचमाणे पुढो विगिंचइ, पुढो वि, सङ्घी आणाए मेहावी लोगं च आणाए अभिसमिया अकुओभयं, अत्थि सत्थं परेण परं, नत्थि असत्थं परेण परं // (सू० x 124) एकम्- अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् पृथग्-- अन्यदपि दर्शनाधिक क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकं यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनामकं क्षपयति पृथग्अन्यद् क्षयान्यथानुपपत्तेः, किं गुणः क्षपकश्रेणियोग्यो भवतीत्याह-- 'सङ्घी' इत्यादि, श्रद्धा--मोक्षमार्गाद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् आज्ञया-तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी मेधावीअप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यर्हो नापर इति / किं च- 'लोगं च' इत्यादि, चः समुच्चये, लोकं षड्जीवनिकायात्मकं कषायलोकं वा आज्ञया- मौनीन्द्रागमोपदेशेन अभिसमेत्य-ज्ञात्वा षड्जीवनिकायलोकस्य यथा न कुतश्चिन्निमित्ताद्भयं भवति तथा विधेयम् , कषायलोक-प्रत्याख्यानपरिज्ञानाच तस्यैव परिहर्न कुतश्चिद्भयमुपजायत इति, लोकं वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामुष्मिकापायसंदर्शन-तो भयं भवति / (आचा०।) एतदेव प्रतिसूत्रं लगायितव्यमित्याहजे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी.