________________ सीओसणिज्ज 861 - अभिधानराजेन्द्रः - भाग 7 सीओसणिज्ज थेति, अयं तावन्निश्चयनयाभिप्रायो व्यवहाराभिप्रयेण तूच्य ते-यो हि सम्यग्दृष्टिरुत्क्षिमपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्न-प्यपरसमानसाधुलज्जया गुद्यिाराध्यभयेन गौरवेण वा केतचिदाधाकम्र्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति / यदि च-तीर्थोद्धासनाय मासक्षपणातापनादिका जनविज्ञाताः क्रियाः करोति, तत्र तस्य मुनिभाव एव कारणं तद्व्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः।। तदेवं शुभान्तः करणव्यापारविकलस्य मुनित्वे सदसद्भावः प्रदर्शितः। / कथं तर्हि नैश्चयिकां मुनिभाव इत्यत आह / / समयं तत्थुवेहाए अप्पाणं विप्पसायए (आचा०1)-विरागं रूवेहिं गच्छिज्जा महया खुड्डएहि य / / (सू० 16+) . समभावः समता तां तत्रोत्प्रेक्ष्य- पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानेषणीयपरिहरणं लज्जादिना जनविदितं चोपवासादि तत्सर्वं मुनिभावकारणमिति, यदिवा समयम् -आगमं तत्रोत्प्रेक्ष्य यदाममोक्तविधिनाऽनुष्ठानं तत्सर्वं मुनिभावकारणमिति भावार्थः / तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं विप्रसादयेद्- विविधं प्रसादयेदागमपर्यालोचनेन समतादृष्ट्या वा आत्मान विविधैरुपायैरिन्द्रिय-प्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् / आत्मप्रसन्नता च संयमस्थस्य भवति / (आचा० / ) "आहाथ कर्म कुर्यादानिन्धस्यादाहारः प्राणसन्धारणार्थम् / प्राणाः धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् // 1 // " सैवात्मगुप्तता कथं स्यादिति चेदाह- 'विराग मित्यादि, विरञ्जनं विरागस्तं विरागं रूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु गच्छेद् - यायात्, रूपमतीवाऽऽक्षेपकारी अतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागं गच्छेदित्युक्तं स्यात् / महता- दिव्यभावेन यद्व्यवस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति / अथवा- दिव्यादि प्रत्येकं महत् क्षुल्लं चेति क्रिया पूर्ववत् / नागार्जुनीयास्तु पठन्ति"विसयंमि पंचगम्मि वि, दुविहंमि तियं तियं / भावओ सुठु जाणित्ता, से न लिप्पइ दोसु वि॥१॥" शब्दादिविषयपञ्चकेऽपि इष्टानिष्टरूपतया द्विविधे हीनमध्यमोत्कृष्टभेदमित्येतत् भावतः परमार्थतः सुष्ठु ज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपिरागद्वेषाभ्यां न लिप्यते, तदकरणादिति भावः / (आचा०।) स्यात् - किमालम्ब्यैतत्कर्त्तव्यमित्याह --- "सवं हासं परिचज, आलीणगुत्तो परिष्वए। पुरिसा! तुममेव तुमं, किं बहिया मित्तमिच्छसि ? ||1||" (सू० 117x) पुनरप्युपदेशदानायाह- 'सव्व' मित्यादि, सर्व हास्यं तदास्पदं वा परित्यज्य आङ् मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाकायकर्मभिः कूर्मवद् वा-संवृतगात्रः आलीनश्वासौ गुप्तश्चालीनगुप्तः स एवम्भूतः परिः-समन्ताद् व्रजेत् परिव्रजेत्संयमानुष्ठानविधायी भवेदिति / तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद्भवतिनपरोपरोधेनेति दर्शयति- 'पुरिसा' इत्यादि, यदिवा- त्यक्तगृहपुत्रकलत्रधतधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्तालेष्टुकाञ्चनस्य मुमुक्षोरुप-सर्गव्याकुलितमतेः कदा- चिन्मित्राद्याशंसा भवेत्तदपनोदार्थमाह- 'पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषो- जन्तुः, पुरुषद्वारामन्त्रणं तु पुरुषस्यैवोपदेशाहत्वात्तदनुष्ठान-समर्थत्वाचेति कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मा-नमनुशास्ति, परेण वा साध्यादिनाऽनुशास्यते-- यथा हे पुरुष ! -- हे जीव ! तव सदनुष्ठानविधायित्वात्वमेव मित्रं, विपर्ययाचामित्रः, किमिति बहिर्मित्रमिच्छसि ? मृगयसे, यतोयुपकारि मित्रं, सचोपकारः पारमार्थिकात्यन्ति-कैकान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातुं, योऽपि संसारसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितम्, यतो महाव्यसनोपनिपाताऽर्णवपतनहेतुत्वादमित्र एवासौ / इदमुक्तं भवति -आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात्, विपर्ययाच विपर्ययो, न बहि-मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽदृष्टोदयनिमित्तत्वादौपचारिक इति, उक्त हि "दुप्पत्थिओ, अमित्तं, अप्पा सुपत्थिओ अ ते मित्तं / सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च // 1 // ' तथा- "अप्येकं मरणं कुर्यात्, संक्रुद्धो बलवानरिः / मरणानि त्वनन्तानि, जन्सानि च करोत्ययम् // 1 // " यो हि निर्वाणनिर्वर्तकं व्रतमाचरति स आत्मनो मित्रम्। च चैवम्भूतः कुतोऽवगन्तव्यः? किंफलश्चेत्याहजंजाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उचालइयं, पुरिसा ! अत्ताणमेवं अभिणिगिज्झ, एवं दुक्खा पमुञ्चसि, पुरिसा ! (आचा०) सहिओ धम्ममाया य सेयं समणुपस्सइ। (सू० 1184) यं-पुरुषं जानीयात्- परिच्छिन्द्यात्कर्मणां विषयसङ्गानां चोचालयितारम्-अपनेतारं तं जानीयाद्दूरालयिकमिति-दूरे सर्बहेयधर्मेभ्य इत्यालयो दूरालयः-मोक्षस्तन्मार्गोवा स विद्यते यस्येति मत्वर्थीयष्ठन् दूरालयिकस्तमिति। हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागतसूत्रमाह- 'जं जाणिजे' त्यादि, यं जानीयाद् दूरालयिकं तं जानीयादुचालयितारमिति / एतदुक्तं भवति- यो हि कर्मणां तदास्रवद्वाराणां चोचालयिता-अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो क्रेति, यो या सन्मार्गानुष्ठायी स कर्मणामुच्चालयितेति, स च आत्मनो मित्रमतोऽपदिश्यते- 'पुरिसा' इत्यादि, हेजीव ! आत्मानमेवाऽभिनिगृह्य धर्मध्यानादाहिर्विषयाभिष्वगाय निःसरन्तमवरुध्य ततः एवम्-अनेन प्रकारेण दुःखात्सकाशादात्मानं प्रमोक्ष्यसि / एवमात्मा कर्मणाम् उच्वालयिताऽऽत्मनो मित्रं भवति / अपि च- 'पुरिसा' इत्यादि, ('सच' मित्यादि 'सच' शब्देऽस्मिन्नेव भागे गतम् / ) किं च- 'सही' त्यादि, सहितो-ज्ञानादियुक्तः सह हितेन वा युक्तः सहितः धर्मश्रुतचारित्राख्यम् आदाय-- गृहीत्वा, किं करोतीत्याह- श्रेयःपुण्यमात्महितं वा सम्यग- अविपरीततयाऽनुपश्यति समनुपश्यति / __ उक्तोऽप्रमत्तः तद्गुणाश्च, तद्विपर्ययमाह // दुहओ जीवियस्स परिवंदणमाणणपूयणाए, जंसि एगे पमायंति / (119)