________________ सीओसणिज्ज 886 - अभिधानराजेन्द्रः - भाग 7 सीओसणिज्ज शापूर्वकरणचरमसयमे बन्धोपरमात्पञ्चविधं ६,ततोऽनिवृत्ति-करणस ख्येयभागावसाने पुंवेदबन्धोपरमाच्चतुर्विधं 7, तताऽपि तस्मिन्नेव सङ्ख्येयभागे क्षयमुपगच्छति सति क्रोध-मानमायालोभसज्वलनानां क्रमेण बन्धोपरमात् त्रिविधं 8 द्विविध : मेकविधं 10 चेति, तस्याप्यनिवृत्तिकरणचरमसयमे बन्धोपरमान्मोहनीयस्याबन्धकः / आयुषः सामान्येनेकविधं बन्धस्थानं चतुर्णामन्यतरत्, व्यागिपद्येन बन्धाभावो विरोधादिति। नाम्नोऽष्टौ बन्धस्थानानि, तद्यथा- त्रयोविंशतिस्तिर्यग्गतिप्रायोग्यं बध्नतस्तिर्यम्गतिरेकेन्द्रियजातिरौदारिकतैजसकाम॑णानि हुण्डसंस्थानं वर्णगन्धरसस्पर्शास्तिर्यग्गतिप्रायोग्यानुपूर्वी अगुरुलघूपघातं स्थावरं बादरसूक्ष्मयोरन्यतरदपर्याप्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरं अशुभम् दुर्भगम् अनादेयम् अयशः कीर्तिनिर्माणमिति, इयमेकेन्द्रियापर्याप्तकप्रायोग्यं बध्नतो मिथ्यादृष्टभवति 1, इयमेव पराधातोच्छ्वाससहितापञ्चविंशतिः,नवरमपर्याप्तकस्थाने पर्याप्तकमेव वाच्यम् 2, इयमेव चातपोद्योतान्यतरसमन्विता षड्विशतिः, नवरं बादरप्रत्येके एव वाच्ये 3, तथा देवगतिप्रायोग्य बध्नतोऽष्टाविंशतिः, तथाहि-देवगतिः 1 पञ्चेन्द्रियजातिः 2 वैक्रिय 3 तैजस 4 कार्पणानि 5 शरीराणि समचतुरस्रम् 6 अङ्गोपाङ्गम् 7 वर्णादिचतुष्टयम् 11 आनुपूर्वी 12 अगुरुलघू 13 पघात 14 पराघातो 15 च्छ्वासाः 16 प्रशस्तविहायागतिः 17 त्रसम् 18 बादरम् 16 पर्याप्तकम् 20 प्रत्येकम् 21 स्थिरास्थिरयोरन्यतरत् 22 शुभाशुभयोरन्यतरत् 23 सुभगम् 24 सुस्वरम् 25 आदेयम् 26 यशःकीर्त्ययशः कीयोरन्यतरत् 27 निर्माणमिति 28, एषैव तीर्थकरनामसहिता एकोनत्रिशत, साम्प्रतं त्रिशत्-देवगतिः 1 पञ्चेन्द्रियजातिः 2 वैक्रिया 3 हारका 4 ङ्गोपाङ्ग 5-6 चतुष्टयम् तैजस७ कार्मणे 8 संस्थानमाद्यम् 6 वर्णादिचतुष्टकम् 13 आनुपूर्वी 14 अगुरुलघू 5 पघातम् 16 पराघातम् 17 उच्छवासम् 18 प्रशस्तविहायागतिः 16 त्रसम् 20 बादरम् 21 पर्याप्तकम् 22 प्रत्येकम् 23 स्थिरम् 24 शुभम् 25 सुभगम् 26 सुस्वरम् 27 आदेयम् 28 यशः कीर्ति 26 निर्माण 30 मिति घ बध्नत एकं बन्धस्थानम् 6, एषैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् 7, एतेषां च बन्धस्थानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्थादवसेया, अपूर्वकरणादिगुणस्थानकत्रये देवगतिप्रायोग्यबन्धोपरमाद्यशः कीर्तिमेव बध्नतः एकविधं बन्धस्थानमिति , तत ऊर्ध्वं नानो बन्धाभाव इति। गोत्रस्य सामान्येनैक बन्धस्थानं- उचनीचयोरन्यतरत् / यौगपद्येनोभयोर्बन्धाभावो विरोधादिति / तदेवं बन्धद्वारेण लेशतो बहुत्वमावेदितं कर्मणं, तब बहुकर्म प्रकृतं बद्धं प्रकटं वा, तत्कार्यप्रदर्शनात्, खलुशब्दो वाक्यालङ्कारेऽवधारणे वा, बढे व तत्कर्म। यदि नामैवं ततस्तदपनयनार्थं किं कर्तव्यमित्याहसच्चम्मि धिई कुव्वहा, एत्थोवरए मेहावी सव्वं पावं कम्मं | जोसइ / (सू० 112) सद्भ्यो हितः सत्यः-संयमस्तत्रधृतिं कुरुध्वं, सत्यो वा मौनीन्द्रागमो | यथावस्थितवस्तुस्वरूपाविर्भावनात्, तत्र भगवदाज्ञायां धृति कुमार्गपरित्यागेन कुरुध्वमिति, किं च- 'एत्थोवरए' इत्यादि, अत्रअस्मिन् संयमे भगवद्वचसि वा उप-आमीप्येन रतो- व्यवस्थितो मेधावी- तत्त्वदर्शी सर्वम्-अशेषं पापं कर्म संसारार्णवपरिभ्रमणहेतुं झोषयति-शोषयति क्षयं नयतीति यावत् / उक्तोऽप्रमादः / तत्प्रत्यनीकस्तुप्रमादः / तेन च कषायादिप्रमादेन प्रमत्तः किंगुणो भवतीत्याहअणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पुरिण्णए, से अण्णवहाए अण्णपरियावाए अण्णपरिग्गहाए जणवयबहाए जणक्यपरियावाए जणवयपरिगहाए। (सू० 113) अनेकानि चित्तानि कृषिवाणिज्यावलगनादीनि यस्यासावनेकचित्तः, खलुरवधारणे, संसारसुखा-भिलाष्यनेकचित्त एव भवति, अय पुरुष' इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते, अत्र च प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेण च दृष्टान्तो वाच्य इति / यश्चानेकचित्तो भवति स किं कुर्यादित्याह- ‘से केयण' मित्यादि, द्रव्यकेतनं चालिनी परिपूर्णकः समुद्रो वेति, भावकेतनं लोभेच्छा तदसावनेकचित्तः केनाप्यभूतपूर्व पूरयितुमर्हति, अर्थितया शक्याशक्यविचाराक्षमोऽशक्यानुष्ठानोऽपि प्रवर्तत इत्युक्तं भवति। स च लोभेच्छा-पूरणव्याकुलितमतिः किं कुर्यादित्याह- 'से अण्णवहाए' इत्यादि, स लोकपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति, तथाऽन्येषां शारीरमानसपरितापनाय, तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय, जनपदे भवा जानपदाः कालप्रष्टादयो राजादयो वा तद्वधाय, मगधादिजनपदा वा तद्वधाय, तथा जनपदानां लोकानां परिवादाय-दस्तुरय पिशुनो वेत्येवं मर्मोद्घट्टनाय, तथा जनपदानां मगधादीनां परिग्रहाय, प्रभवतीति सर्वत्राध्याहारः। किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्वन्ति ते तथाभूता एवासते उतान्यथाऽपीति दर्शयतिआसेवित्ता एतं (वं) अटुं इथेवेगे समुट्ठिया, तम्मा तं बिइयं नो सेवे, निस्सारं पासिय नाणी, उववायं चवणं णचा, अणण्णं चर माहणे, से न छणे न छणावए छणंतं नाणुजाणइ, निविद नंदि, अरए पयासु, अणोमदंसी, निसपणे पावहिं कम्महिं। (सू० 114) एवम्-अनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्य इत्येवेति लोभेच्छाप्रतिपूरणायैव एके भरतराजादयः समुत्थिताः-सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति / संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चास्रवद्वाराणि हित्वा किं विधेयमित्याह--'तम्हा' यस्माद्वान्तभोगतया कृतप्रतिज्ञस्तस्माद्भोगलिप्सुतया तं द्वितीयं मृषावादमसंयम वा नासेवेत। विषयार्थमसंयमः सेव्यते, ते च विषया निः सारा इति दर्शयति- 'निस्सारं' इत्यादि, सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावान्निः सारस्तं दृष्ट्वा ज्ञानीतत्त्ववेदी न विषयाभिलाषंविदध्यात् न केवलं मुनष्याणां, देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति'उववायं चवणं णचा' उपपातंजन्म च्यवनपातस्तच ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयग्रामः समस्तः संसारो