________________ सीओसणिज्ज ८८८-अभिधानराजेन्द्रः - भाग 7 सीओसणिज्ज जातिः-- प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः इहमनुष्यलोके, संसारे वा अद्यैव कालक्षेपमन्तरेण जातिं च वृद्धिं च पश्च- अवलोकय / इदमुक्तं भवति-जायमानस्य यद् दुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्च / उक्तं च"जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो। तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो // 1 // विरसरसियं रसंतो, तो सो जोणीमुहाउ निप्फिडइ। माऊऍ अप्प्णोऽवि अ, वेअणमउलं जणेमाणो // 2 // " तथा - "हीणभिण्णसरो दीणो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओ, वसई, संपत्तो चरिमं दसं // 3 // " इत्यादि। अथवा- आर्य ! इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य ! जाति बृद्धिं च तत्कारणं कर्म कार्यं च दुःखं पश्य, दृष्ट्वाऽवबुद्ध्यस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व / किं चापरम्-'भूएहि मित्यादि, भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मनः सातं- सुखं प्रत्युपेक्ष्य-पर्यालोच्य जानीहि, तथाहि- यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा चत्वं दुःखविडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोत्पादनं न विदध्याः, एवं च जन्मादिदुःखं न प्राप्स्यसीति / उक्तं च- "यथेष्टविषयाः सात-मनिष्टा इतरत्तव / अन्यत्रापि विदित्वैवं, न कुर्यादप्रियंजने // 1 // " यद्येवं ततः किमित्याह'तम्हा' - इत्यादि, तस्मात्-जातिवृद्धिसुखदुः खदर्शनादतीवं विद्या तत्त्वपरिच्छेत्री यस्यासावतिविद्यः स-परमं मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यक्त्वदर्शी सन् पापं न करोति, सावधमनुष्ठानं न विदधातीत्युक्तं भवति। पापस्य च मूलं स्नेहपाशस्तदपनोदार्थमाहउम्मुंच पासं इह मचिएहिं, आरंभजीवी, उभयाणुपस्सी। कामेसु गिद्धा निचयं करंति, संसिचमाणा पुणरिति गन्मं // 2 // इह- मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारे मत्यैः सार्द्ध द्रव्यभावभेदभिन्नं पाशम् उत् -प्राबल्येन मुञ्च-अपाकुरु, स हि कामभोगलालसस्तदानहेतोर्हिसादीनि पापान्यारभते अतोऽपदिश्यते'आरंभ' इत्यादि, आरंभेण जीवितुं शीलमस्येत्यारम्भजीवीमहारम्भपरिग्रहपरिकल्पितजीवनोपायः उभयं-शारीरमान-समैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किं च- 'कामेसु' इत्यादि कामाःइच्छामदनरूपास्तेषु गृद्धाः-अध्युपपन्ना निचयं-कर्मोपचयं कुर्वन्ति। यदि नामैवं ततः किमित्याह-- 'संसिच' इत्यादि, तेन कामोपादानजनितेन कर्मणा संसिच्यमानाः-आपूर्यमाणा गर्भादर्भान्तरमुपयान्ति, संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति / (आचा०) एस मरणा पमुच्चइ, से हु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सयाजए कालखी परिवए, | बहुं च खलु पावं कम्मं पगडं / (सू० 111) एष-इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्मदर्शी मरणाद-आयुःक्षयलक्षणात् मुच्यते आयुषो बन्धनाऽभावाद, यदिवा-आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते। यश्चैवं स किम्भूतो भवतीत्याह- ‘से हु' इत्यादि, सः अनन्तरोक्तो मुनिर्दृष्ट संसाराद्यं सप्तप्रकारं वा येन य तथा, हुरवधारणे दृष्टभय एव / किं च -'लोयंसि' इत्यादि, लोके द्रव्याधारे चतुर्दशभूतग्रामात्मके वा परमोमोक्षस्तत्कारणं वा संयमः तं द्रष्टु शीलमस्येति परमदर्शी, तथा 'विविक्तं' स्त्रीपशुपण्डकसमन्वितशय्यादिरहितं द्रव्यतः, भावतस्तु रागद्वेषरहितमसक्लिष्टं जीवितुं शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रिय- नोइन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो-गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितः- समन्वितो, यश्च ज्ञानादिसहितः स सदा यतः-- अप्रमादी / किमवधिश्वायमन्तरोक्तो गुणोपन्यास इत्याह- 'काल' इत्यादि, कालो-मृत्युकालस्तमाकासितुं शीलमस्येति कालाकाङ्क्षी स एवम्भूतः परिः-समन्ता व्रजेत्परिव्रजेत्, यावत्पर्यायागतं पण्डितमरणं तावदाकाङ्खमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति / स्यादेतत्- किमर्थम् एवं क्रियते ? इत्याहमूलोत्तरप्रकृतिभेदभिन्न प्रकृतिस्थित्यनुभावप्रदेशबन्धात्मकं बन्धोदयसत्कर्मताव्यवस्थामयं तथा बद्धस्पृष्ट-निधत्तनिकाचितावस्थागतं कर्म तच न ह्रसीयसा कालेन क्षयमुपयातीत्यतः कालाकाङ्गीत्युक्तम्, तत्र बन्धस्थानापेक्षया तावन्मूलोत्तरप्रकृतीनां बहुत्वं प्रदर्श्यते, तद्यथासर्वमूलप्रकृतीबंधनतोऽन्तर्मुहूर्तं यावदष्टविधम्, आयुष्कवज सप्तविधं, तज्जघन्येनान्तर्मुहूर्तमुत्कृष्टतस्तद्रहितानि अयस्त्रि-शत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, सूक्ष्मसंपरायस्य मोहनीयबन्धोपरमे आयुष्कबन्धाभावात् षड्विधम्, एतच जघन्यतः सामयिकमुत्कृष्टतस्त्वन्तर्मुहूर्तमिति / तथोपशान्तक्षीणमोहसयोगिकेवलिनां सप्तावधबन्धोपरमे सातमेकं बध्नतामेकविधं बन्धस्थानं, तच्च जघन्येन सामयिकमुत्कृष्टतो देशोनपूर्वकोटिकालीयम्। इदानीमुत्तरप्रकृतिबन्धस्थानान्यभिधीयन्तेतत्र ज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धित्वाद्वन्धस्थानं, दर्शनावरणीयस्य त्रीणि बन्धस्थानानिनिद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् ध्रुव-बन्धित्वान्नवविधं 1, ततः स्त्यानद्धित्रिकस्यानन्तानुबन्धिभिः सह बन्धोपरमे षड्विधम् 2, अपूर्वकरणसङ्ख्येयभागे निद्राप्रचलयोर्बन्धोपरमे चतुर्विधं बन्धस्थानम् 3. वेदनीय-स्यैकमेव बन्धस्थानं सातमसातं वा बध्नतः, उभयोरपि यौगपद्येन विरोधितया बन्धाभावात् / मोहनीयबन्धस्थानानि दश, तद्यथा-द्वाविंशतिः-मिथ्यात्वं 1 षोडश कषाया 17 अन्यतरवेदो 18 हास्यरति-युग्मारतिशोकयुग्मयोरन्यतर 20 द्वयं 21 जुगुप्सा 22 चेति 1, मिथ्यात्वबन्धोपरमे सास्वादनस्य सैवैकविंशतिः 2, सैव सम्यग्मिथ्या-दृष्टरविरतसम्यग्दृष्टी अनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानं 3, तदेव देशविरतस्याप्रत्याख्यानबन्धाभावे त्रयोदशविधं 4, तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धाभावान्नवविधम् 5, एतदेव हास्यादियुग्मस्य भयजुगुप्सयो