________________ सीओसणिज्ज 857 - अभिधानराजेन्द्रः - भाग 7 सीओसणिज्ज तास्थानानि, तद्यथा- नवविधं निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिबादरकालसङ्ख्येयभागान् यावत् 1, ततः कतिचित्संख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्मतास्थानं 2, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाचतुः सत्कर्मतास्थानं तस्यापि क्षयः क्षीणकषायकालान्त इति 3 / वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा-द्वे अपि सातासाते इत्येकम्, अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये स ति सातमसातं वा कम्मेति द्वितीयम् 2 / मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा-षोडश कषाया नव नोकषाया दर्शनत्रये सति सम्यग्दृष्टरष्टाविंशतिः 1, सम्यक्त्वोदलने सम्यगमिथ्यादृष्टः सप्तविंशतिः 2, दर्शनद्वयो-दलनेऽनादिमिथ्यादृष्टा षड्विशतिः 3, सम्यगदृष्टरष्टा-विंशतिसत्कर्मणोऽनन्तानुबन्ध्युदलने क्षपणे वा चतुर्विशतिः 4, मिथ्यात्वक्षये त्रयोविंशतिः 5, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः 6, क्षायिकसम्यग्दृष्टेरेकविंशतिः 7. अप्रत्याख्यानप्रत्याख्याना-वरणक्षये त्रयोदश 8, अन्यतरवेदक्षयेद्वादश 6, द्वितीयवेदक्षये सत्येकादश 10, हास्यादिशट्कक्षये पञ्च 11, पुंवेदाभावे चत्वारि 12, संज्वलनक्रोधक्षये त्रयः 13, मानक्षये द्वौ 14, मायाक्षये सत्येको लोभः 15, तत्क्षये च मोहनीयासत्तेति। आयुषो द्वे सत्कर्मातास्थाने सामान्येन, तद्यथा-परभवायुष्क-बन्धोत्तरकालमायुष्कद्वयमेकम् 1, द्वितीयं तु तद्वन्धाभाव इति / नास्नो द्वादश सत्कर्मतास्थानानि, तद्यथा- त्रिनवतिः 1 द्विनवतिः 2 एकोननवतिः 3 अष्टाशीतिः / षडशीतिः 5 अशीतिः 6 एकोनाशीतिः 7 अष्टसप्ततिः 8 षट्सप्ततिः / पञ्चसप्ततिः 10 नव 11 अष्टौ 12 चेति, तत्र त्रिनवतिः- गतयश्चतस्रः 4 पञ्च जातकः, 5 पञ्च शरीराणि 5 पञ्च सङ्घाताः 5 बन्धनानि पञ्च-५ संस्थानानिषट्६अङ्गोपाङ्गत्रयं 3 संहननानि षट्६ वर्णपञ्चक 5 गन्धद्वयं 2 रसाः पञ्च 5 अष्टौ स्पर्शाः 8 आनुपूर्वीचतुष्टयम् 4 अगुरुलधूपघातापराघातोच्छ्वासातपोद्योताः षट् 6 प्रशस्तेतरविहायोगतिद्वयं 2 प्रत्येक-शरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तकस्थितादेययशांसि सेतराणीति विंशतिः 20 निर्माणं तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिनवतिर्भवति 63, तीर्थकरनामाभावे द्विनवतिः 62, त्रिनवतेराहारक-शरीरसङ्घातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः 86, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः 88, देवगतितदानुपूर्वीद्वयोदलने षडशीतिः 86, यदिवा-अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बध्यतः तद्गत्यानुपूर्वीद्वयवैक्रियचतुष्कबन्धकस्य षडशीतिः, देवगति-प्रायोग्यबन्धकस्य वेति ततो नरकगत्यानुपूर्वीद्वयवैक्रियेचतुष्टयोद्वलनेऽशीतिः 80, पुनर्मनुष्यगत्यानुपूर्वीद्वयोदलनेऽष्टसप्ततिः 78, एतान्यक्षपकाणां सत्कर्मतास्थानानि / क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा-त्रिनवतेनरकतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रिय-जात्यातपोद्योतस्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयोदशभिः 13 कर्मभिः क्षपितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः, याऽसावाहारकचतुष्टयापगमेनैकोननवतिः सञ्जाताततस्त्रयोदशनाम्नि क्षपितेषटसप्ततिर्भवति, तीर्थ करनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेवलिशैलेश्यापन्नविचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकर्मप्रकृतिव्युदासेन क्षयमपगते शेषनाम्नि अन्त्यसमये नवसत्कर्मतास्थानं, ताश्च वेद्यमाना नवेमाः, तद्यथा- मनुजगति 1 पञ्चेन्द्रियजाति 2 त्रस 3 बादर 4 पर्याप्तक 5 शुभगादेय 6-7 यशःकीर्ति 8 तीर्थकररूपाः 6, एता एव शैलेश्यन्त्यसमये सत्तां विभ्रति, शेषास्तु एकसप्ततिः सप्तषष्टि द्विचरमसमये क्षयमुपयान्ति, एता एव नव अतीर्थकरकेवलिनस्तीर्थकरनामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्मतास्थानमिति / सामान्येन गोत्रस्य द्वे सत्कर्मतास्थाने, तद्यथा- उच्चनीयगोत्रसद्भावे सत्येकं सत्कर्मातास्थानं, तेजोवायूचैर्गोत्रोदलने कालंकलीभावावस्थायां नीचैर्गोत्रसत्कर्मातेति, द्वितीयं, यदिवा- अयोगिद्विचरसमये नीचैर्गोत्रक्षये, सत्युच्चैर्गोत्रसत्कर्मता, एवं द्विरूपगोत्राऽवस्थाने सत्येक सत्कर्मतास्थानमन्यतंरगोत्रसद्भावे सति द्वितीयमित्येवं कर्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति / किं च - कम्ममूलं च जंछणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिनाय मेहावी विइत्ता लोग वंता लोगसन्नं से मेहावी परिक्कमिजासि त्ति बेमि / (सू०११०) कर्मणो मूलं-कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, चः समुचये, कर्ममूलं च प्रत्युपेक्ष्य यत्क्षण-मिति 'क्षणु' हिंसायां, क्षणनं-हिंसनं यत्किमपि प्राण्युपघातकारि तत् कर्ममूलतया प्रत्युपेक्ष्य परित्यजेत्। पाठान्तरं वा 'कम्ममाहूय जं छणं' य उपादानक्षणोऽस्य कर्मणः तत्क्षणं काहूय-कर्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद् / इदमुक्तं भवति-अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्महेतुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोनिवृत्तिं विदध्यादिति। पुनरप्युपदेशदानायाह- 'पडिलेहिअ' इत्यादि, प्रत्युपेक्ष्य, पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्व समादाय-गृहीत्वा अन्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा तत्कर्मतदुपादानं या रागादिकं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति रागादिभोहितं लोकं विषयकषायलोकं वा ज्ञात्वा वान्त्वा च लोकसंज्ञा-विषयपिपासासंज्ञितां धनायाग्रहरूपां वा स-मेधावी मर्यादाव्यवस्थितः सन् पराक्रमेत-संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषड्वर्ग वाऽष्टप्रकारं वा कविष्टभ्याद् / इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् / इति शीतोष्णीयाध्ययन-प्रथमोद्देशकटीका समाप्ता। उक्तः प्रथमोद्देशकः / साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनाथातस्यास्त सूत्रानुगमे सूत्रमुचारयितव्यम् तचेदम्जाइंच वुद्धिंच इहऽल ! पासे, भूएहिं जाणे पडिलेह सायं। तम्माऽतिविझे परमं ति णचा, संमत्तदंसी न करेइ पावं ||1||