________________ सीओसणिज्ज 885 - अमिधानराजेन्द्रः - भाग 7 सीओसणिज गंधा य फासा य अभिसमन्नागया भवंति / (सू० 106) लोके षड्जीवनिकाये जानीहि-परिच्छिन्द्या दुःखहेतुत्वाद् दुःखम् -अज्ञानं मोहनीयं वा तदहिताय-नरकादिभवव्यसनोपनिपाताय / इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि / परिज्ञानाचैतत्फलें, यदुत-द्रव्यभावस्दापादज्ञानरूपाद्दुःखहेतोरपसर्पणमिति। किंचान्यत्- 'समय' मित्यादि, समयः-आचारोऽनुष्ठानं तं लोकस्यासुमद्वातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेदित्युत्तरसूत्रेण सम्बन्धः / लोको हि भोगाभिलाषियता प्राण्युपमर्दादिकषायहेतुकं कर्मोपादाय नरकादियातनास्थानेषूत्पद्यते, ततः कथञ्चिदुद्वृत्त्यावाप्य चाशेषक्लेशव्रातघ्र धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमतिस्तत्तदारभते येन येनाधोऽधो व्रजति, संसारान्नो न्मज्जतीति / अयं लोकाचारस्तं ज्ञात्वा, अथवा-समभावः-समता तां ज्ञात्वा, 'लोकस्य' सप्तम्यर्थे षष्ठी, ततश्चायमर्थो-लोकेजन्तुसमूहे समता-समशत्रुमित्रता समात्मपरतां वा ज्ञात्वा, यदिया-सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखेप्सवो दुःखद्विष इत्येम्भूतां समतां ज्ञात्वा, किं कुर्यादित्याह- 'एत्थ सत्थोवरए' अत्र अस्मिन् षट्कायलोके शस्त्राद् द्रव्यभावभेदादुपरतो धर्मजागरणेन जागृहि, यदिवायद्यत्संयमशस्त्र प्राणातिपाताद्यास्रवद्वारं शब्दादिपञ्चप्रकारकामगुणाभिष्वङ्गा वा तस्माद्य उपरतः स मुनिरिति / आह च'जस्सिमे' इत्यादि, यस्य मुनेरिमेप्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसेगन्धस्पर्शा मनोज्ञेतरभेदभिन्ना 'अभिसमन्वागता' इति, अभिः-आभिमुख्येन सम्यग्- इष्टानिष्टावधारणतयाऽन्विति-शब्दादिस्वरूपावगमात् पश्चादागता:- ज्ञाताः परिच्छिन्ना यस्य मुतेर्भवन्ति स लोकं जानातीति सम्बन्धः / इदमुक्तं भवति- इष्टेषु न रागमुपयाति, नापीतरेषु द्वेषम्, एतदेवाभिसमन्वागमन तेषां नान्यदिति। यदिवेहैव शब्दादयो दुःखाय भवन्त्यास्तां तावत्परलोक इति, उक्तं च- "रक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः / कृपणपतङ्गो रूपे, भुजगो गन्धे ननु विनष्टः ||1|| पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः / एकः पञ्चसु रक्तः, प्रयाति भस्मान्ततामबुधः / / 2 / / " अथवा-शब्देपुष्पशालाद्भद्रा ननाश, रूपेअर्जुनकतस्करः, गन्धे-गन्धप्रियकुमारः, रसे-सौदासः, स्पर्शसत्यकिः, सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति। एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ क गुणमवाप्नुयादित्याह से आयवं नाणवं वेयवं धम्मवं बंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति बुचे, धम्मविऊ उजु आवट्टसोए संगममिजाणइ / (सू० 107) 'यो हि महामाहनद्रावृते लोके दुःखमहिताय जानानोलो कसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान् दुःखै-कहेतूनभिसमन्वागच्छति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्रत्याचष्टे स मुमुक्षुरात्मवान् आत्मा ज्ञानादिकोऽस्यास्तीत्यात्मवान्, शब्दादिपरित्यागेन ह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सत्यात्मकार्याकरणात्कतोऽस्यात्मेति, पाठन्तरं वा-'से आयवी नाणवी' आत्मानंश्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित, तथा ज्ञानं यथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानवित्, तथा वेद्यते जीवादिस्वरूपम् अनेनेति वेदः-आचाराद्यागमः तं वेत्तीति वेदवित्, तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म वेत्तीति धर्मवित्, एवं ब्रह्मअशेषमलकलङ्कविकलं योगिशर्म वेत्तीति ब्रह्मवित्, यदिवा--अष्टादशधा ब्रह्मेति, एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानिमत्यादीनि तैलॊकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानातिपरिच्छिनत्तीत्युक्तं भवति, य एव शब्दादिविषयसङ्गस्य परिहर्ता स एव यथा-वस्थितलोकस्वरूपपरिच्छेदीति / यश्वानन्तरगुणोपेतः स किं वाच्य ? इत्यत आह- 'मुणी' त्यादि, यो ह्यात्मवान् ज्ञानवान् वेदवान् धर्मवान्, ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोकं जानाति स मुनिर्वाच्यो, मनुते, मन्यते वा जगतस्त्रिकालावस्थां मुनिरिति कृत्वा, किंच--'धम्म' इत्यादि, धर्म-चेतनाचेतन-द्रव्यस्वभावं श्रुतचारित्ररूपं वा वेत्तीति धर्मवित्, 'ऋजु' रिति ऋजोः- ज्ञानदर्शनचारित्राख्यस्य मोक्षमार्गस्यानुष्ठानादकुटिलो यथावस्थितपदार्थस्वरूप-परिच्छेदादा ऋजुः सर्वोपाधिशुद्धोऽवक्र इति यावत् / तदेवं धर्मविदृजुर्मुनिः किम्भूतो भवतीत्याह-- 'आवट्ट' इत्यादि, भावावलॊजन्मजरामरणरोगशोकव्यसनोपनिपातात्मकः संसार इति, उक्तं हि-"रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् / जन्मावर्ते जगत्क्षिप्तं, प्रमादाद् भ्राम्यते भृशम् // 1 // " भावश्रोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आवर्त्तश्च श्रोतश्वावर्त्त- श्रोतसी तयो रागद्वेषाभ्यां सम्बन्धः- सङ्गस्तमभिजानातिआभिमुख्येन परिच्छिनत्ति- यथाऽयं सङ्गः आवर्त्तश्रोतसोः कारणं, जानानश्च परमार्थतः कोऽभिधीयते ? योऽनर्थ ज्ञात्वा परिहरति, ततश्चायमर्थः-संसारश्रोतः सङ्ग रागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव आवर्तस्रोतसोः सङ्गस्याभिज्ञाता। सुप्तजाग्रता दोषगुणपरिच्छेदी कं गुणमवाप्नुयादित्याह -- सीउसिणचाई से निग्गंथे अरहरइसहे, फरसयं नो वेएड. जागरवेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामुचुवसोवणिए नरे समयं मूढे धर्म नाभिजाणइ / (सू० 108) सबाह्याभ्यन्तरग्रन्थरहितः सन् शीतोष्णत्यागी सुख-दुःखानभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमानः संयमासंयमरत्यरतिसहः सन् परुषता कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो 'नो वेत्ति' नतान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति / यदिवा-संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात् कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुनिराबाधसुखोन्मुखः 'नवेत्ति' न संयमतपसी पीडाकारित्वेन गृह्णातीति यावत्, किं च - 'जागर' इत्यादि असंयमनिद्रापगमाजागर्तीति जागरः, अभिमानसमुत्थोऽमविशः परापकाराध्यवसायोवैरंतस्मादुपरतो, वैरीपरतोजागरश्चासौ वैरोपरतश्चेति