________________ सीओसणिज्ज 884 - अभिधानराजेन्द्रः - भाग 7 सीओसणिज्ज न्धः शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानापगतो भवतीति यावत् / शरीरमनसोरनुकूलं सुखमिति, सद्विपरीतं दुःखं, तथा परीषहकसायवेदशोकान् शीतोष्णभूतान् सहत इति। तदेव शीतोष्णादिसहः सन् भवेत् श्रमणः-यतिः सदोद्युक्तश्च, ? तपः संयमोपशमे इति गाथार्थः / साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्तव्यमिति दर्शयतिसीयाणि य उण्हाणि य, भिक्खूणं हंति वि सवियव्वाई। कामा न सेवियव्वा, सीओसणिज्जस्स निजुत्ती // 211 // शीतानि-परीषहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि, उष्णानि च- परीषहतपउद्यमकषायशोकवेदारत्यात्मकानि, प्रागभिहितानि तानि भिक्षूणां-मुमुक्षूणां विषोढव्यानि, न सुखदुःखयोः उत्सेकविषादौ विधेयौ, तानि चैवं सम्यग्दृष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाह- 'कामा' इत्यादि गाथार्द्ध सुगमम् / गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषवातविकलं सूत्रमुच्चारयितव्यम्, तचेदम्सुत्ता अमुणी सया मुणिणो जागरंति / (सू० 105) अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्-इह दुःखी दुःखानामेवावर्त्तमनुपरिवर्तत इत्युक्तं, तदिहापि भावसुप्ता अज्ञानिनो दुःखिनो दुःखानामेवावर्त्तमनुपरिवर्तन्ते इति / उक्तं च- "नातः परमहं मन्ये, जगतो दुःखकारणम् / यथाऽज्ञान-महारोगो, दुरन्तः सर्वदेहिनाम् // 1 // " इत्यादि इह सुप्ता द्विधा-द्रव्यतो, भावतश्च / तत्र निद्राप्रमादवन्तो द्रव्यसुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्या'मोहिताः, तयो ये अमुनयः-मिथ्यादृष्टयः सततं भावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात्, निद्रया तु भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततम्-- अनवरतं जाग्रति-- हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यानद्रोपगता अपि क्वचिद् द्वितीयपौरुष्यादौ सततं जागरूका एवात। एवमेव भावस्वापं जागरणं च विषयीकृत्य नियुक्तिकारो गाथा जगादसुत्ता अमुणिओ सया, मुणिओ सुत्ता वि जागरा इंति। घम्मं पडुच एवं, निद्दासुत्तेण भइयव्वं // 212|| सुप्ता द्विधा-द्रव्यतो, भावतश्च / तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति, भावसुप्तास्त्वमुनयो- गृहस्था मिथ्यात्याज्ञानवृता हिंसाद्यास्रवद्वारेषु सदा प्रवृत्ताः मुनयस्त्वपगतमिथ्यात्वादिनिद्रतयाऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव / यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थ निद्रावशोपगता भवन्ति तथापि सदा जागरा एव, एवं च धर्म प्रतीत्योक्ताः सुप्ता जाग्दवस्थाश्च / द्रव्यानद्रासुप्तेन तु भाज्यमेतद्-धर्मः स्याद्वा न वा, यद्यसौ भावतो जागर्ति ततो निद्रासुप्तस्थापि धर्मः स्यादेव, यदिवाभावतो जायतो निद्राप्रमादावष्टब्धान्तः करणस्य न स्यादपि / यस्तु द्रव्यभावसुप्तस्तस्य न स्यादेवेति भजनार्थः। अथ किमिति द्रव्यसुप्तस्य / धर्मों न भवतीति ? उच्यते- द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता / किमिति ? यतः स्त्यानद्धित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धिकस्यापि न भवति, तद्वन्धश्च मिथ्यादृष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिवृत्तिबादरगुणस्थानकालसंख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव / बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः। यथा च द्रव्यसुप्तो दुःखमवाप्नोत्येवं भावसुप्तोऽपीतिदर्ययितुमाह जह सुत्त मत्त मुच्छिय, असहीणो पावए बहुं दुक्खं / तिव्वं अप्पडियार, पि वट्टमा णो तहा लोगो // 21 // सुप्तो निद्रया,मत्तो मदिरादिना, मूर्छितो गाढमर्मप्रहारादिना, अस्वाधीनः-परायत्तो वातादिदोषोद्भवग्रहादिना यथा बहु दुःखमप्रतीकारमवाप्नोति, यथा भावस्वापेमिथ्यात्वाविरतिप्रमादकषोयादिकेऽपि वर्तमानः-अवतिष्ठमानो लोकः-प्राणिगणो नरकभवादिकं दुःखमवाप्रोतीति गाथार्थः / पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाऽऽहएसेव य उवएसो, पदित्तपयला य पंथमाईसुं। अणुहवइ जह सचेओ, सुहाइँ समणोऽवि तह चेव // 214 // एष एव-पूर्वोक्त उपदेशो यो विवेकाविवेकजनितः, तथाहिसचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनुभवति, पथिविषये च सापायनिरपायविवेकज्ञः, आदिग्रहणादन्यस्मिन्वा दस्युभयादौ समुपस्थिते सति, यथा विवेकी सुखेनैव तमपायं परिहरन् सुखभाग भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्वाजाग्रदवस्थामनुभवन्समस्तकल्याणास्पदीभवति / अत्र च सुप्तासुप्ताधिकारगाथा:-- "जागरह णरा णिचं, जागरमाणस्स वड्डए बुद्धी। जो सुअइ न सो धण्णो , जो जग्गइ सो सया धन्नो / / 1 / / सुअइ सुअंतस्स सुअं, संकियखलियं भवे पमत्तस्स / जागरमाणस्स सुअं, थिरपरिचिअमप्पमत्तस्स / / 2 / / नालस्सेण समं सुक्खं, न विज्जा सह निदया। न वेरग्गं पमाएणं, नारंभेण दयालुया // 3 // जागरिआ धम्मीणं, अहम्मीणं तु सुत्तया सेआ। वच्छाहिवभगिणीए, अकहिंसु जिणो जयंतीए / / 4 / / सुयइ य अयगरभूओ, सुअंपि से नासई अमय भूअं। होहिइ गोणब्भूओ, नट्टम्मि सुए अमयभूए // 5 // " तदेवं दर्शनावरणीयकर्मविपाकोदयेन क्वचित्स्वपन्नपि यः संविनो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाजाग्रदवस्थ एवेति। ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखं दुःखं च जन्तूनामहितायेति दर्शयतिलोयंति जाण अहियाय दुक्खं, समयं लोगस्स जाणित्ता, इत्थ सत्थे विरए, जास्समे सहा य रूवा य रसा य