________________ सीओसणिज्ज 853 - अभिधानराजेन्द्रः - भाग 7 सीओसणिज परीसहतबुज्जमकसा-य सोगाहिवेयारई दुक्खं // 202 / / 'शीत' मिति भावशीतम्; तच्चेह जीवपरिणामस्वरूपं गृह्यते, स चायं / परिणामोमार्गाच्च्यवननिर्जरार्थं परिषोढव्याः परीषहाः, प्रमादः-कार्यशैथिल्यं शीतलविहारता, उपशमो मोहनीयोपशमः, सच सम्यक्त्वदेशविरतिसर्वविरतिलक्षण, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, 'विरति' रिति प्राणातिपातादिविरत्युपलक्षितः सप्तदशविथः संयम, सुखं चसातावेदनीयविपाकाविर्भूतमिति। एतत् सर्वं परीषहादि शीतमुष्णं च गाथाशकलेनाह-- परीषहाः- पूर्वव्यावर्णितस्वरूपाः तपस्युद्यमोयथाशक्ति द्वादशप्रकारतपोऽनुष्ठानं कषायाः- क्रोधादयः- शोकःइष्टाप्राप्तिविनाशोद्भवः आधिः वेदः- स्त्रीपुनपुंसकवेदोदयः अरति:मोहनीयविपाकाचित्तदौस्थंदुःखंच-असातावेदनीयोदयादीनि, एतानि परीषहादीति पीडाकारित्वादुष्णमिति गाथासमासार्थः / व्यासार्थ तु नियुक्तिकारः स्वत एवाचष्टे- तत्र परीषहाः शीतोष्णयोर्द्धयोरप्यभिहिताः, ततो मन्दबुध्रनध्यवसायः संशयो विपर्ययो वा स्याद् अतस्तदपनोदार्थमाहइत्थी सक्कारपरी-सहो य दो भावसीयला एए। सेसा वीसं उण्हा, परीसहा हुंति नायव्वा / / 203 / / स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्येतौ शीतौ, भावमनोऽनुकूलत्वात्, शेषास्तु पुनर्विशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः। यदिवा परीषहाणां शीतोष्णत्वमन्यथा आचष्ट - जे तिव्वप्परिणामा, परीसहा ते भवंति उण्हा उ। जे मंदप्परिणामा, परीसहा ते भदे सीया // 20 // .. | तीब्रो- दुःसहः परिणामः- परिणतिर्येषां ते तथा, य एवम्भूताः परीषहास्ते उष्णाः , ये तु मन्दपरिणामास्ते शीता इति / इदमुक्तं भवति- ये शरीरदुःखोत्पादकत्वेनोदीः सम्यक्सहनाभावाचाधिविधायिनस्ते तीव्रपरिणामत्वादुष्णाः, ये पुनरुदीर्णाः शरीरमेव केवलं दुःखमुत्पादयन्ति महासत्त्वस्य न मानसं ते भावतो मन्दपरिणामाः, यदिवा- ये तीव्रपरिणामाः- प्रबलाविभूतस्वरूपास्ते उष्णाः, ये तु मन्दपरिणामाः- ईषल्लक्ष्यमाणस्वरूपास्ते शीता इति / यत्परीषहानन्तरं प्रमादपदमुपन्यस्तं, शीतत्वेन यच तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टेधम्ममि जो पमायइ, अत्थे वा सीअलु ति तं विंति। उजुत्तं पुण अन्नं, तत्तो उहं ति णं बिति / / 20 / / धर्मे-श्रमणधर्मे यः प्रमाद्यति-नोद्यम विधत्ते 'अर्थे वा' अर्थ्यत / इत्यर्थो-धनधान्यहिरण्यादिस्तत्र तदुपाये वा शीतल इत्येवं तं ब्रुवते-- आचक्षते, उद्युक्तं पुनरन्ये ततः-- संयमोद्यमात् कारणादुष्णमित्येवं ब्रुवते, णमिति वाक्यालङ्कार इति गाथार्थः। उपशमपदव्याचिख्यासयाऽऽहसीईओ परिनि- व्वुओ य संतो तहेव पल्हाओ / होउवसंतकसाओ, तेणुवसन्तो भवे जीवो // 206|| उपशमो हि क्रोधोद्युदयाभावे भवति, ततश्च कषायाग्न्युपशमात् शीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात् परिनिर्वृतो भवति / चः समुचये / रागद्वेषपावकोपशमादुपशान्तः, तथा क्रोधादिपरितापोपशमात्, 'प्रह्लादितः' आपन्नसुखः, यतो ह्युपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति। एकार्थिकानि वैतानीति गाथार्थः। अधुना विरतिपदव्याख्यामाह -- अभयकरो जीवाणं, सीयघरो संजमो भवइ सीओ। अस्संजमो य उण्हो, एसो अन्नोऽवि पजाओ ||207|| अभयकरणशीलः, केषाम् ? जीवानां, शीतं-सुखं तद्गृहंतदावासः, कोऽसौ ? संयमः-सप्तदशभेदः, अतोऽसौ शीतो भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, एष शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो वा सुखदुःखरूपो विवक्षावशाद्भवतीति गाथार्थः। साम्प्रतं सुखपदविवरणायाह / / निव्वाणसुहं सायं, सीईभूयं पयं अणाबाहं / इहमवि जं किंचि सुहं, तं सीयं दुक्खमवि उण्हं // 208|| सुखं शीतमित्युक्तं, तच समस्तद्वन्द्वोपरमादात्यन्ति-कैकान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्तिसुखमेव सुखं नो परम् , एतच्च समस्तकर्मोपतापाभावाच्छीतमिति दर्शयति-'निर्वाणसुख' मिति, निर्वाणम्-अशेषकर्मक्षयस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः तेन तत्र वा सुखं निर्वाणसुखम् / अस्य चैकार्थिकानिसातं शीतिर्भूतं पदमनाबाधमिति / इहापि संसारे यत्किञ्चित् सातावेदनीयविपाकोद्भूतं सात-सुखं तदपि शीतं मनआह्वादाद, एतद्विपर्ययस्तु दुःखं, तचोष्णमिति गाथार्थः कषायादिपदव्याचिख्यासयाऽऽह - डज्झइ तिव्वकसाओ, सोगभिभूओ उइन्नवेओ य / उण्हयरो होइ तवो, कसायमाईवि जं डहइ // 20 // दह्यते-परिपच्यते, कोऽसौ ? तीव्रा-उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, 'शोकाऽभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुभव्यापारोऽसावपि दह्यते, तथा उदीर्णो विपाकापन्नो वेदो यस्य स तथा उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तत्प्राप्त्यभावे कासोद्भूतारतिँदाहेन दह्यते / चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः, सर्व वा मोहनीयमष्टप्रकारं वा कर्मोष्णम्, ततोऽपि तद्दाहकत्वादुष्णतरं तप इति गाथाशकलेन दर्शयति- उष्णतरं तपो भवति, किमिति ? यतः कषायादिकमपि दहति, आदिशब्दांच्छोकादिपरिग्रह इति गाथार्थः / येनाभिप्रायेण द्रव्यभावभेदभिन्ने परीषहप्रमादोद्यमादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोति-- सीउण्हफाससुहदुह-परीसहकसायवेयसोय संहो। हुन्ज समणो सया उ-जुओ य तवसंजमोवसमे // 210 / / शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्ब