________________ सीओदा 852 - अभिधानराजेन्द्रः - भाग 7 सीओसणिज्ज म्भया 'वइरतले कुण्डे' त्ति-निषधपर्वतस्याधोवर्तिनि वज्रभूमिके अशीत्यधिकचतुर्योजनशतायामविष्कम्भे दशयोजनावगाहे सीतोदा-- देवीभवनाध्यासितमस्तकेन तद्द्वीपेनालंकृतमध्यभागे सीतोदाप्रपातहदे 'महय' त्ति महाप्रमाणेन यत्पुनः 'दुहओ' त्ति-क्वचित् दृश्यते तदपपाठ इति मन्यते 'धडमुहपवत्तिएणं' त्ति-घटमुखेनेवकलशवदनेनेव | प्रवर्तितः- प्रेरितो घटमुख-प्रवर्तितस्तेन मुक्तावलीनांमुक्ताफलशरीराण्णां सम्बन्धी हारस्तस्य यत्संस्थानं तेन संस्थितो यस्तेन प्रपातः- पर्वतात्प्रपतलसमूहस्तेन महाशब्देनमहाध्वनिना प्रपतति, एवं सीताऽपि / स०७४ सम०। ___अथास्माद्या उत्तरेण नदी प्रवहति तामाह - तस्स णं तिगिछिद्दहस्स उत्तरिल्लेणं तोरणेणं सीओआ महाणई पव्वूढा समाणी सत्त जोअणसहस्साइं चत्तारि अ एगवीसे जोअणसए एगं च एगणवीसइभागं जोअणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं० जाव साइरेगचउजोअणसइएणं पवाएणं पवडइ। सीओआ णं महाणई जओ पवडइ एत्थं णं महंएगा जिन्मिआ पण्णत्ता चत्तारि जोअणाई आयामेणं पण्णासं जोअणाइं विक्खम्भेणं जोअणं बाहल्लेणं मगरमुहविउहसंठाणसंठिआ सव्ववइरामई अच्छा। (सू०१५) 'तस्स णं तिर्गिछिद्दह' इत्यादि, व्यक्तं, गिरिगन्तव्यं तु हरिन्नद्या इवावसेयम्, अथास्या जिबिकास्वरूपमाह-' 'सीओआ' इत्यादि, उत्तानार्थ , नवरमायामेन चत्वारि योजनानि, हरिन्नदीजिह्निकाद्विगुणत्वात्, पञ्चाशयोजनानि विष्कम्भेनहरिन्नदीप्रवहतो द्विगुणस्य सीतोदाप्रवहस्य मातव्यत्वात्, एवं बाहल्यमपि पूर्वजिह्निकातो द्विगुणमवसेयम्। जं०४ वक्ष०। सीओभास-त्रि० (शीतावभास) ईषच्छीतलाभे, रा०। "सएसीओभास' त्ति-शीतस्पर्शापेक्षया कुल्याद्याक्रान्तत्वादिति वृद्धाः। ज्ञा०१ श्रु० 1 अ०। सीओयष्पवायदह-पुं० (शीतोदाप्रपातहृद) शीतोदानद्याः प्रपातस्थाने, यत्र निषधाच्छीतोदा निपतति स शीतोदाप्रपातहृदः / शीतोदाप्रपातहृदसमानः सीतादेवीद्वीपभवनसमानः शीतोदादेवीद्वीपभवनश्चेति / स्था०.१ ठा०। सीओयाकूड न० (शीतोदाकूट) शीतोदानदीदेवनिवासभूते निषधवर्ष धरपर्वतस्य कूटे, स्था०६ ठा०३ उ०। सीओसणिज-न० (शीतोष्णीय) शीतं चोष्णं च शीतोष्णे ते अधिकृत्य कृतमध्ययनं शीतोष्णीयम् / शीतोष्णस्पर्शजनितवेदनाप्रतिपादके आचाराङ्गप्रथमश्रुतस्कन्धस्यतृतीये अध्ययने, स०ा स्था०। आचा० / शीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनं कर्त्तव्यं, तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाव्रतसम्पन्नस्य लोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रतिलोमाः परीषहाः प्रादुष्यन्ति, तेऽविकृ- तान्तः करणेन सम्यक्सोढव्या इत्यनेन सम्बन्धेनायातिमिदमध्ययनम, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति। तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः / उद्देशार्थाथिकारप्रतिपादनार्थं तु नियुक्तिकार आहपढमे सुत्ता अस्सं जयत्ति ? बिइए दुह अणुहवंति / / तइए न हु दुक्खेणं, अकरणयाए व समणुत्ति 3 / 168|| उडेसम्मि चउत्थे, अहिगारो उ वमणं कसायालं / पावविरओ विउओ, उ संजमो इत्थ मुक्खु त्ति 4199l प्रथमोद्देशकेऽयमर्थधिकारो, यथा-भावनिद्रया सुप्ताः- सम्यग्विवेकरहिताः, के ? असंयताः- गृहस्थास्तेषां च भावसुप्तानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा 'जरामच्चुवसीवणीए नरे' इत्यादि 1, द्वितीये तुतएवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते / तद्यथा- 'कोमैसु गिद्धा निचयं करंति' 2, तृतीये तु 'न हु' नैव दुःखसहनादेव केवलाच्छ्रमणः अकरणतयैव- अक्रिययैव् संयमानुष्ठानमन्तरेणेत्यर्थः वक्ष्यति च- 'सहिए दुक्खमाया य तेणेव य पुट्ठो नो झंझाए' 3, चतुर्थोद्देशके त्वयमधिकारो, यथा- कषायाणां वमनं कार्य, पापस्य च कर्मणो विरतिः, विदुषो- विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते क्षपकश्रेणिप्रकमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः / नामनिष्पन्ने तु निक्षेपे शीतोष्णीयमध्यनमतः शीतोष्णयोर्निक्षेप निर्दिदिक्षुराहनाम ठवणा सीयं, दव्वे भावे य होइ नायव्वं / एमेव य उण्हस्स वि, चउदिवहो होइ निक्खेवो // 200 / / सुगमा। तत्र नामस्थापने अनादृत्य द्रव्यशीतोष्णे दर्शयितुमाह-- दवे सीयलदव्वं, दवुण्डं चेव उण्हदव्वं तु / भावे उ पुग्गलगुणो, जीवस्स गुणो अणेगविहो // 201 / / ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्रव्यं द्रव्यप्राधान्या-च्छीतलद्रव्यमेवं द्रव्यशीतंहिमतुषारकरकादि,एवं द्रव्योष्णमपीति। भावतस्तु द्वेधा-पुद्गलाश्रितं, जीवाश्रितं च, गाथाशकलेनाचष्टे- तत्र पुद्गलाश्रितं भावशीत पुद्गलस्य शीतो गुणो गुणस्य प्राधान्यविवक्षयेति, एवं भावोष्णमपि / जीवस्तु तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा- औदयिकादयः षड् भावाः, तत्रौदयिकः कर्मोदयाविभूतनारकादिभवकषायोत्पतिलक्षणः उष्णः, औपशमिकः कर्मोपशमावाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपि शीत एव क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद, अथवाऽशेषकर्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अप्रीति / अस्य च जीवभावगुणस्य शीतोष्णविवेकं स्वत एव नियुक्तिकारः प्रचिकटयिषुराहसीयं परीसहपमा-युवसमविरई सुहं च उण्हं तु /