________________ सिवभूइ 878 - अभिधानराजेन्द्रः - भाग 7 सिवभूइ तेणाचेला मुणओ, संतेहि जिणा असंतेहिं / / 2568|| सचासच सदसती चेले यस्यासौ सदसच्चेलो यद्य स्माल्लोके समये चाचेलकः संसिद्धः प्रसिद्धः / चशब्दः प्रस्तावनायाम् / सा च कृतैव / तेन तस्मादिह मुनयः सामास्यसाधवः सद्भिरेव चेलैरुपचारतोऽचेला भण्यन्ते, जिनास्तु तीर्थकरा असद्भिश्चेलैर्मुख्यवृत्त्याऽचेला व्यपदिश्यन्ते / इदमुक्तं भवति-इहाचेलत्वं द्विविधम्-मुख्यम्, उपचरितं च / तत्रेदानी मुख्यमचेलत्वं संयमोपकारि न भवति, अत औपचारिक गृह्यते, मुख्यं तु जिनानामेवासीदिति / इदमेवौपचारिकमचेलत्वं भावयतिपरिसुद्ध जुण्ण कुच्छिय, थोवाऽनिययऽनभोगभोगेहिं / मुणओ मुच्छारहिया, संतेहिं अचेलया हॉति // 25 // मुनयः- साधवो मूछारहिताः सद्भिरपि चेलैरुपचारतोऽचेलका भवन्ति / कथंभूतैश्चेलैः? इत्याह-'परिसुद्ध' त्ति-लुप्तविभक्तिदर्शनात् परिशुद्धैरेषणीयैः, तथा जीर्णैर्बहुदिवसैः, कुत्सितैरसारैः, स्तोकैर्गणनाप्रमाणतो हीनैस्तुच्छा , 'अनिययऽन्नभोगभोगेहिं ति- अनियतभोगेन कादाचित्कासेवनेन भोगः परिभोगः परिभोगी येषां तानि तथा तैः / एवंभूश्वेलैः सद्भिरप्युपचारतोऽचेलका मुनयो भण्यन्ते। तथा, 'अन्न-भोगभोगेहिं ति-एवमपि योज्यते / ततश्च लोकरूढप्रकारान्यप्रकारेण भोगः-आसेवनम्, प्रकारलक्षणस्यः मध्यपदस्य लोपात्, अन्यभोगस्तेनान्यभोगेन भोगः- परिभोगो येषां तानि तथा तैरप्येवंभूतैश्चेलैरचेलकत्वं लोके प्रसिद्धमेव, यथा कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्य। साधोरपि कच्छाबन्धाभावात्, कूर्पराभ्यामग्रभाग एव चोलपट्टकस्य धरणात्, मस्तकस्योपरि प्रावरणाद्यभावाच लोकरूढप्रकारादन्यप्रकारेण चेलभोगो द्रष्टव्यः / तदेवं 'परिसुद्ध-जुण्णकुच्छिय' -- इत्यादिविशेषणविशिष्टैः सद्भिरपि चेलैस्तथाविधवस्त्रकार्याकरणात् तेषु मूर्छाऽभावाच मुनयोऽचेलका व्यपदिश्यन्ते इतीह तात्पर्यम्। आह-ननु चेलस्यान्यथा परिभोगेण किमचेलकत्वव्यपदेशः वापि दृष्टः ? इत्याशङ्कय तदुपदर्शनार्थमाहजह जलमवगाहंतो, बहुचेलो वि सिरवेट्ठियकडिल्लो। भण्णइ नरो अचेलो, तह मुणओ संतचेला वि // 2600 / / गतार्था। जीर्णादिभिरपि वस्त्रैरचेलकत्वं लोकरूढमेवेति भावयति // तह थोवजुम्नकुच्छिय-चेलेहि वि मन्नए अचेलो त्ति / जहत्तर सालिय ! लहुं, दो पोत्तिं नग्गिथामो ति॥२६०१।। इयमपि सुगमा, नवरं, 'जहत्तरेत्यादि' दृष्टान्तः, यथेह काऽपि योषित् कटीवेष्टितजीर्णबहुच्छिद्रैकशाटिका कञ्चित् कोलिकं वदति'त्वरस्व भोः शालिक ! शीघ्रो भूत्वा मदीयपोत्ती शाटिका विर्वाप्य ददस्व समर्पय, ननिका वर्तेऽहम् / तदिह सवस्त्रायामपि योषिति नागन्यवाचकशब्दप्रवृत्तेः "जस्सट्ठा कीरइ नग्गभावो मुंडभावो अण्हायं अदत्तवणय" इत्याद्यपि न विरुध्यत इति / अथ यदुक्तम्- 'जं च तिहिं ठाणेहिं वत्थं धरेज' इत्यादि तत्र प्रतिविधानमाह विहियं सुए चिय जओ, घरेज तिहि कारणेहिं वत्थंति / तेणं चिय तदवस्सं, निरतिसएणं धरेयव्वं // 2602 / / जिणकप्पाजोग्गाणं, हीकुच्छपरीसहा जओऽवस्सं। ही लज ति व सो सं-जमो तदत्थं विसेसेणं // 2603|| ननु त्रिभिः कारणैर्वस्त्रं धरणीयम्- इत्यागमोक्तं दर्शयता भवताऽस्मत्पक्ष एव समर्थितो भवति, परं शून्यहृदयत्वाद् भवान् न लक्षयति, तथाहि- इदानीं वयमपि वक्तुं शक्नुमः- "त्रिभिः कारणैर्वस्त्र धरेत्' इति सूत्रेऽपि विहितं प्रतिपादितं यतो यस्मात्, तेनैव प्रकारेण तद् वस्त्रं निरतिशयेन तथाविधधृतिसंह-ननादिरहितेन साधुनाऽवश्यं धरणीयमिति / कु तः ? इत्याह यतो- यस्माद् निरतिशयत्वेन जिनकल्पायोग्यानां साधूनां हीकृत्सापरीषहलक्षणं वस्त्रधरणकारणं पूर्वाभिहित-स्वरूपमवश्यमव संभवति / ततो धरणीयमेवः वस्त्रम्। यदिवा-कुत्सापरीषहार्थं तद् न ध्रियते तथापि हिर्लज्जा, स संयमस्तदर्थं तावद् विशेषेणैव वस्त्रं धरणीयम्, अन्यथाऽग्निज्वलनादिना बृहद्संयमापत्तेरिति। अथोपसंहारपूर्वकं संक्षिप्योपदेशमाह - जइ जिणमयं पमाणं, तुह तो मा मुयसु वत्थ-पत्ताई। पुवुत्तदोसजालं, लम्भिसि मा समिइयायं च // 2604|| अणुवालेउमसत्तो, ऽपत्तो न समत्तमेसणासमियं / वत्थरहिओ न समिओ, निक्खेवादाणवोसग्गा // 2605 / / यदि जिनमतं तव प्रमाणम्, ततो वस्त्र-पात्रादि मा मुञ्च मा त्याक्षीः / कुतः ? इत्याह-- 'तेणगहणानलसेवा- 'इत्यादि- ना पूर्वमुक्तं दोषजालं मा लब्धाः / तथा, समितिघातं च तत्परित्यागे माऽऽप्नुहि त्वमिति / कस्याः पुनः समितेः पात्राद्यभावे विघातः ? इत्याह'अणुवालेउमित्यादि' अशक्तोऽसमर्थो भवेत् / किं कर्तुम् ? समस्तां परिपूर्णामेषणासमितिमनुपालयि-तुम् / कथंभूतः ? अपात्रः पात्रविरहितः / पुनर्निक्षेपादानसमित्या व्युत्सर्गसमित्या च समितो न भवेत. उपलक्षणत्वाद् भाषासमित्याऽपि समितो न भवेत्, वस्त्राद्यभावे रजोहरणमुखवस्त्रिकाद्याभावात्, तदभावे च यथोक्तसमितित्रयासिद्धेरिति / एवं प्रज्ञापितोऽसौ किं कृतवान् ? इत्याह - इय पण्णविओ वि बहुं, सो मिच्छत्तोदयाकुलियभावो। जिणमयमसद्दहतो, छड्डियवत्थो समुजाओ // 2606|| तस्स भगिणी समुज्झिय-वत्था तह चेव तदणुरागेणं / संपत्थिया नियत्था, तो गणियाए पुणो मुयइ // 2607 / / तीए पुणो वि बद्धो-रसेगवत्था पुणो विछडिंति / अच्छउ ते तेणं चिय, समणुण्णाया घरेसी य // 2608 / / कोडिनकोट्टवीरे, पजावेसी य दोण्णि सो सीसे / तत्तो परंपराफा-सओऽक्सेसा समुप्पन्ना / / 2606 / / एताश्चतस्राऽपि गतार्थाः, नवरं 'समुजाउ ति' त्यक्तवस्त्र उपाश्रयात् समुद्यातो निर्गतः / 'नियत्थ त्ति' ततो गणिक या निवसिता वस्त्र परिधापितेत्यर्थः / 'तीए