________________ सिवभूइ 876 - अभिघानराजेन्द्रः - भाग 7 सिवभूइ तस्मात् किं नाम तद् वस्त्वस्ति लोके यदात्मस्वरूपेण सर्वथा ग्रन्थोऽग्रन्थो वा ? नास्त्येवैतदित्यर्थः / ततश्च "मुच्छा परिगहो वुत्तो, इइ वुत्तं महेसिणा।" इत्यादिवचनाद् यत्र वसु-देहाऽऽहार-कनकादौ मूच्र्छा संपद्यते तत् निश्चयतः परमार्थतो ग्रन्थः / यत्र तु सा नोपजायते तदग्रन्थ इति / एतदेव व्यक्तीकरोति- 'वत्थाई तेणेत्यादि, तेन तस्मात् / शेषं सुगममिति / (विशे०) (वस्वादिग्रहणाग्रहणविषयता 'कप्प' शब्दे तृतीयभागे 231 पृष्ठेऽयुक्ता।) "कप्पा आयपमाणा, अट्ठाइज्झाइवित्थडा हत्था / दो चव सोत्तिया उ-निओ य तइओ मुणेयव्वो // 1 // तणगहणाणलसेवा-निवारणाधम्ममुक्कझाणट्ठा / दिट्ट कप्पग्गहणं, गिलाणमरणट्टया चेव // 2 // संपायमरयरेणु-प्पमजणट्ठा वयंति मुहपत्तिं / नासं मुहं च बंधइ, तीए वसहिं पमज्जंता !|3|| आयाणे निक्खेवे, ठाणे निसीएँ सुयपट्टसंकोए। पुव्वं पमञ्जणाहा, लिंगट्ठा चेव रयहरणं // 4 // वेउव्वेऽवायडे वा-इए हि खड्डे पजणणे चेव / तेसिं अणुग्गहठ्ठा, लिंगुदयट्ठा य पट्टोमओं // 5 // " तत्र प्रजनने-मेहने 'वेउवि' त्ति-वैक्रिये विकृते, तथा, अप्रावृते - अनावृते, वातिके चोत्सूनत्वभाजने, ह्रिया-लज्जया सत्या खड्ड बृहत्प्रमाणे 'लिंगुदयट्ठ' त्ति-स्त्रीदर्शने लिङ्गोदयरक्षणार्थं च पटश्चोलपट्टो मत इति / अथ पात्रस्य मात्रकस्य च संयमोपकारित्वं दर्शयन्नाह'ससते' त्यादि / संसक्तसक्तुगोरसद्राक्षादिपानक-पानीयगतसत्त्वप्राणरक्षणार्थ पात्रमिति / संबन्धः / पात्राभावे हि संसक्तगोरसादयो हस्त एवानाभोगादिकारणाद् गृहीताः क्व क्रियेरन् ? तद्गतसत्त्वानां प्राणविपत्तिरेव स्यात् पात्रे तु सति समयोक्तविधिना ते परिस्थाप्यन्ते। तथा च सति तद्गतसत्त्वप्राणरक्षा पात्रेण सिध्यतीति / तथा पात्राभावे पाणिपुट एव गृहीतानां घृतगोरसादिरसानां परिगलने सति यत् कुन्थुकीटकादिप्राणघातनम्; ये च भाजन-धावनादिभिः पश्चात्कर्मादयो दोषास्तेषां परिहारार्थं च पात्रमिष्यते जगद्गुरु-भिः / तथा, ग्लानबाल-दुर्बल-वृद्धाधुपग्रहार्थ च तदिष्यते / पात्रे हि सति गृहस्थेभ्यः पथ्यादिकं समानीय ग्लानबालादीनामुपग्रह उपष्टम्भः क्रियते, तदभावे पुनरसौ न स्यादेवेति। अपरञ्चपात्रे सति भक्तपानादिकं समानीयान्यस्य प्रयच्छतां साधूनां दानमयधर्मस्य साधनंसिद्धिर्भवति; पात्राभावे चैतद् न स्यात् / तदसत्त्वे कस्यापि केनचिद् भक्तपानादिदानासंभवात् / 'समया चेवं परुप्परउ' त्ति-एवं च पात्रे परिग्रहे सति लब्धिमतामलब्धिमतां च, शक्तानामशक्तानां च वास्तव्यानां प्राघूर्णकानां च सर्वेषामपि साधूनां परस्परं समता- स्वास्थ्यं तुल्यता भवति। पात्रे हि सति लब्धिमान् भक्तपानादिकं समानीयलब्धिमते ददाति / एवं शक्तोऽशक्ताय, वास्तव्यः प्राघूर्णकाय तत् प्रयच्छति / इति सर्वेषां सौस्थ्यम्, पात्राभावे तु नैतत् स्यादिति / इह च पात्रग्रहणस्य गुणकथनेन मात्रकस्यापि तत्कथनं कृतमेव द्रष्टव्यम्, प्रायः समानगुणत्वात्ः उक्तं च // "छक्कायरक्खणट्ठा, पायग्गहणं जिणेहिं पन्नत्तं / जे य गुणा संभोए, हवंति ते पायगहणे वि // 11 // अतरंतबालबुड्डा-सेहाएसा गुरू अ सहुवग्गा। साहारणुग्गहाऽल-द्धिकारणा पायगहणं तु / / 2 / / आयरिए य गिलाणे, पाहुणए दुल्लहे सहसदाणे / संसत्तभत्तपाणे, मत्तगपरिभोगणुण्णा उ // 3 // '' इति / यदुक्तम् 'सुए भणियमपरिग्गह तं' इति, तत्राहअपरिग्गहया सुत्ते, त्ति जा य मुच्छा परिग्गहोऽभिमओ। सव्वद्दव्वेसुन सा, कायव्वा सुत्तसब्माओ // 2580|| या च 'सव्वाओ परिणहाओ वेरमणं' - इत्यादिनाऽपरिग्रहता सूत्रे प्रोक्तेति त्वया गीयते, तत्रापि मूच्छेव परिग्रहस्तीर्थकृतामभिमतो नान्यः, सा च मूच्छा यथा वस्ने तथा सर्वेष्वपि शरीराऽऽहारादिषु द्रव्येषु न कर्तव्येति सूत्र-सद्भावः- सूत्रपरमार्थः, न पुनस्त्वदभिमतः सर्वथा वस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिप्रायः। तस्मादपरिज्ञातसूत्रभावार्थो मिथ्यैव खिद्यसे त्वमिति हृदयम् / विशे० (तीर्थंकरा वस्त्रापात्ररहिता अपि संयमविराधनादिदोषान् न प्राप्नुवन्तीति 'तित्थयर' शब्दे चतुर्थभागे 2247 पृष्ठे गतम्।) जिनकल्पिकादयस्तु सदैव सचेलका इति दर्शयन्नाहजिणकप्पियादओ पुण, सोवहओ सव्वकालमेगंतो। उवगरणमाणमेसिं, पुरिसाविक्खाए बहुभेयं // 2554|| अयमत्राभिप्रायः-तीर्थकरदृष्टान्तावष्टम्भेन, जिनकल्पि-कोदाहरणावष्टम्मेन च त्वमचेलकत्वं प्रतिपद्यसे ! एतच्च सर्व भवतो दुर्योधविलसितमेव, यतस्तीर्थकरा अपि पूर्वोक्तन्यायेन न तावदेकान्ततोऽचेलकाः / जिनकल्पिकस्वयंबुद्धादयः पुनः सर्वकालमेकान्तेन सोपधय एवेति / अत एव दुग तिग च उक्क पणगं' इत्यादिना पूर्वमतेषामुपकरणमानं पुरुषापेक्षया बहुभेदमुक्तम्, न पुनः सर्वथा निरुपकरणता / तदयं यस्त्वया सर्वथोपकरणत्यागः कृतः स दृष्टान्तीकृतानां तीर्थकरजिनकल्पिकादीनामपि न दृश्यते, केवलं नूतनः कोऽपि त्वदीय एवायं मार्ग इति / अथ प्रकारान्तरेण परमतमाशङ्कय परिहरन्नाह - अरहंता जमचेला, तेणाचेलत्तणं जइ मयं ते / तो तव्वयणाउ चिय, निरतिसओ होहि माऽचेलो।।२५८५|| यद् यस्मादर्हन्तोऽचेलाः- चेलरहिता नाग्न्यधारिणस्तेन तस्मात् कारणादचेलत्वंनग्नत्वं यदि तव मतं-संमतम्, "जारिसयं गुरुलिंग, सीसेण वि तारिसेण होयव्वं न हि होइ बुद्धसीसो, सेयवडो नग्गखवणे वा॥१॥" इति वचनादिति। ततस्तर्हितद्वचनादेव-तीर्थकरोपदेशादेव निरुपमधृति- संहननाधतिशयरहितोऽचेलो- ननो मा भूस्त्वम् / इदमुक्तं भवति-यदि तीर्थकरशिष्यत्वात् तद्वेषस्तव प्रमाणम् तर्हि तत एव हेतोस्तदुपदेशोऽपि भवतः प्रमाणमेव / न हि गुरूपदेशमतिक्रम्य प्रवर्तमानः शिष्योऽभीष्टार्थसाधको भवति परमगुरूपदेशश्चैवं वर्ततेनिरुपमधृतिसंहननाधतिशयरहितेनाचेलकेन नैव भवितव्यम्। तत् किं त्वमित्थं गुरूपदेशबाह्येन नाग्न्येनात्मानं विगोपयसीति। अथ यथा गुरोरुपदेशः कर्तव्यस्तथा तद्वेष-चरिते अप्यवश्यमाचरणीये / तदयुक्तम्, तदुपदेशानुष्ठानस्यैव कार्य