________________ सिवभूइ 875 - अभिधानराजेन्द्रः - भाग 7 सिवभूइ श्चितं शरीरेऽपि विशेषतो मूर्छा करिष्यसि / कुतो-विशेषेण तत्र तत्करणमित्याह- 'अक्केज दुल्लभयरे' त्ति-विभक्तिव्यत्ययात् शरीरस्याक्रय्यत्वात्- क्रयेणालभ्यत्वात् / न हि वस्त्रादिवत् शरीर क्रयेण वापि लभ्यते / अत्र एव वस्त्राद्यपेक्षया दुर्लभतरत्वात्, तथा, तदपेक्षयैवान्तरङ्गत्वात्, बहुतरदिनावस्थायित्वात्, विशिष्टतरकार्यसाधकत्वातच विशेषेण शरीरे मूच्छौं करिष्य-सीति / अथ देहादिमात्रे या मूर्छा सा स्वल्पैव, वस्त्रादिग्रन्थमूर्छ तु बही, ततो देहादिमात्रमूच्छसिंभवेऽपि नग्रश्रमणकाः सेत्स्यन्ति,न भवन्तः, बहुपरिग्रहत्वादित्याह- "वत्थाइ' इत्यादि, गाथा-त्रयम् / अयमिह संक्षेपार्थःतिर्यक्-शबरादयोऽल्पपरिग्रहा अपि, तथा शेषमनुष्या अपि महादारिव्योपहताः क्लिष्टमनसोऽविद्यमानतथाविधपरिग्रहा अप्यविनिगृहीतात्मानो लोभादिकषायवर्गवशीकृताः परसत्केष्वपि विभवेषु मूर्छाककषायादिदोषैः कर्ममलमनन्तमर्जयन्ति, तद् बहुशो निरयोपगा भवन्ति, न मोक्षप्रापकाः / अन्ये तु महामुनयः केनचिदुपसर्गादिबुद्ध्या शरीरासञ्जितमहामूल्यवस्त्राऽऽभरणमाल्यविलेपनादिसंयुक्ता अपि सर्वसङ्ग विनिर्मुक्ता निगृहीतात्मानो जितलोभादिकषायरिपवः समासादितविमलकेवलालोकाः सिद्धिमुपगच्छन्ति / तस्मादवश्यात्मनां क्लिष्टमनसां ना ग्न्यमात्रमिदमकिञ्चित्करमेवेति / अथ यदुक्तम्- 'भयहेतुत्वेन वस्त्रादयस्त्याज्याः ' इति / तत्र प्रतिविधानमाहजइ भयहेऊ गंथो, तो नाणाईण तदुवघाईहिं / भयमिह ताई गंथो, देहस्स य सावयाईहिं // 2568|| अह मोक्खसाहणमई-एँ न भयहेऊ वि ताणि ते गंथो। वत्थाइ मोक्खसाहण- मईऍ सुद्धं कहं गंथो ?||2566 / / यदि यद् भयहेतुस्तद्ग्रन्थः, तर्हि ज्ञान-दर्शन--चारित्राणामपि तदुपघातकेभ्यः, देहस्स च श्वापदादिभ्यो भयमस्ति, इति ताष्यपि ग्रन्थः प्राप्नुवन्ति / शेष व्याख्यातप्रायम् / अथ यदुक्तम्-'परिगहओ कसाय--मुच्छा-भयाईय' त्ति तत्रादिशब्दसंगृहीतं वस्त्रादीनां रौद्रध्यानहेतुत्वमभ्युपदर्श्य परिहरनाह-- सारक्खणाणुबंधो, रोहज्झाणं ति ते मई हुला। तुल्लमियं देहाइसु, पसत्थमिह तं तहेहावि / / 2570 / / जे जत्तिया पगारा, लोए भयहेअवो अविरयाणं / ते चेव य विरयाणं, पसत्थमावाण मोक्खा य / / 2571 / / इहागमे रौद्रध्यानं चतुर्विधमुक्तम्, तद्यथा- "से किं तं रोद्दज्झाणं ? रोद्दज्झाणे चउव्विहे पन्नते; तं तहा- हिंसाणुबंधी, मोसाणुबंधी, तेयाणुबंधी सारक्खणाणुबंधी' / तत्र हिंसायाः सत्त्ववधादिरूपाया अनुबन्धः सातत्येन चिन्तनं यत्र तद् हिंसानुबन्धि / मृषा- असत्य तस्यानुबन्धो यत्र तत् तथा / स्तेयं- चौर्यं तस्यानुबन्धो यत्र तत् तथा / संरक्षणं-सर्वरिणाद्युपायैस्तस्करादिभ्यो निजवित्तस्य संगोपनं तस्यानुबन्धः सातत्येन चिन्तनं यत्र रौद्रध्याने तत् तथा / एवं च सति संरक्षणानुबन्धो रौद्रध्यानस्य चतुर्थो भेदः / स च वस्त्रादौ गृहीत किलावश्यंभावी, रौद्रध्यानभेदत्वाच रौद्रध्यानमिति / एवं रौद्रध्यानहेतुत्वाद् वस्त्रादिकं दुर्गतिहेतुः शस्त्रादिवत्, ततो न ग्राहमिति तव बुद्धिर्भवत; तर्हि यदुक्तयुक्त्या रौद्रध्यानंतदिदं देवानांप्रिय ! देहादिष्वपि तुल्यम्, तेष्वपि जल-ज्वलन-मलिम्लुच-श्वापदाऽहि-विष-कण्टकादिभ्यः संरक्षणानुबन्धस्य तुल्यत्वात् / अतस्तेऽपि परित्याज्याः प्राप्नुवन्ति / अथेह देहादेर्मोक्षसाधनाङ्गत्वाद् यतनया तत्संरक्षणानुबन्धविधानं प्रशस्तं न दोषाय / यद्येवम्, तर्हि तथा तेनागमप्रसिद्धन यतनाप्रकारेणेहापि वस्त्रादौ संरक्षणानुबन्धविधानं कथं न प्रशस्तम् ? ततः कथं वस्त्रादयोऽपि परित्याज्याः ? इति / अथैवं ब्रूषे-वस्त्रादिपरिग्रह एव मूर्छादिदोषहेतुत्वाल्लोकस्य भवभ्रमणकारणम्' इत्येतदपि प्रतीतं वस्त्रादिपरिग्रहवतः साधोरपि कथं न स्यात् ? इत्याह- 'जे जत्तियेत्यादि'ाइह ये यावन्त शयन-पान-भोजन-मना-ऽवस्थानमनो-वाक्-कायचेष्टादयः प्रकारा अविर-तानामसंयतानामप्रशस्ताध्यवसायवतां लोके भयहेतवो जायन्ते, त एव तावन्तः प्रकारा विरतानां संयतानां प्रशस्ताध्यवसायानां मोक्षायैव संपद्यन्ते। तस्माद् वस्त्रादिस्वीकारेऽपि नेतरजनवत् साधूनां मूलोच्छेदितलोभादिकषायभय- मोहनीयादिदोषाणां तदुद्भावितदोषः कोऽप्यनुषज्यत इति / अपि च, यदि वस्त्रादिकं ग्रन्थः, मूच्र्छादिहेतुत्वात्, कनकादिवदिति, हेतु-दृष्टान्तोपन्यासमात्रेणैव वस्त्रादेर्ग्रन्थत्वं साधयति भवान्, तर्हि वयमपि तदुपन्यासमात्रेण कनकादेरप्यग्रन्थत्वं साधयामः / कथम् ? इत्याह आहारो व्व न गंथो, देहत्थं (व) विसघायणट्ठाए। कणगं पि तहा जुवई, धम्मंतेवासिणी मे त्ति / / 2572 / / कनकं तथा युवतिश्च धर्मान्तेवासिनी मे ममेति बुद्ध्या परिगृह्णतो न ग्रन्थ इति सम्बन्धः, एषा किल प्रतिज्ञा / कुतः ? इत्याह -- देहार्थमिति कृत्वा, अयं च हेतुः, देहार्थत्वात्- देहप्रयोजनत्वात् - देहोपकारित्वादित्यर्थः / ननु युवतेदेहोपकारित्वं किल प्रतीतम्, कनकस्य तु तत् कथम् ? इत्याह - 'विसघायणट्ठाए त्ति' विषघातकत्वादित्यर्थः: उक्तं च "विसघाय-रसायण मंगलच्छवि-णयापयाहिणावत्ते / गुरुए अ ढज्झकुटे, अट्ठ सुवण्णे गुणा होति // 1 // " आहारवदिति दृष्टान्तः। कनक-युवत्यादयोऽपि न ग्रन्थः, देहार्थत्वात्, आहारवदिति तात्पर्यम् / अत्राह-ननु यद्येवम्, तर्हि समुच्छिन्ना ग्रन्थाऽग्रन्थविभागकथा, ग्रन्थत्वेन प्रसिद्धस्य कनकादेस्त्वयाऽग्रन्थत्वसाधनात्, अग्रन्थत्वेन च ममाभिमतस्य देहस्य 'ग्रन्थो देहः, कषायादिहेतुत्वात्, कनकादिवत्' इत्येवं ग्रन्थत्वस्य साधनात्। ततो भवन्त एव कथयन्तु- को ग्रन्थः कश्चाग्रन्थ इति ? तदित्थमुपन्यस्य परस्य वचनमाशङ्कयोपसंहारपूर्वकं ग्रन्थाऽग्रन्थविभागमुपदिदर्शयिषुराहतम्हा किमत्थि वत्थु, गंथाऽगंथो व सव्वहा लोए? गंथोऽगंथो व मओ, मुच्छममुच्छाहिँ निच्छयओ // 2573 / / वत्थाई तेण जं जं, संजमसाहणमरागदोसस्स / तं तमपरिगहो चिय, परिरगहो जं तदुवघाई // 2574 //