________________ सिरिपम 964 - अभिधानराजेन्द्रः - भाग 7 सिरिवण्ण यतिधर्मेच्छोरनिशं, पालितगृहमेधिधर्मस्य // 168 / / पूर्वभवार्जितगुरुतर-रोगभरप्रसरविधुरदेहस्य। दीक्षां गृहीतुमनलं-भूष्णोरुचितं किमधुना मे ?||166 / / अल्पायुष्कत्वमथो, जानन्नृपतेर्गुरुर्बभाणेदम् / स्वातीचारान् विकटय, यमांश्च पुनरुचर नरेश // 200 / / क्षमयस्व प्राणिगणं, व्युत्सृज सर्वाणि पातकपदानि / जिनसिद्धसाधुधर्म, सम्यक् शरणं प्रपद्यस्व // 201|| गर्हस्व दुष्कृतभरं, कुरुष्व सुकृतानुमोदनं भूप !! शुभभावनां च भावय, मुदितोऽनशनं प्रपद्यस्व / / 202 / / पञ्च नमस्कारं स्मर, विमुञ्च ममतां च राज्यराष्ट्रादौ / इति गुरुगिरो निशम्य, प्रमुदितचित्तो महीभर्ता // 203|| निजतनये हरिषेणे, हर्षेण निवेश्य वसुमतीभारम् / संघं च क्षमयित्वा, विधाप्त पूजां जिनगृहेषु // 204|| सुगुरोः समक्षमनशन-मुररीचक्रे समाहितमनस्कः / स्वाध्यायध्यानपरो, वासरसप्तकमतीयाय / / 20 / / विदलचरणावारक-कर्मचयोऽत्रान्तरे प्रभाचन्द्रः / विहिताञ्जलिगुरुं प्रति, विज्ञपयामासिवानेवम् // 206 / / दीक्षा जगृहे न भया, प्रभोऽल्पसत्त्वेन पूर्वमधुना किम् / सा समुचित ग्रहीतुं, नवेति ? गुरुराह भो भूप !!|207 / / एकाहमपि प्राणी, प्रव्रज्यां पालयेदनन्यमनाः। यदि नहि गच्छेन्मोक्षं, स भवेद्वैमानिकोऽवश्यम् / / 208|| तत्संस्तारकदीक्षा-मधुनाऽपि विधेहि धेहि समभावम् / श्रुत्वैवं मुदितमनाः, संस्तारकयत्यभून् नृपतिः // 206 / अनिशं श्रुतिपत्रपुटे-न पिवन् समयामृतं विगततृष्णः / अवगाढो हंस इव, स्फूर्जन्निरवधिसमाधिहदे // 210|| पक्षं विहितानशनः, पञ्चनमस्कृतिमनुस्मरन् मनसि / मृत्वा स वैजयन्ते, महर्द्धिरमरः समुत्पेदे // 211|| ग्रामपुरकर्वटादिषु, सार्द्ध विहरन् प्रभासमुनिपतिना। श्रीप्रभमुनिररिदमन-क्षितिपतिजनपदमथायासीत् // 212 // तत्र च निशम्य लोकात्, प्रमेन्दुराजस्य मरणवृत्तान्तम् / वैराग्योपगतमना, एवं स महामना दध्यौ // 213 // धन्यः कृतकृत्योऽयं, कृतार्थजन्मा नृपः प्रभाचन्द्रः। पण्डितमरणं लब्धं, भवकोटिसुदुर्लभं येन // 214 // सुरगिरिधीरेणापि च, मर्त्तव्यं फरुमीरुणाऽपि तथा / उभयोर्नियते मरणे, धीरतया तदरं मरणम् // 21 // तद्वेधाकृतसंले-खनस्य चिरविहितविमलचरणस्य / अभ्युद्यतमरणं खलु, विधातुमुचितं ममाप्यधुना / / 216|| एवं विषाव्य, स मुनि-गुरूननुज्ञाप्य पापरिपुमुक्तः / प्रतिसमयशुध्यदध्यव-सायो देहेऽपि च निरीहः // 217 / / समशत्रुमित्रभावो, निर्जन्तुशिलातलं समनुसृत्य / विदधे विधिना सुमना, अनशनमथ पादपोपगमम् / / 218 // अत्रान्तरे चरमुखा-दरिदमननृपो निशम्य तवृत्तम्। आगम्य तत्र हृष्ट-स्तस्य मुनरिति नुतिं चक्रे // 216 / / जय जय मुनीश ! विकसित शतदलपटलविमलकीर्तिभर !! निःशेषसत्त्वसंहति-रक्षादक्षाशय ! सुधीर !!|220 / / शुचिसत्यवचनरचना-प्रपञ्चपीयूषशमितभवदाह ! / दशनविशोधनमात्रेऽपि परधने निःस्पृहमनस्क ! / / 221 / / जितभुवनभदनमदकल !, कुम्भस्थलदलनकेसरिवरिष्ठ !! घदलमधूलिलीला-परिमुक्त ! प्राज्यसाम्राज्य !222 / / मैत्रीप्रमोदकरुणा-माध्यस्थ्यमहार्णवावगाढाय / अतिदुष्करतरतपसे, नमो नमस्ते महाभाग ! // 223 / / इति तेन नूयमानोऽपि सर्वथात्कर्षवर्जितः स मुनिः। तत्कालं त्रुटितायुः, परमं ध्यानं समधिरूढः / / 22 / / मुक्त्वा तनूमवक्रय-कुटीपरित्यागहेलयाऽत्रैव / सर्वार्थवरविमाने, त्रिदशवरिष्टः समजनिष्ट / / 225 / / हर्षप्रकर्षकलितै-रथ तस्य कलेवरस्य सन्निहितैः / विबुधैर्विदधे महिमा, गन्धोदककुसुमवर्षेण / / 226 / / देवः स तत्र हस्तो-च्छ्यो निशाकरकरप्रतिमरोचिः / त्रियुतत्रिंशजलधि-स्थितिरहमिन्द्रो विगतमानः // 227 / / सुखशय्यामधिशयितो, निष्प्रतिकर्मा सदा विमललेश्यः / मुक्तस्थानान्तरगति-रकृतोत्तरवैक्रियविकारः // 228|| यायुःसागरसंख्यैः, पक्षैः कुर्वन् सुगन्धि निःश्वसितम् / वर्षसहस्रेस्ताव-द्भिरेप आहारयन् मनसा // 226 // भिन्नां च लोकनाली, विलोकयन्नवधिसंपदा मुदितः / निवृतिसुखदेशीयं, सुखमनुभूय प्रवरतेजाः // 230|| स्वस्वस्थानाच्च्युत्वा, श्रीप्रभजीवः प्रभेन्दुजीवश्व / अपरविदेहे मुक्तिं, लप्स्येते शुद्धचरणेन // 231 // एवं संयुत एकविंशतिगुणैः स श्रीप्रभः क्ष्मापतिः, साधुश्रावकधर्मभारधरणे धौरेयकोऽजायत / / तद् भो भव्यजनाः ! सनातनसुखस्थानाप्तिबद्धादरा !, एतान् मूलगुणानुपार्जितुमहो यत्नं विधत्तान्वहम् // 23 // (इति श्रीप्रभमहाराजकथा।) ध० 203 अधि०७ लक्ष० / सिरिमुह-(देशी) मन्दमुखे, दे० ना० 8 वर्ग 32 गाथा / सिरियक-पुं० (श्रीयक) स्थूलभद्रस्वामिभ्रातरि सकटालसुते, आ० क०४ अ०॥ सिरिवओ-(देशी) हंसे, दे० ना०८ वर्ग 32 गाथा। सिरिवच्छ-न० (श्रीवत्स) माहेन्द्रकल्पस्य स्वनामख्याते पारियानिके विमाने, स्था० 5 ठा०३ उ० / जं०। प्रव० / औ०। एकादशे देवलोकविमाने, स०२१ सम०। माङ्गलिकचिह्नभेदे, जं०१ वक्ष०। रा० / महापुरुषाणां वक्षोऽन्तर्वर्तिनि अभ्युन्नताऽवयवे लाञ्छनविशेषे, जं०३ दक्ष०। *श्रीवक्षम्-पुं० जिनादिवक्षश्चिह्नविशेषे, रा०। आ० म०। स०। सिरिवच्छा-स्त्री०(श्रीवत्सा) श्रीश्रेयांसस्य शासनदेव्याम्मतान्तरेणमानवी गौरवर्णा सिंहवाहना चतुर्भुजा वरदमुद्गरान्वित दक्षिणकरद्वया कलशाकुशसंयुक्तवामकरद्वया च / प्रव० 26 द्वार / सिरिवच्छंकियवच्छ-पुं०(श्रीवृक्षाङ्कितवक्षम्) श्रीवृक्षणाङ्कितं लाच्छितं दक्षो येषां ते श्रीवृक्षाङ्कितवक्षसः / श्रीवत्सचिह्नाङ्कितेषु, जी०३ प्रति० 4 अधि०। औ० / अन्त०! सिरिवळिसय-न० (ग्यवतंसक) सौधर्मकल्पविमानभेदे, नि०१ श्रु० 3 वर्ग 10 अ०। सिरिवण-न० (श्रीवन) पोलासपुरे नगरे स्वनामख्याते उद्याने, अन्तः। सिरिवण-न० (श्रीपर्ण) भघिलपुरस्योत्तरपौरस्त्ये दिग्भागे स्वनाम ख्याते विमाने, अन्त०१ श्रु०३ वर्ग 1 अ०।