________________ सिरिपम 863 - अभिधानराजेन्द्रः - भाग 7 सिरिपभ सेवेथा आर्यजनं, घनं यथा चातकसमूहः / / 150 / / बन्धो बन्धुरभक्त्या, बन्धुमिव श्राद्वलोकमचेथाः / रक्षेर्नयेन वसुधां, सुधां यथा भोगिनां भर्ता // 151 / / आधारस्त्वमसि भुवो, नाधारस्तव समस्ति कश्चिदपि / आत्मानमात्मनैव हि, तत्सततं धारयेवत्स !!|152 / / इत्युक्त्वा तुष्णीकी- भूते श्रीप्रभनृपे प्रभाचन्द्रः / एवमिति प्रतिपेदे, सर्व भक्त्या नमग्रीवः / / 153|| अथ सुस्नातविलिप्तो, रत्नालंकारभूषितशरीरः / सदशांशुकसिचयधरो, द्ददर्थिभ्यो महादानम् // 154 // कृतसकलसंघपूजो, भ्रातृविधापितसहस्रनरबाह्याम् / शिविकामध्यासामा-स पुष्पकं यक्षराज इव / / 155|| चतुरङ्ग चमूयुक्ते-न बन्धुभूपेन विनयनम्रण। अनुगम्यमान उचै- मार्गाधः कृतजयजयारावः // 156 / / पुर्या मध्यं मध्ये-न निर्ययौ नरपतिर्महाभूत्या / गुरुपदपावितमुद्या-नमाप्य शिबिकात उदतारीत् // 157 / / अथ भूषणसंभारं विश्वं विश्वम्भरापतिझगिति / उदतारयदङ्गाद् भुज-दण्डादिव वसुमतीभारम् // 158|| सिद्धान्तगदितविधिना, गुरुणाऽथ श्रीप्रभः परिव्राज्य / परमां मुदं दधत्सा, भारत्या समनुशिष्ट इति / / 156 / / कमठेन्दुदर्शनमिव, प्राप्य दुरापां जिनाधिपतिदीक्षाम् / शयनासनादिचेष्टा, सकलाऽपि हि यतनया कार्या // 160 // यतःयतना सुधर्मजननी, यतना धर्मस्य पालनी नित्यम् / तवृद्धिकरी यतना, सर्वत्र सुखावहा यतना // 161 / / एकामेव हि यतनां, संसेव्य विलीनकर्ममलपटलाः / प्रापुरनन्ताः सत्त्वाः, शिवमक्षयमव्ययं स्थानम् // 162 / / एवं शिक्षां दत्त्वा, प्रभासगुरवो विजडुरन्यत्र / शारदिकवारिदा इव, तिष्ठन्त्येकत्र न हि मुनयः // 163 // श्रीप्रभराजर्षिरपि, प्रति समयविशुध्यदमलपरिणामः / यूथपतिनेव कलभः, सततं विजहार सह गुरुणा // 164|| जिनपरिवृढगदितागम-सूत्रार्थसुधां पिबन्नमर्त्य इव / पञ्चमहाव्रतभारं, दधदवनीभारमिव शेषः // 16 // पञ्च निशाताः समिती-हस्तशरानिव धनुर्धरी विभ्रत्। तिम्रो गुप्तीः शक्ती-नरपतिरिव धारयन् शुद्धाः / / 166|| मार्गानुसारिणीमिह, कुर्वन् सकलां क्रियां सुपान्थ इव / श्रद्धा प्रवरां धर्मे, तन्वन् मकरन्द इव भृङ्गः // 167 / / प्रज्ञापनीयभावे-न संयुतो भद्रवारण इवोच्चैः। साधक इव विद्यासु, प्रमादमुक्तः क्रियासु सदा / / 168|| आद्रियमाणः शक्या-नुष्ठाने योग्यमन्द इव वैद्यः / हृष्यन् गुणाढ्यसङ्गे, सरउत्सङ्गे मराल इव / / 166 / आराधयन् गुरुजनं, परमात्मानं यथा परमयोगी / सुचिरं निरतीचारं, चरणं परिपालयामास / / 170 / / अथ वर्गत्रयपालन-परायणस्य प्रभेन्दुराजस्य / / तनयावुभावभूतां, हरिषेणः पद्मसंज्ञश्च / / 171 // तौ सकलकलापूर्णी, पूर्णेन्दू इव समस्तजनसुखदौ / अपराविव भुजदण्डौ-रेजाते तस्य भूपस्य / / 172 / / अपरेधुरवनिजाने-रजनिष्टारोचिकत्वमन्नादौ / मरुनिपतितहसं इव, प्रतिदिनमक्षीयत ततोऽसौ // 173 / / आहूता वरवैद्याः, क्रिया विचित्राश्च तैः समारब्धाः। न च जज्ञे कोऽपि गुणो, व्यचिन्तय तत इति नरेन्द्रः / / 174 / / द्रव्यौषधैः किमेभि-येष्ठ पुत्रं निवेश्य राज्यभरे। कौमारे च कनिष्ठ, श्रयामि धर्मोषधमिदानीम् // 175 // अत्रान्तरे च सहसा, संजातप्रबलशूलरोगेण। अपि वैद्येः क्रियमाणो-पचार आपन्मृतिं पद्मः / / 176 / / अथ तनयमरणमाक-र्ण्य नृपतिरस्तोकशोकसंतप्तः / दम्भोलिनिहतगिसिरिव, मूछाविवशः पपात भुवि // 177|| पवनाधुपचारवशा-दवाप्य चैतन्यमिति नृपो व्यलपत् / हा पुत्र ! क्वासि गतः ? प्रतिववनं किं न मम दत्से ?||178|| उदियाय पूर्वचन्द्रो, हा ग्रस्यत मक्षु सैहिकेयेन / अहह फलेग्रहिरभवत्, तरुरुदमूल्यत महाकरिणा // 176 / / पोतः प्राप पयोनिधि-पारं तटशिखरिणा हहाऽभजि ! / दृष्टौ निधिर्विशालो, हा हा हाऽह्रियत हतविधिना ? / / 180 / / उदनमदम्भोवाहो, नभस्वताऽक्षिप्यत क्षणेनाहो ! / राज्योचितोऽजनि हहा, तनयः समहारि दैवेन !||181 / / एवं प्रलपन् सचिवै-यंबोधि कथमपि नृपोऽकरोत् सूनोः / मृतकृत्यमल्पशोकः, कालेनैवं मनसि दध्यौ // 182 / / ये दण्डसात् सुमेरुं, पृथिवीं वा छत्रसात् क्षमाः कर्तुम् / तेऽपि स्वमन्यमवितुं, नाले किं हन्त पुनरितरे !||183 / / पीयूषपोषपुष्टः, पविभीषणपाणिरमरकोटिवृतः। सुरपतिरपि सुरलोका-च्च्यवते पक्वं फलमिव द्रोः // 184|| षष्टिं पुत्रसहस्रान्, सगरश्चक्रयपि न रक्षितुमधीशः। ज्वलनप्रमाद्यमादिव, ततोऽपि किं त्वं बलिष्ठतरः ||185 // कृत्वा पातकमपि यान्, पुष्येदुत्पश्यतामपि हि तेषाम् / रङ्क इव यमेन भवी, गतशरणो नीयते कृष्ट्वा / / 186|| नीतस्ततश्च नरके, सहते खलु वेदनाः परमघोराः / जन्मान्तरानुधावी-नि देहिनामहह कर्माणि !||187|| जननी मे जनको मे. भ्राता मे सतकलत्रवर्गो मे / मिथ्यैव बुद्धिरेषा, न देहमपि वस्तुतः स्वीयम् // 188|| पुत्रादीनामेषां, भिन्नस्थानात्समेयुषां स्थाने। एकत्र निवासः खलु, विहगानामिव तरौ सायम् // 186 / / गच्छन्ति ततोऽपि पुनः, पृथक् पृथक् स्थानकेषु देहभृतः / एकत्र निशि सुषुप्ता, निशावसाने यथा पान्थाः // 16 // अरघट्टघटीन्याया-दथैहिरेयाहिरां (रों) क्रियां सततम् / इह कुर्वतां तनुभृतां, को हन्त स्वः परः को वा ?||161 / / एवं यावत् संवे-गसंगतश्चिन्तयत्यवनिनाथः। तावत् तत्रोद्याने, कुमारनन्दी गुरुः प्राप ||१६सा गुर्वागमनं ज्ञात्वा, गत्वा तत्र प्रणम्य मुनिनाथम् / उचितस्थाने निषसा-द देशनामथ गुरुर्विदधे / / 163 // दिग्भ्यः सर्वाभ्योऽपि, स्वतोऽन्यतश्चापतद्विपन्निवहाः। यमदन्तयन्त्रसंस्थाः , कष्टं जीवन्ति तनुभाजः / / 164|| जीवातुभिरगदगणै-रायुर्वेदेन सप्रभेदेन। मृत्युंजयादिभिर्वर-मन्त्रैर्नहि रक्ष्यते मृयोः // 165|| अहह खलमार्यमधनं, महाधनं मन्दमेधसं प्राज्ञम् / कवलयति सततमशरण-मविशेषेणेण समवर्ती // 166 / / तापापहमजरामर-पदमन्दश्रमणधर्मममृतसमम्। मुक्त्वा तदत्र भुवने, क्वचिदपि नान्यच्छरणमस्ति / / 167|| इत्याकर्ण्य नरेशो, विनम्य यतिपतिपदौ जगादेति /