________________ सिरिपभ 862 - अमिधानराजेन्द्रः - भाग 7 सिरिपभ अरिदमनक्षितिपस्त-देशमुपद्रोतुमारभत / / 107 / / ज्ञात्वेदं चरमुखतः, स भाणितः श्रीप्रभेण दूतेन / किं ननु कतिपयसीम ग्रामकुटीरकविलुण्टनतः ||108|| पूर्वजविहितप्रणय-प्राग्भारमसारमारचय्य भृशम् / आदृत्य दुर्जनत्वं, विप्रियमेवं मम विधत्से ?||106 / / यतः - ते धन्याः सत्पुरुषा, येषां स्नेहो ह्यभिन्नमुखरागः। वृद्धि गच्छन्ननुदिन-मृणमिव पुत्रेषु संचरति / / 110 / / तस्मादितोऽपराधा-दद्याप्युपरम मयाऽऽग एतत्ते / क्षान्तं नह्यश्रेगू-भवाम्यहं स्नेहतरुभेदे // 111|| श्रुत्वेत्यरिदमननृप-स्तं दूतं प्रतिहसन्निति जजल्प। भो भो त्वया निजप्रभु-रेवं वाच्यो मदीयगिरा ||112 // यथाःतव पार्थिव ! धर्मार्थ, सविस्तरारब्धकुशलकृत्यस्य। पृथ्व्याः परिपन्थनया, कृतमनयाऽनर्थकारिण्या // 113 // अथ वाञ्छस्येनामपि तद् दूरं मुश्च धर्मकर्मेदम्। एकत्र कथं संभव-ति खलति सीमन्तसंघटनम् ?||114 // अथ लोकरञ्जनामा-त्रमेष आरभ्यत त्वया धर्मः / तद् भव निश्चिन्तमना, न हन्मि तव देशमहमधुना // 11 // पूर्वप्रणयप्रकटन-मवनीशानां परं जिगीषूणाम् / दूषणमेव गरिष्ठं, गाढमसामर्थ्यमथवाऽपि // 116|| श्रुत्वेति दूतमुखतः, श्रीप्रभराजः प्रदीप्तकोपाग्निः / किंकरगणेन सहसा, रणभेरी ताडयामास // 117 // तच्छब्दाकर्णनझगि-ति मिलितचतुरङ्गसैन्यपरिकलितः। शत्रु प्रति प्रतस्थे, प्रदेशसीमान्यगात् क्रमशः // 118|| अरिदमननृपोऽप्यस्या-शु संमुखे समजनिष्ट रणरसिकः / अलसा न युधे शूरा, विना इव भोजनायेह // 11 // अथ सैन्ययोर्द्वयोरपि, सुभटानां तत्र चित्रशस्त्रभृताम्। संफोटोऽजनि गगने, सविद्युतामिव पयोदानाम् // 120 // अत्यद्भुतभटवादै-रथ मालवभूभुजः सुभटसंधैः। परबलमभज्याताद्भुत-मुद्यानमिव द्विपैर्मत्तैः / / 121 / / अथ स्थमध्यारूढो, भग्नं संधीरयन्ननीकं स्वम् / उदतिष्ठतारिदमनः, समरायास्फालयश्चापम् // 122 // युगपद्विमुक्तशितविशि-खसंचयैः सोऽप्यधत्त रिपुसैन्यम् / तटपर्वतमिव जलधेः, प्रसरदलासलिलपूरैः // 123 / / क्षणमात्रादरिदमनः, परसैन्यमदैन्यभुजबलोऽभासीत् / कुटकोटिं लकुट इव, प्रभञ्जनो वृक्षलक्षमिव / / 124|| निजसैनिकभङ्गेन क्रुद्धः श्रीप्रभनृपो विपक्षबलम् / उत्तस्थे संहर्तुं , कीनाशस्यानुजन्मेव / / 125 // नैव मनागपि सेहे, मालवपतिरापतन् परानीकैः / भुजगैरिव विनतायाः, सूनुर्हरिणैरिव व्याघ्रः // 126|| विद्रुतसैन्यं पुरतः, स्थितमरिदमनं नृपं रणायाथ / आह्वास्त मालवेशो, बलानुजन्मेव भूरिबलः // 127 / / तदनु विचित्रैः शस्त्रै --रस्त्रैरपि तौ नृपावयुध्येताम्। वन्येभ्याविव दशन-रन्योन्यवधाभिलाषमती / / 128 / / युद्धवा चिरमरिदमनं, गुरुशक्तिर्मालवाधिपश्चक्रे / गतवीर्ये गतशस्त्र, भुजग निर्विषमिव नरेन्द्रः / / 126 // अरिदमननृपः श्रीप्रभ-नृपेण कलभो महागजेनेव। परिभूतः पश्चाङ्मुख-मवक्षमाणाः पलायिष्ट / / 130|| अथ तस्य श्रियमखिला, रथकट्या श्वीयहास्तिकप्रमुखाम् / जगृहे श्रीप्रभराज-स्तस्य श्रीर्विक्रमो यस्य / / 131 / / आपूर्ण इवाम्बुधरो, निवृत्य रणसागरादवन्तीशः। कृतसकललोकतोषो, निजनगरीमाजगाम ततः // 132 / / तत्र त्रिवर्गसारं, राज्यश्रियमनुभवन्नसौ नृपतिः / भूयांसमनेहासं, स्वःसुरपतिवदतिचक्राम // 133 / / तत्र प्रभासगुरवः, समवसृता अन्यदा सुमुनिसहिताः। बन्धुपरिवारयुक्त-स्तान्नन्तुं निर्ययौ राजा / / 134|| सम्यक् विनम्य मुनिपति-मिलातलाश्लिष्टमस्तका नृपतिः / निषसाद यथास्थानक-मथ गुरुरिति देशनां विदधे // 135 / / इह हि भवसमुद्रे संसरन् भूरिकालं कथमपि मनुजत्वं प्राप्नुयात् कोऽपि जीवः / तदपि कथमपीह प्राप्य सद्धर्मकर्म क्षमतनुबलमायुर्दीर्घकालाल्लमेत // 136|| इदमपि समवाप्य प्रौढमिथ्यात्वलुप्त--- स्फुटविशदविवेकः पापतापातिरेकः। पुनरपि च भवेत्राऽनन्तशोऽनन्तदुःख व्यतिकरविधुरो यं संभ्रमी वम्भ्रमीति // 137 / / इति भवजलराशौ मजनोन्मञ्जनानि, प्रविदधदिह दैवादाप्य भूयोऽपि नृत्वम् / दृढगुणगणलब्धां जैनदीक्षां तरीवच्छ्रयत भविकलोकाः ! क्लेशविच्छेददक्षाम् // 138|| किंचअत्युत्कटभटकोटी-रथहरिकरिनिकरबलभरसमृद्धाः। यैर्जीयन्ते रिपवः, परः शता जगति ते पुरुषाः / / 136 / येन पुनः स्वात्माऽसा-वनल्पकुविकल्पकल्पनाकलितः / जीयेत तेन विजितं, त्रिजगदिदं परमशूरोऽसौ // 140 / / तथा चार्षम् - जो सहस्सं सहस्साणं, संगामे दुजए जिणे। एगं जिणिज्ज अप्पाणं, एस से परमो जओ // 141 // एगे जिए जिया पंच, पंच जिए जिया दस। दसहाउ जिणित्ताणं, सव्वसत्तू जिणिज तो // 142 / / इत्याकर्ण्य श्रीप्रभ, आनम्य गुरूनुवाच वः पार्श्व / प्रव्रज्यामादास्ये, राज्यं न्यस्य प्रभाचन्द्रे // 143|| देवानुप्रिय !, माऽस्य, व्यधाः प्रमादमिति सूरिणा गदिते / राजा च सपरिवारो, निजधाम जगाम मुदितमनाः // 144|| अथ सकलराजलोक-प्रत्यक्षं भ्रातरं प्रभाचन्द्रम्। संस्थाप्य राज्यभारे, प्रददाविति, नरपतिः शिक्षाम् / / 145 / / वत्सान्तरङ्गशत्रून-सदा जयेरविजये यतस्तेषाम्। विजिता अप्यजिताः खलु, बलवन्तः शत्रवो बाह्याः // 146|| परिपालयेः प्रजास्त्वं, मालिक इव सुमनसः प्रयत्नेन। सर्वत्राप्यौचित्यं, हृदये दंध्या जिनेन्द्रमिव / / 147 / / इतरेतराविघाते-न वत्स ! धर्मार्थकामपुरुषार्थात्। प्रतिलेखनादिचेष्टाः, सुसाधुरिव साधयेः सततम् / / 148|| सिचयमिवानलदूषित मुज्झेर्निजमपि नयेन परिहीणम् / दुर्दममिन्द्रियवर्ग दमयेस्तुरगाहिनिवहमिव / / 146 / / परिवर्जयेः कुसङ्ग, द्विदलात्ते घोलभोजनमिवोचैः / /