________________ सिरिपभ 861 - अभिधानराजेन्द्रः - भाग 7 सिरिपभ तौ तदनु विप्ररूपेण भूपरूप्रावलोकनसतृष्णौ / द्वारसमीपेऽस्थाता, प्रासादद्वारि भूमिभुजः // 66 // आसीत् सनत्कुमारो, मुक्ताकालंकारसारनेपथ्यः / प्रारब्धमजनोऽभ्यङ्गसङ्गमङ्गे बहन्नुचैः // 60|| दौवारिकेण तौ वि-प्रपुड़वौ द्वारसंस्थितौ कथितौ। प्रावीविशत्तदाप्ये-ष चक्रवर्ती स नयवर्ती // 61 // अप्रतिरूपं रूपं, तौ दृष्ट्वा तस्य राजराजस्य' मौलिं विधूनयन्ती, दध्यतुरिति विस्मितौ मनसि // 6 // एतस्य भालपट्टो-यमस्तशस्ताष्टमीरजनिजानिः / नीलोत्पलजयपत्रे, नेत्रे कर्णान्तविश्रान्ते // 63 / / दन्तच्छदयुगमभिभू-तपक्वबिम्बीफलच्छविविकाशम्। जितशुक्तिः श्रुतयुगली, कण्ठोऽयं पाञ्चजन्यजयी // 64 // स्तम्बेरमराजकरा कारतिरस्कारकारिणौ बाहू / वक्षःस्थलममराचल-पृथुलशिलाश्रीविलुण्टाकम् // 65 // कटरे करचरणतलं, तर्जितकान्किल्लिपल्लवप्रचयम् / किमपरममुष्य सर्वा-श्रीनहि गोचरो वाचाम् // 66 // कोऽप्यस्याहो लाव-ण्यसरित्पूरो निरर्गलो येन / जानीयो नाभ्यङ्ग, भविभामिव चारुचन्द्रिकया // 67 / / वर्णयति स्म यथेन्द्र--स्तथेदमाभाति समधिकं चापि / न कदाचवापि मिथ्या, वदन्ति वाचं महात्मानः // 6 // किमिहागतौ भवन्ता-विति पृष्टौ चक्रिणाऽथ तौ जगतुः / अप्रतिमं तव रूपं, त्रिजगत्यां गीयते भूप ! // 66 // दूरादपि तत् श्रुत्या, तरङ्गितामुद्रकौतुकसमुद्रौ / अवलोकयितुमिहाऽऽवा-मायाव नरेन्द्रशार्दूल !70 / / व्यावर्ण्यमानमतुलं, तव रूपं शुश्रुवे यथा लोके / नरवर ! ततोऽपि सविशे-षमेतदालोक्यतेऽस्माभिः // 71 // श्रूत्वेति विप्रवचनं, स्मितविच्छरिताधरो नपः प्रोचे / कान्तिरियं किल कियती, परितोऽप्यने कृताभ्यङ्गे // 72 / / क्षणमात्रमितो भूत्वा, भो भो द्विजसत्तमौ प्रतीक्षेथाम् / मज्जनकक्षण एषो-ऽस्माभिर्निर्वत्यते यावत् // 73|| रचितविचित्राकल्पं, विभूषितं भूरिभूषणगणेन। रूपं मम पश्येतं, सरत्नमिव काञ्चनं भूयः / / 74 / तदनु स्नातविलिप्तो-लंकृतिनेपथ्यभूषितो भूषः / अध्यासामाय सदः- सदनं गगनं गगनमणिवत्॥७५।। समनुज्ञातौ भूयो-ऽपि भूपरूपं द्विजौ प्रपश्यन्तौ / दवदग्धकीचकाविव, विच्छायौ झगिति तौ जातौ // 76|| किमेतदिति सर्वेऽपि, सभ्याः साकूतं परस्परमुदीक्षामासुः / अनलंकृतेऽपि पूर्व-मपि दृष्ट हर्षितौ युवां विप्रो / समलंकृतेऽपि संप्रति, दृश्येथे किमिति सविषादौ?||७७|| इति चक्रभृता पृष्टौ-भूदेवौ तौ जजल्पतुर्भूप!। अधुना तायकदेहे, संक्रान्ता व्याधयः सप्त 78 / / तद्वशविनश्यदतुला-ङ्गरूपलावण्यवर्णकान्तिगुणः। त्वं वर्तस इत्यावां, प्रतिपन्नौ शोकसंभारम् // 7 // कथमेतद्विज्ञायत, इत्येवं प्रश्चितौ भरतपतिना। तौ शिष्टयथास्थितस-र्वपूर्वसुरराजवृत्तान्तौ ||coll प्रकटितनिजस्वरूपौ, गीर्वाणौ प्रतिगतौ यथास्थानम्। वैराग्योपगतमति-श्चक्रधरोऽचिन्तयदथैवम् / / 1 / / भवनजनयुवतिचतुर-इसंग्रहो यस्य कारणात् क्रियते। तद्दारु दारुणघुणे रिव रोगैलृप्यते गात्रम् // 82 // येन विमोहितमतयो, हितमहितं चिन्तयन्ति नहि जीवाः / तद्यौवनमिह वनमिव, जरा दवानलसिखा दहति // 3 // अवलिप्तो येन जनः कृत्याकृत्यं न वेत्ति तद्रूषम् / मक्षु विनश्यति धातु-क्षोभे हिमपात इव कमलम् // 4 // अद्य श्वोऽथ विनाशिन, एतस्थ शरीरकस्य तदिदानीम् / गृह्णाम्यविनश्चरफल-मिति नृपतिश्चेतसि विभाव्य / / 8 / / प्राज्यं साम्राज्यमिदं, विहाय लोका अहो निरीक्षध्वम् / आदत्ते जिनदीक्षा, तारतरीमिव भवाम्भोधौ // 86 / / सागरमिव दशमद्वा-रसोधिनं चिकुरनिकरमसितरुचिम्। पश्यत पश्यत पुरतः, समूलमुन्मूलयत्येषः / / 87 // पुरतोऽवलोकयध्वं, मणिरत्नोत्कटकिरीटहारादिः / आभरणसमूहोऽय, निर्माल्यमिवामुनाऽत्याजि ||8|| निध्यात नाथमुक्तं, क्रन्दत्यन्तःपुरं स्फुरदुःखम्। खतरसमीरलहरी-प्रकम्पितं खगकुलमिवाग्रे // 86 // हा नाथ ! नाथ ! किं वय-मेकपदेऽप्यशरणास्त्वया त्यक्ताः / एवं विलपन्ति जना, हृतसर्वस्वा इवेक्षध्वम् / / 6 / / इति तेन भरतभर्तु-निष्क्रमणव्यतिकरस्तथाऽदर्शि। श्रीचन्द्रनृपोऽपि यथा, तत्कालं जातवैराग्यः // 11 // स्मृतपूर्वभवश्रुतशु-द्धसंमयः,पञ्चमुष्टिकृतलोचः। सुरदत्तसाधुवेषो-विनिर्ययौ राजमन्दिरतः / / 62|| नटविलसितमिदमखिलं, निर्बाथान्नाथ ! मा स्म नस्त्याक्षीः / एवं रुदत्यपि जने, विहृतः स ऋषिर्यश्राभिमतम् // 63|| अथ पितृवियोगविह्वल-चित्तमनिच्छन्तमश्रुपूर्णाक्षम् / श्रीप्रभमुचै राज्ये, कौमारे च प्रभाचन्द्रः ||14|| विनिवेश्य विनयननैः, सामन्तैः सचिवपुङ्गवैश्चोक्तम्। अस्तोकशोकशड्कू-द्धरणप्रवणरिदं वचनैः / / 65|| मा देव ! कृथाः स्वपितुः, शोकमशोच्यो ह्यसौ महाभागः। खलमहिलेव विमुक्ता, येन समग्राऽपि राज्यश्रीः // 66|| को नाम प्रारभते, दुष्करमेवंविधं श्रमणधर्मम् / प्रायो वैराग्यमतिः, क्षणमेकं मतिमतामपि यत् // 67|| शोच्यास्त एव ये का-लधर्मतामुपगता अकृतसुकृताः। यैरुद्यतमतिधर्मे, ते भुवने पञ्चषाः पुरुषाः / / 68|| निशमयति को न समयं ? कः सर्व नेक्षते क्षणविनाशि? प्रतिसमयभाविमरणं, शरीरिणां को न भावयति ?IEI को वा हृदि-नहि धत्ते, गुरूपदेशं सदा सुखनिवेशम् ? कस्य नवा प्रियमक्षय-मनन्तमसदृशममृतसौख्यम् ? / / 10 / / किंतु चलचित्तभावा-त्तदनुष्ठाने भृशं गतोत्साहाः। गिरिगुरुका अपि पुरुषा, अवसर्पन्तो विलोक्यन्ते // 101 // देवेन पुनस्तत्किम-पि साहस व्यवसितं महामतिना। यदसमसाहसिकाना-मपि चेतः खलु चमत्कुरुते // 102 / / एषोऽपि देव ! परमो-पकारिभावेन नाटकविधाता। सद्धर्मसूरिरिव वो, विशेषतश्चार्चितुं युक्तः // 103 // एवं निशम्य राजा, रङ्गाचार्य प्रपूज्य विससर्ज। किंचिदुपशान्तशोको, नीतिलतासजलजलवाहः // 10 // नीहारहारधवलान्, नव्यविहारान् विधापयन् बहुशः / गुरुगौरवेण कुर्वन्, साधर्मिकलोकवात्सल्यम् // 105 // मुग्धजनं सद्धर्भे, स्थिरयन् जिनशासनोन्नतीस्तन्वन् / सामायिकपौषधसु-ख्यधर्मनिरतोऽजनि प्रायः // 106|| अथ सतत धर्मोद्यत-मजिगीषु श्रीप्रभ नृपं ज्ञात्वा /