________________ सिरिपम ५६०-अभिधानराजेन्द्रः - भाग 7 सिरिपभ सबुद्धिवृद्धजनसे- वनैकसरसी वरमरालः / / 12 / / विनयनयबद्धचेताः, कृतज्ञताकूलिनीधुनीनाथः। परहितकरणप्रवणः, सुलब्धलक्ष्यश्च कृत्येषु / / 13 / / तत्रापरेधुरागात्, केवलकलितो गुरुर्भुवनभानुः / तं नन्तुमगान्नृपतिः, सुतसामन्तादिपरिकलितः / / 14 / / कृत्वा प्रदक्षिणात्रय-मानम्य गुरु गरिष्ठया भक्त्या। उचितस्थाने न्यषद-द्यतिपरिरथ देशानां चक्रे ||15|| इह भवगहनेऽनन्ते, भ्राम्यन् जीवः सहन्नसातभरम्। जातिकुलप्रभृतियुतं, कथमपि लभते मनुजजन्म ||16|| तदवाप्य भव्यलोकाः !, जिनधर्म कुरुत सकलदुःखहरम्। स पुनर्बेधा प्रोक्तो, यतिगृहिधर्मप्रभेदेन // 17 // तत्राद्य पञ्च यमाः, प्रत्येकं पञ्च भावनाः पाल्याः / हिंसालीकस्तेया-ब्रह्मपरिग्रहविरतिरूपाः // 18 // समितिभिरीर्यादान-षणाभिरनिशं तथा मनोगुप्त्या / दृष्टान्तादिग्रहणे-न भावयेन्प्रथमयमममलम् / / 16 / / विविधैर्नियमविधानः, प्रत्याख्यान निरन्तरं मतिमान / आलोच्य भाषणेना-पि भावयेत् सूनृतं च यमम् // 20 // याचनमवग्रहस्या-लोच्यावग्रहविमार्गणं च भृशम् / सततं समनुज्ञापित-भक्तान्नाभ्यवहृते करणम् // 21 // साधर्भिकतो याचन-मवग्रहस्योचकैस्तथाऽस्यैव / मर्यादाकरणमिमा, अस्तेये भावनाः पञ्च // 22 // नारीपण्डकपशुम-निवासकुड्यान्तरासनोज्झनतः। स्त्रीरम्याङ्गनिरीक्षण-निजाङ्गसस्कारपरिहारात् // 23 // स्निग्धाऽत्यशनत्यागात्-सरागयोषित्कथाविवर्जनतः / पूर्वरतास्मरणेन--ब्रह्म सदा भावयेद्धीमान् // 24 // स्पर्श रसे च गन्धे, शब्दे रूपे शुभाशुभ सततम् / रागद्वेषत्यागो, हि भावनाः पञ्चसममे स्युः / / 25 / / एवं व्रतानि पञ्चा-पि पञ्चभिः पञ्चभिः सुवास्य भृशम् / सद्भावनाभिरगम-नसुमन्तः शिवपदमनन्ताः / / 26| गृहमेधिनां तु धर्मे, निशम्य सम्यक् सुसाधुगुरुपार्श्वे / ज्ञात्वा तथा गृहीत्वा, व्रतानि परिपालनीयानि // 27|| आयतनसेवनाद्य, शीलं परिशीलनीयमनवरतम्। सद्भिः, समर्जनीयः, स्वाध्यप्रभृतिविभवभरः // 28| व्यवहारशुद्धिरनिशं, भव्यैरव्याजभावनैः कार्या / गुरवश्चरणविहंगम-तरवः शुश्रूषणीयाश्च // 26 // भाव्यं प्रवचनकौशल-सुपेशलैर्गलितसकलपापमलैः। स्त्रीणां वश्योऽवश्यं, नात्माः कार्यः कदाचिदपि // 30 // सुज्ञानशृङ्खलाभि-हृषीककपयः समन्ततो रोध्याः। गृद्धिर्नचार्थसार्थे, क्लेशायासाकरे कार्या ||31|| निर्वेदः संसारे, दुःखागारे सदा विधातव्यः / विषयाः कुनृपाधिष्ठित-विषया इव दूरतस्त्याज्याः // 32 // तीव्रारम्भा दम्भाः इव निर्दम्भैः कदापि नहि सेव्याः / सकलक्लेशनिवास, न गहदासे रतिः कार्या / / 33 / / धार्थ निरतीचार, सुदर्शनं स्थगितदुर्गतिद्वारम्। मोहनृपविजयभेरौ, न लोकहेरो मनो धेयम् // 34 // शुद्धागमविशदविधिः, समस्तकल्याणशवाधः सेव्यः / दानादिकश्चतुर्दा, धर्मः शिवशर्मकृत् कार्यः // 35 / / न्याय्ये पथि प्रवृत्त-विमुग्धहसितेऽवधीरणा धेया / हेयौ रागद्वेषौ, भवभाविषु सकलभावेषु // 36|| धर्माधर्मविचार-श्चिन्त्यो माध्यस्थ्यसुस्थचेतोभिः / स्वजनधनादिषु निविडः, प्रतिबन्धो नो विधातव्यः // 37 / / भोगोपभोगतृष्णा, कृष्णाहिविनिग्रहे प्रयतितव्यम् / सततं यतिधर्मधुरो-द्धरणोद्धरकन्धरैर्भाव्यम् // 38|| एवं श्रमणोपासक-धर्म विधिना विधाय विमलमनाः। सुचरित्रमाप्य लभते, भवाष्टकस्यान्तरपवर्गम् // 36 // .इत्याकर्ण्य श्रीच-न्द्रनरपतिर्भुवनभानुगुरुमूले। श्रीप्रभसुतादिसहितो, जगृहे गृहमेधिनां धर्मम् // 40 // अथ नत्वा गुरुचरणौ, निजधाम जगाम वसुमतीनाथः / विजहार हारनिर्मल-गुणोचयः सूरिरन्यत्र // 41 / / चतुर्भिः कलापकम्अपरेधुः श्रीचन्द्र-क्षितीशितुः सविनयं तनूजाभ्याम् / संबाह्यमानचरण-द्वयस्य सुकुमारकरकमलम् / / 4 / / मौलिमणिरुचिररोची, रचितसदःसदनभूरिहरिचापैः / भक्त्या परः सहस्र-रवनिधवैः सेव्यमानस्य / / 43 // राज्यभरभवनधरण-स्तम्भैः सद्बुद्धिभिर्विगतदम्भैः / शतशः सचिववरिष्ठ-रलंकृतासन्नदेशस्य / / 44|| बहसमसमरसंप-ल्लम्पटभटकोटिभिः परिवृतस्य। करकलितकनकदण्डो, विज्ञपयामास वेत्रीति // 45 // देव ! दिदृक्षुरि-गमल्लनामा नटाग्रणी रुद्धः / संक्षेपनिबद्धसन-त्कुमारनाट्यप्रबन्धोऽस्ति / / 46|| लघु मुश्चेत्युक्ते सति, महीभुजा वेत्रिणा स आनायि / कृत्वा त्रिपात्रकिंकर-मित्याशिषमथ नृपस्यादात् / / 47|| तद्यथाषट्खण्डामवर्नि निधीन्नव चतुःषष्टिं सहस्राणि च, स्त्रीणां क्षोणिभुजां तदर्द्धमपरं द्विःसप्त रत्नानि च / यस्त्यक्त्वा तृणवद्भवार्तिविधुरो जैनं व्रतं शिश्रिये, / राजर्षिः स सनत्कुमार इह ते भूपाल ! भूयाच्छ्रिये // 48|| अथ नाटकावलोकन-कातुकरसविवशमानसं सकलम्। निजतनयप्रभृतिजनं, नृपतिर्विस्पष्टमैक्षिष्ट / / 46|| तस्यानुवृत्तिवशतः, सविलासामुज्ज्वलां ततो दृष्टिम् / तदभिनयकृते स कृती, नटनेतरि पातयाञ्चक्रे ||50|| बुद्धवाऽथो नृपहृदयं, हृदयंगमया गिराऽगृणात् सोऽपि / भो भो पार्षद्यजनाः!, श्रीचन्द्रनरेश्वरप्रमुखाः ||51 / / क्षणमेकमेकतानी-भूयः शृणुत तुर्यचक्रिणश्चरितम्। इति जल्पन्नट उच्चै- स्तदभिनयं कर्तुमारभे // 52 // तथाहिश्रीहस्तिनापुरपतेः, सनत्कुमारस्य नृपतितिलकस्य / षट्खण्डभरतभर्तुः, प्राज्यं साम्राज्यमनुभवतः // 53 / / अप्रतिमरूपलक्ष्मी-विलोकनोत्पन्नविस्मयोत्कर्षः / मध्ये सभं निलिम्पान, सुरपतिरिति निगदति स्म मुदा // 54 // भो भो अमराः ! पश्यत, सनत्कुमारस्य सार्वभौमस्य / पूर्वार्जितशुभनिर्माण कर्मनिर्मितलसन्मूर्तेः / / 55 / / सा काऽपि रूपलेखा, वरेण्यलावण्यकान्तिपरिकलिता। सुर सद्मजन्तिनामपि, या प्रायो नैव सभवति // 56|| अश्रद्दधताविति सुर-पतेर्वचो विजयवैजयन्ताख्यौ। क्षिप्र वसुंधरायां, द्वावमृतभुजावदातरताम् / / 57 / / अत्रान्तर च सर्वे-ऽपि विस्मयस्मेरलोचना लोकाः। किमितो भवितेत्यवहित-चित्ता आकर्णयामासुः / / 58||