________________ सियणाम 855 - अभिधानराजेन्द्रः - भाग 7 सियवाय सियणाम-न०(सितनामन्) नामकर्मभेदे, यदुदयाजन्तुशरीरं सितंश्वेतं शङ्खादिवद्भवति / कर्म०१ कर्म०। सियवत्थ-न०(सितवस्त्र) शुक्लवाससि, पञ्चा०२ विव०। सियवाय-पुं०(स्थाद्वाद) स्यादित्यव्ययमनेकान्तद्योतके ततः स्याद्वादः / अनेकान्तवादे, नित्यानित्याधनेकधर्मशबलैकव-स्त्वभ्युपगमे, स्या० / उत्त० / "स्यादस्तीत्यादिको वादः, स्याद्वाद इति गीयते / नयौ न च विमुच्याय, द्रव्यपर्यायवादिनौ // 3 // अतश्चैतत् द्वयोपेतं, स्वमतं समुदाहृतम् / सञ्जाततत्त्वसंविद्भिः स्याद्वादः परमेश्वरैः / / 5 / / " उत्त० 1 अ० / जिनागमे, द्रव्या०७ अध्या० / अनु०। (अत्र यद्वक्तव्यं तद् 'अणेगंतवाय' शब्दे प्रथमभागे 423 पृष्ठे उक्तम्।) यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेणाव-धारणपूर्वकं वस्तु परिच्छेतुमभिप्रेति स नयः, वस्त्वेकदेश-परिग्राहकत्वान्नय इत्युच्यते, स च नियमान्मिथ्यादृष्टिरेव अयथावस्थितार्थ-वस्तुपरिग्राहकत्वात्, अत एवोक्तमन्यत्र "सव्वे नया मिच्छावाइणो'' इति, यत एव च नयवादो मिथ्यावादस्तत एव च जिनप्रवचनतत्त्ववेदिनो मिथ्यावादित्त्वपरिजिहीर्षया सर्वमपि स्यात्कारपुरस्सरं भाषन्ते, नतु जातुचिदपि स्यात्कारविरहितम्, यद्यपि च लोकव्यवहारपथमवतीर्णा न सर्वदा साक्षात्स्यात्पदं प्रयुञ्जते तथापि तत्राप्रयुक्तेऽपि सामर्थ्यात्स्याच्छब्दो द्रष्टव्यः प्रयोजकस्य कुशलत्वात्, उक्तं च-"अप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽर्थात् प्रतीयते / विधौ निषेधेऽन्यत्रापि, कुशलश्वेत्प्रयोजकः / / 1 / / '' अत्र अन्यत्रापि इति अनुवादातिदेशादिवाक्येषु / ननु यदि सर्वत्र स्यात्पदप्रयोगानुसरणं तर्हि मूलत एवापगमादवधारणविधिः परस्परमेतयोर्विरोधात्, तथा हि-अवधारणमन्यनिषेधपरं स्यात्पदप्रयोगस्तु अन्यसंग्रहणशील इति, तदयुक्तं सम्यक् वस्तुतत्त्वापरिज्ञानात् / स्यात्पदप्रयोगो हि विवक्षितवस्त्वनुयायी धर्मान्तरसंग्रहणशीलः, अवधारणविधिस्तु तत्तदा शङ्कितान्ययोगव्यवच्छेदादिफलः, तथाहि- ज्ञानदर्शनवीर्यसुखोपेतः किं जीवो भवति ? किं वा नेत्याशङ्कायां प्रयुज्यते-स्याज्जीव एव / अत्र जीवशब्देन प्राणावधारणनिबन्धनं जीवशब्दवाच्यत्वमभिधीयते, एवकारेण यदा शङ्कितं परेणाजीवशब्दवाच्यत्वं तस्य निषेधः, स्यात्पदप्रयोगात्तु यं ज्ञानदर्शनसुखादिरूपा असाधारणा ये त्वमूर्त-त्वासंख्यातप्रदेशसूक्ष्मत्वलक्षणा धर्माधर्माकाशस्तिकायपुद्गलैः साधारणाः येऽपि च सत्त्वप्रमेयत्वधर्मित्वगुणित्वाऽऽदयः सर्वे पदार्थः साधारणास्ते सर्वेऽपि प्रतीयन्ते / यदा तु ज्ञान दर्शनादिलक्षणो जीवः किं वाऽन्यलक्षण इत्याशङ्का तदैव-मधारणविधिः स्यात् ज्ञानादिलक्षण एव जीवः अत्र जीवशब्देन जीवशब्दवाच्यतामात्रं प्रतीयते, ज्ञानादिलक्षण एवेत्यन्यलक्षणव्युदासः / स्यात्पदप्रयोगात्तु साधारणाऽसाधारणधर्मपरिग्रहः / यदा तु जगति जीवोऽस्ति, किं वा नेत्यसम्भवाशङ्का तदैवमवधारण स्यादस्त्येव जीवः, अत्रापि जीवशब्दप्रयोगाजीवशब्दवाच्यताधिगतिः स्यात्पदप्रायोगाद् साधारणाऽसाधारणधर्मपरिग्रहः / अस्त्येवेत्यवधारणादसम्भवाशङ्काव्यवच्छेदः, एवमन्यत्रापि साक्षागम्यमानतया स्यात्पदप्रयोगपुरः सरं यथायोगमवधारणविधिः सम्यक् प्रवचनार्थ जानानेन प्रयोक्तव्यः / अवधारणाभावे तु जीवाजीवादिवस्तुतत्वव्यवस्थाविलोपप्रसङ्गः, तथाहि-यद्यन्यव्यवच्छेदेन ज्ञानदर्शनोपयोगलक्षणो जीव एवेति नावधार्यते, तर्हि अजीवोऽपि तल्लक्षणः स्यादिति जीवाजीवव्यवस्थालोपः / तथा यदि ज्ञानदर्शनोपयोगलक्षण एव जीव इत्यन्ययोगव्यवच्छेदो नाभ्युपगम्यते ततोऽन्यत् किमप्यजीवानुगतमजीवसाधारणं वा तथा लक्षणमाशङ्कयेत तथापि जीवेतरविभागपरिज्ञानाभावः, ततो यथा सम्यग्वादित्वमिच्छता सर्वत्र स्यात्पदप्रयोगः साक्षात् गम्योऽनुमीयते, तथा यथायोगमवधारणविधिरपि, अन्यथा यथावस्थितवस्तुतत्त्वप्रर्तिपत्त्यनुपपत्तेः नचावधारणविधिरपि सिद्धान्तेनानुमत इति वक्तव्यं तत्र तत्र प्रदेशेऽनेक-शोऽवधारणविधिदर्शनात् / तथा हि- "किमयं भंते ! कालो त्ति पवुच्चइ गोयमा ! जीवा चेव अजीवा चेव' स्थानाङ्गऽप्युक्तम्"जं इत्थं च णं लोए तं सव्वं दुप्पडोयारं, तं जहा-जीवा चेव, अजीवा चेव तहा जह चेव मोक्खफला आणा आराहिया जिणिंदाणमि" त्यादि या चावधारणी भाषा प्रवचने निषिध्यते सा क्वचित् तथारूपवस्तुतत्त्वनिर्णयाभावात् कचिदेकान्त-प्रतिपादिका वा न तु सम्यक यथावस्थितवस्तुतत्त्वनिर्णये स्यात्पदप्रयोगावस्थाया-मिति / दैगम्बरी त्वियं प्रमाणनयभाषा सम्पूर्णवस्तु कथनं प्रमाणवाक्यं यथा--स्याज्जीवः स्याद्धर्मास्तिकाय इत्यादि। वस्त्वेकदेशकथनं नयवादः, तत्र यो नाम नयो नयान्त रसापेक्षः स नये इति वा सुनय इति वा प्रोच्यते (आ० म०) नयचिन्तायायपि च ते दिगम्बराः स्यात्पदप्रयोगमिच्छन्ति / तथा चाकलङ्क एव प्राह-नयोऽपि तथैव स्मयगेकान्तविषयः स्यादिति / अत्र टीकाकारेण व्याख्या कृता-नयोऽपि नयप्रतिपादकमपि वाक्यं, न केवलं प्रमाणवाक्य-मित्यपिशब्दार्थः, तथैव- स्यात्पदप्रयोगप्रकारेणैव सम्यगेकान्तविषयः स्यात्, यथा-स्यादस्त्येव जीव इति, स्यात्पदप्रयोगाभावेतु मिथ्यैकान्तगोचरतया दुर्नय एव स्यादिति, तदेतदयुक्तम्, प्रमाणनयविभागाभावप्रसक्तेः, तथाहि-स्याजीव एवेति किल प्रमाणवाक्यं, स्यादस्त्येव जीव इति नयवाक्यम् / एतच द्वयमपि लघीयस्तयाऽलङ्कारे साक्षादकलङ्केनेदमुदाहृतम् अत्र चोभयत्रापि विशेषः, तथाहि-स्यात् जीव एवेत्यत्र जीवशब्देन प्राणधारणनिबन्धना जीवशब्दवाच्यता प्रतिपत्तिः, अस्तीत्यनेनाद्भूताकारशब्द-प्रयोगादजीवशब्दवाच्यताप्रतिषेधः, स्याच्छब्दप्रयोगतः असाधारणसाधारणधर्माक्षेपः / स्यादस्त्येव जीव इत्यत्र जीवशब्देन जीवशब्दवाच्यताप्रतिपत्तिरस्तीत्येननोद्भूत विवक्षास्तित्वावगतिः, एवकारप्रयोगात्तु यदाशङ्कितं सकलेऽपि जगति जीवस्य नास्तित्वं तद्व्यवच्छदः, स्यात्पदप्रयोगादसाधारणसाधारणधर्मप्रतिपत्तिरित्युभयत्राप्यविशेष एव / तथा-च -सिद्धव्याख्याता न्यायविचारविवृत्तौ-- 'स्यादस्त्येव जीव' इति प्रमाणवाक्यमुपन्यस्तवान्, तथा च तद्तो ग्रन्थः "यदा तु प्रमाणव्यापारमविकलंपरामृश्य प्रतिपादयितुमस्तिपदेन प्रयत्यतेतदा अङ्गीकृतगुणप्रधानमावाशेषधर्मसूचककथञ्चित्पर्यायं स्याच्छब्दविभूषितया साधार.. णया च वाचा स्यादस्त्येव जीव इत्यादिकया, अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसंभवस्यवस्तुनःसन्दर्शकत्वा