________________ सिद्धि 851 - अभिधानराजेन्द्रः - भाग 7 सिद्धि वति, मनःस्थैर्यसिद्धेः / तदुक्तम्-"कूर्मनाड्या स्थैर्यमिति" (331) / मूर्घज्योतिर्गम- गृहाभ्यन्तरस्य मणेः प्रसरन्ती प्रमेव कुम्भिकादौ प्रदेशे, हृदयस्थ एव सात्त्विकः प्रकाशो ब्रह्मरन्धे संपिण्डितत्वं- भजन तत्र संयमाच्च सिद्धानां दर्शन प्रकीर्तितम्। द्यावापृथिव्योरन्तरालवर्तिनो ये दिव्य-पुरुषास्तानेतद्वान् पश्यति, तैश्वायं संभाष्यत इति भावः। तदुक्तम्-"मूर्धज्योतिषि सिद्धदर्शनम्'' (3-32) | प्रातिभात सर्वतः संवि-चेतसो हृदये तथा। स्वार्थे संयमतः पुंसि, मिन्ने भोगात्परार्थकात् ||10|| प्रातिभादिति-निमित्तानपेक्षं मनोमात्रजन्यम् अविसंवादक झगित्युत्पद्यमानं ज्ञानं प्रतिभा / तत्र संयमे क्रियमाणे यदुत्पद्यते ज्ञानं विवेकख्यातेः पूवभावि तारकमुदेष्यति, सवितरीव पूर्वप्रभा, ततः सर्वतः संविद्भवति। संयमान्तरानपेक्षः सर्व जानातीत्यर्थः / “प्रातिभावा सर्वम्" (3-33) इत्यक्तेः / तथा हृदये- शरीरप्रदेशविशेषेऽधोमुखस्वल्पपुण्डरीकाकारे संयमात् चेत् सः सेवित्-स्वपरचित्तगमतवासनारागादिज्ञानं भवति / तदुक्तम्- "हृदये चित्तसंवित्" (3-34) / परार्थकात् सत्त्वस्य स्वार्थनैरपेक्ष्येण स्वभिन्नपुरुषार्थकाद्भोगात् सत्त्वपुरुषाभेदाध्यवसायलक्षणात सत्त्वस्यैव सुखःदुखकर्तृत्वाभिमानाद्विन्ने स्वार्थे स्वरूपमात्रालम्बने परित्यक्ताहंकारे सत्त्व विच्छायासंक्रान्तौ पुंसिसंविद्भवति / एवंभूतं स्वालम्बनज्ञानं सत्त्वनिष्ठं पुरुषो जानाति, न पुनः पुरुषा ज्ञाता ज्ञानस्य विषयभावमापद्यते, ज्ञेयत्वापत्तेः / ज्ञातृज्ञेययोश्चात्यन्तविरोधादिति भावः / तदुक्तम्- ''सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थः (र्थात्) स्वार्थसंयमात् पुरुषज्ञानमिति।" (3-35)10 / (द्वा०) समानस्य जयाद्धामा-दानस्यावाद्यसंगता। दिव्यं श्रोत्रं पुनः श्रोत्र-व्योम्रोः संबन्धसंयमात् ||13|| समानस्येति-समानस्याग्निमावेष्ट्य व्यवस्थितस्य सामानाख्यस्य वायोर्जयात् संयमेन वशीकारान्निरावरणस्याग्ने रूर्ध्वगत्वात् धामतेजः तरणिप्रतापवदवभासमानमाविर्भवति, येन योगी ज्वलन्निव प्रतिभाति / यदुक्तम्- "समानजयाज्जवलनः (म)" (3-40) / उदानस्य कृकाटिकादेशादाशिरो-वृत्तेर्जयादितरेषा वायूनां निरोधादूर्ध्वगतित्वसिद्धैः। (द्वा०) श्रोत्र शब्दग्राहकमाहंकारिकमिन्द्रियं व्योम्, शब्दतन्मात्रजमाकाशं, तयोः पुनः संबन्धसंयमाद्देशदेशिभावसंबन्धसंयमाद्दिव्यं युगपत्सूक्ष्मव्यवहितविप्रकृष्टशब्दग्रहणसमर्थं श्रोत्रं भवति। तदुक्तम्-"श्रोत्राकाशयोः संबन्धसंयमादिव्यं श्रोत्रम्" (3-41) // 13 // लघुतूलसमापत्त्या, कायव्वोम्रोस्ततोऽम्बरे / गतिर्महाविदेहातः, प्रकाशावरणक्षयः॥१४।। लध्विति कायः-पाञ्चभौतिक शरीरं, व्योम च प्रागुक्तं, तयोः / ततोऽवकाशदानसंबन्धसंयमात्। लघुनि तूले समापत्या तन्मयीभावलक्षणया प्राप्ताभ्यन्तरलघुभावतयाऽम्बरआकाशे गतिः स्यात् / उक्त संयमवान् प्रथमं यथारुचि जले संचरन क्रमेणोर्णनाभतन्तुजालेन संचरमाण आदित्यरश्मिभिश्च विहरन् यथेष्टमाकाशे गच्छतीत्यर्थः / तदुक्तम्- कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेरा (श्वा) काशगमनम्' (3-42) / (द्वा०) (पूर्वार्धव्याख्या 'महाविदेहा' शब्दे षष्टभागे गता।) स्थूलादिसंयमाद्भूत-जयोऽस्मादणिमादिकम् / कायसंपच्च तद्धर्मा-नभिघातश्च जायते // 15 // स्थूलादीति-स्थूलादीनि स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि पञ्चानां भूतानामवस्थाविशेषरूपाणि / तत्र भूतानां परिदृश्यमानं विशिष्टाकारवत्त्वं स्थूल रूपं-स्वरूप च पृथिव्यादीनां कार्कश्यस्नेहोष्णताप्रेरणावकाशदानलक्षणं सूक्ष्म च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि। अन्यया गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रवोपलभ्यमानाः / अर्थवत्त्वं च तेष्वेव गुणेषु भोगापवर्गसंपादनशक्तिरूपम्। तेषु क्रमेण प्रत्यवस्थं संयमाद्भूतजयो भवति / कृतैतत्संयमस्य संकल्पानुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्तीत्यर्थः / तदुक्तम्- "स्थूलस्वरूपसूक्ष्मान्वयार्थ-वत्त्वसंयमादूतजयः" इति (3-44) अस्माद्भूतजयात् अणिमादिकं भवति ! अणिमा, गरिमा, लघिमा, महिमा, प्राकाम्यम् 'ईशत्वं, यशित्वं, यत्रकामावसायित्वं चेत्यणिमादिकम् / तत्राणिमापरमाणुरूपतापत्तिः, गरिमा- वज्र-वद्गुरुत्वप्राप्तिः लघिमा-तूलपिण्डवल्लघुत्वप्राप्तिः, महिमा महत्त्वप्राप्तिः अड्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता। प्राकाम्यम्इच्छानभिघातः शरीरान्तः करणयोः। ईशत्वम्-सर्वत्र प्रभविष्णु-ता। वशित्वम्-यतः सर्वाण्येव भूतानि वचनं नातिक्रामन्ति / यत्रकामावसायित्वम्- स्वाभिलषितस्य समाप्तिपर्यन्तनयनम् / कायसंपच उत्तमरूपादिलक्षणा / "रूपलावण्यबलवज संहननत्वानि कायसंपत्' (3-46) इत्युक्तेः / तद्धर्मानभिधातश्च तस्य कायस्य धर्मा रूपादयस्तेषामभिधातो-नाशस्तदभावश्च जायते न ह्यस्य रूपमग्निर्दहति, न वा आपः क्लेदयन्ति, न वा वायुः शोषपतीति / तदिदमुक्तम्"ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धनिभिधातश्चेति" (3-45) ||15|| (द्वा०) मनोजवो विकरण-भावश्च प्रकृतेर्जयः / / 16+ll तत इन्द्रियजयान्मनोजवः- शरीरस्य मनोवदनुत्तमगति-लाभः / विकरणभावश्च कायनरपेक्ष्येणेन्द्रियाणां वृत्तिलाभः प्रकृतेः-प्रधानस्य जयः सर्ववशित्वलक्षणो भवति। तदुक्तम्- "ततो मनोजवित्वं विकरणभावः प्रधानजयश्च" (348) // 16 // स्थितस्य सत्त्वपुरुषा-न्यताख्यातौ च केवलम् / सार्वइयं सर्वभावाना-मधिष्ठातृत्वमेव च // 17 // स्थितस्येति- केवलं सत्त्वपुरुषयोरन्यताख्यातौ गुणकर्तृत्वाभिमानशिथिलीभावलक्षणायां शुद्धसात्त्विकपरिणामरूपायां स्थितस्य सार्वजयं सर्वेषां शान्तोदिताव्य-पदेश्यधर्मत्वेन स्थितानां यथावद्विवेकजं ज्ञानलक्षणं सर्वेषां भावानां गुणपरिणामानामधिष्ठातृत्वमेव च स्वामिवदाक्रमणलक्षणं भवति। तदुक्तम्- ''सत्त्वपुरुषान्यतः ख्यातिमात्रस्य सर्व-भावाधष्ठातृत्वं सर्वज्ञत्वं च'' (3-46) ||17|| (द्वा०) स्मृता सिद्धिर्विशोकेयं, तद्वैराग्याच योगिनः / दोषबीजक्षये नूनं, कैवल्यमुपदर्शितम् // 18||