________________ सिद्धि ८५०-अभिधानराजेन्द्रः - भाग 7 सिद्धि "केइ तेणेव भवेन निव्वुया सव्वकम्मओ मुक्का केई तइयभवेणं सिज्झिस्संति / " भ०७ श०६ उ०। अट्ठपयारकम्मक्खएण सिद्ध सज्जमेते संति सिद्धा सिय सज्जायमेसमिति वा सिद्धा / सिद्धिनिट्ठिए पहीणे सयलपवयणवायकयं वमेतेसिमिति वा सिद्धा। महा०३ अ०। शुद्धतत्त्वसाधने, “एवं परमत्थसाहगं रूवं पुण होइ सिद्धिचिय" इत्युक्तायां, (अष्ट० 27 अष्ट01) क्रियासिद्धौ, सूत्र०१ श्रु०१ अ० 2 उ०। निष्पत्ती, द्वा० 21 द्वा०। (सिद्धिलक्षणम् 'धम्म' शब्दे चतुर्थभागे 2670 पृष्ठे गतम्।) सिद्धिशब्दः सम्बन्धवाचकः, तथा च लोकेऽपि सिद्धिर्भवतीत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयते। दश० 1 अ०। सिद्धिप्राप्त्युपायमाहअतीतानागतज्ञानं, परिणामेषु संयमात् / शब्दार्थधीविभागे च, सर्वभूतरुतस्य धीः // 5 // संयमो नाम धारणाध्यानसमाधिनयमकेविषयम्। यदाह- "त्रयमेकत्र संयमः" इति (3-4) / एतदभ्यासात् खलु हेयज्ञेयादिप्रज्ञाप्रसर इति पूर्वभूमिषु ज्ञात्वोत्तरभूमिष्वयं विनियोज्यः / तदाह- "तज्जयात्प्रज्ञालोकः (3-5) तस्य भूमिषु विनयोग इति' (3-6) / ततः परिणामेषु धर्मलक्षणावस्थारूपेषु संयमाञ्चितस्य सर्वार्थग्रहण-सामर्थ्यप्रतिबन्धकविक्षेपपरिहारात् / अतीतानागतज्ञानमतिक्रान्तानुत्पन्नार्थपरिछेदनं योगिनो भवति / तदुक्तं -- "परिणामत्रय-संयमादतीतानागतज्ञानमिति' (3-16) शब्दः श्रोत्रेन्द्रियग्राह्य-नियतक्रमवर्णात्मा क्रमरहितः स्फोटात्मा ध्वनिसं स्कृतबुद्धिग्राह्यो वा, अर्थो जातिगुणक्रियादिः, धीर्विषयाकारा बुद्धिवृत्तिः.. एता हि गौरिति शब्दो गौरित्यर्थो गौरिति च धीरित्यभेदेनैवाध्यवसीयन्ते / कोऽयं शब्द इत्यादिषु प्रश्नेषु गौरयमित्येकरूपस्यैवोत्तरस्य प्रदानात्। तस्य चैकरूपप्रतिपत्तिनिमित्तकत्वात् / तत एतासां विभागे चेदं शब्दस्य तत्त्वं भद्वाचकत्वं, नाम, इदं चार्थस्य यद्वाच्यत्वं, इदं च धियो यत्प्रकाशत्वमित्येवलक्षणे / संयभात् सर्वेषां भूतानां मृगपशुपक्षिसरीसृपादीनां रुतस्य शब्दस्य धीर्भवति / अनेनैवाभिप्रायोण अनेन प्राणिनाऽयं शब्दः समुच्चरित इति / तदुक्तं- "शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्र प्रति (प्रवि) भागसंयमात्सर्वभूतरुतज्ञानमिति' (317) / / 5 / / (कायरूपस्य संयमात् 64) कायः शरीरं तस्य रूपं-चक्षुह्यो गुणः तस्य नास्त्यस्मिन् काये रूपभिति संयभाद्रूपस्य चक्षुाह्यत्वरूपायाः शक्तेः स्तम्भे भावनावशात्प्रतिबन्धे सति तिरोधानं भवति / चक्षुषः प्रकाशरूपस्य सात्त्विकस्य धर्मस्य तद्ग्रहणव्यापाराभावात् / तथा सयमवान् योगी न केनचिद् दृश्यत इत्यर्थः / एवं शब्दोदितिरोधानप्रति ज्ञेयम् / तदुक्तं"कायरूपसंय-मात्तद्ग्राह्यशक्तिस्तम्भे चक्षुषः (क्षुःप्र) प्रकाशासं (प्र) | योगेऽन्तधानम्" (3-21) / एतेन शब्दाद्यन्तर्धानमुक्तमिति // 6 // | (परचित्ताभिज्ञानं 'परचित्तणाण' शब्दे पञ्चमभागे प्रतिपादितम्) (अन्तर्धानविषयता 'अंतद्धाण' शब्दे प्रथमभागे 63 पृष्ठे उक्ता / ) संयमात् कर्मभेदाना-मरिटेभ्योऽपरान्तधीः / मैत्र्यादिषु बलान्येषां, हस्त्यादीनां बलेषु च / / 7 / / एवमन्येऽपि / तेषां संयमादिदं शीघ्रविपाकमिदं च मन्दविपाकमित्याद्यवधातदायजनितादरिष्टभ्य अध्यात्मिकाधिमौतिकाधिदैविकभेदभिन्नेभ्यः कर्णपिधानाकालीनकोष्ट्य वायुघोषाश्रवणाकस्मिकविकृतपुरुषाशक्यदर्शनस्वर्गादिपदार्थदर्शनलक्षणेभ्योऽपरान्तस्य करणशरीरवियोगस्य धीर्नियतदेशकालतया निश्चयः सामान्यतः संशयाविलतद्धियोऽरिष्टेभ्यो योगिनामपि संभवादि ध्येयम् / तदुक्तं - "सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टभ्योवेति' (322) मैत्र्यादिषु मैत्रीप्रमोदकारुण्यमाध्यस्थ्येषु संयमादेषां मैत्र्यादीनां बलानि भवन्ति, मैत्र्यादयस्तथा प्रकर्ष गच्छन्ति यथा सर्वस्य मित्रत्वादिकं प्रतिपद्यते योगीत्यर्थः / तदुक्तं- 'मैत्र्यादिषु बलानि" (3-23) बलेषु च हस्त्यादिसंबन्धिषु संयमाद्धस्त्यादीनां बलान्याविर्भवन्ति सर्वसामर्थ्ययुक्तत्वात् नियतबलसंयमेन नियतबलप्रादुर्भावात् / एवं विषयवत्या ज्योतिष्मत्याश्च प्रवृत्तेः सात्त्विकप्रकाशप्रसरस्य विषयेषु संन्यासात् सूक्ष्मव्यवहितविप्रकृष्टार्थज्ञानमपिद्रष्टव्यं सान्तः करणेन्द्रियाणां प्रशाक्ततापेत्तः / तदुक्तं- "प्रवृत्त्यालोकसंन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानमिति" (3-25) 17 // सूर्ये च भुवनज्ञानं, ताराव्यूहे गतिर्विधौ / घुवे च तद्वतेनामि-चक्रे व्यूहस्स वर्मणः ||8|| सूर्ये चेति- सूर्ये च प्रकाशमये संयमाद्भवनानां सप्तानां लोकानां ज्ञानं भवति। तदुक्तं- "भुवनज्ञानं सूर्ये (2) संयमात्" (3-26) ताराव्यूहे ज्योतिषां विशिष्टसंनिवेशे संयमाद्विधौ चन्द्रे गतिज्ञानं भवति, सूर्याहततेजस्कतया ताराणां सूर्यसंयमात्तद्ज्ञानं न शक्नोति भवितुमिति पृथगयमुपायोऽभिहितः। तदुक्तं-- "चन्द्रे ताराव्यूहज्ञान" (3-27) / धुवे च निश्चले ज्योतिषां प्रधाने संयमात्तासां ताराणां गतेर्नियतदेशकालगमनक्रियाया गतिर्भवति, इयं तारा इयता कालेन अमुं राशिमिदं वा क्षेत्रं यास्यतीति / तदुक्तं - "ध्रुव तगतिज्ञानं" (3-28) / नाभिचक्रे शरीरमध्यवर्तिनि समग्राङ्गसन्निवेशमूलभूते संयमाद्वष्म॑णःकायस्स व्यूहस्स रसमलनाड्यादीनां स्थानस्य गतिर्भवति / तदुक्तं"नाभिचक्रे कायव्यूहज्ञानम्" (3-26) || (तच्च सरीर' शब्देऽस्मिन्नेव भागे गतम्।) (भुवनस्वरूपम् ‘भावणा' शब्दे पञ्चमभागे गतम्।) क्षुत्तृडव्ययः कण्ठकूपे, कूर्मनाड्यामचापलम् / मूर्धज्योतिषि सिद्धानां, दर्शनं च प्रकीर्तितम् // 1 क्षुदिति- कण्ठे-- गले कूप इव कूपो गर्ताकारः प्रदेशस्तत्र संयमात् क्षुतृषोय॑यो भवति / घाण्टकाश्रोतःप्लावनानृप्तिसिद्धेः। तदुक्तम्- "कण्ठकूपे क्षुत्पिपासानिवृत्तिः" (3-30) कूर्म नाड्यां कण्ठकूपस्याधस्ताद्वर्तमानायां संयभादचापलं भ