________________ सिद्धाइया 846 - अभिधानराजेन्द्रः - भाग 7 सिद्धि रद्वया च / प्रव० 27 द्वार / स्वनामख्यातायां देवतायाम, यदुद्देशेन तको विशेषः क्रियते / पञ्चा० 16 विव०।। सिद्धाबद्ध-न०(सिद्धाबद्ध) सिद्धश्रेणिकापरिकर्मभेदे, स०। सिद्धाययणकूड-न०(सिद्धायतनकूट) सिद्धानि-शाश्वतानि सिद्धानां वा शाश्वतानामाहत्प्रतिमानामायतनं-स्थानं सिद्धायतनं तदाधारभूतं कूटं सिद्धायतनकूटम् / भरतवैताढ्यप्रथमकूटे, जं०१ वक्ष० / क्षुल्लहिमवद्वर्षधरे पर्वतकूटे, जं० 4 वक्ष० / महाविदेहे माल्यवद्वक्षस्कारपर्वतस्य प्रथमकूटे, जं०४ वक्ष० / हिमवद्वर्षधरपर्वतस्य पूर्वस्यां दिशि कूटे, स्था० 2 ठा०३ उ० / चित्रकूटवक्षस्कारपर्वतस्य प्रथमकूटे, जं० 4 वक्ष० / गन्धमादनवक्षस्कारपर्वतस्य प्रथमकूटे, जं० 4 वक्ष० / महाविदेहे ब्रह्मकूटस्य वक्षस्कारपर्वतस्य प्रथमकूटे, जं०४ वक्ष०। (वर्णकः 'कूड' शब्दे तृतीयभागे 618 पृष्ठे गतः / ) सिद्धालय-पुं०(सिद्धालय) सिद्धावस्थिते क्षेत्रे, विशे०। सिद्धानामाश्रयत्वात्सिद्धालयः / ईषत्प्रारभारायां पृथिव्याम्, स्था० 5 ठा०३ उ० ! सिद्धिमार्गे, स० 155 सम० / पं० सं०। सिद्धालयमग्गणिग्गय-त्रि०(सिद्धालयमार्गनिर्गत) सिद्धालयमार्गा निर्गताः / ज्ञानादेनितिषु, स० 145 सम०। सिद्धावास-पुं०(सिद्धावास) मोक्षवासनिबन्धनत्वादहिंसायाम्, प्रश्न० १संब०द्वार। सिद्धि-स्त्री०(सिद्धि) सिद्ध्यन्ति-कृतार्था भवन्ति यस्यां सा सिद्धिः / लोकाग्रे ईषत्प्राग्भारायां पृथिव्याम्, स्था० 10 ठा०३ उ० 1 दशा० / रा० / आ० म० / स० / भ० / पं० व० / संथा० / यथा परमाणोस्तथाविधेकत्वपरिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीषत्प्रारम्भाराभिधानं पृथिवीस्कन्धं प्ररूपयन्नाहएगा सिद्धी (सू०४६+) सिद्ध्यन्ति कृतार्थाभवन्ति यस्यां सा सिद्धिः, सा च यद्यपि लोकाग्रे, यत आह- 'इहं बुन्दि चइत्ता णं तत्थ गंतूण सिज्झइ' त्तितथापि तत्प्रत्यासत्येपत्प्राग्भाराऽपि तथा व्यपदिश्यते / आह च'बारसहि जोयणेहिं सिद्धी सव्वट्ठसिद्धाउ' त्ति ! यदि च-लोकाग्रमेव सिद्धिः स्यात्तदा कथमेतदनन्तरमुक्तं 'निम्मलदगरयवन्ना, तुसारगोखीरहारसरिवन्ने' त्यादि, तत्स्वरूपवर्णनं घटते लोकाग्रस्थामूर्तत्वादिति, तस्मादीषत्प्राग्भारा सिद्धिरिहोच्यते। सा चैका द्रव्यार्थतया पञ्चचत्वारिंशद्योजनलक्षणप्रमाणस्कन्धस्यैकपरिणामत्वात्, पर्यायार्थतया त्वनन्ता / अथवा- कृतकृत्यत्वं लोकाग्रमणिमादिका वा सिद्धिः, एकत्वं च सामान्यत इति / स्था० 1 ठा० / जी० / भ० / अशेषकर्मक्षये, सूत्र० 2 श्रु० 1 अ० / संथा० / निवृत्तौ, स्था० 1 | ठा० / पञ्चमगतौ, आ० म०१ अ० / अशेषद्वन्द्वोपरमे, सूत्र० 1 श्रु० 1 अ०४ उ० } मोक्षे, सूत्र०२ श्रु०१ अ०। पं०व०। जी० / कृतार्थीभवने, कल्प०३ अधि०३ क्षण / कृतकृत्यतायाम, औ० / नि० / मोहनीयध्तयेणानिष्ठितार्थतायाम्, आ० चू०१ अ० / उत्कर्षविशेषे, द्वा० 15 द्वा०। सूत्र० / अशेषद्वन्द्वप्रच्युतौ, सूत्र०१ श्रु०१० 4 उ०। सेधनं सिद्धिः / हितार्थप्राप्तौ, आव०४ अ०। ज्ञा०। निष्पत्तौ, "सिद्धिः स्याद्वादात्" // 11 // 2 // है०। (सिद्धिप्ररूपणा 'अस्थिवाय' शब्दे प्रथमभागे 522 पृष्ठे गता।) "घोरं पंडिऊण पायच्छित्तं संविग्गो भासिओ घोरवीरतवं काउं असुभकम्मं खदेतो य सुक्कज्झाणो समारुहिय केवलं पप्प सिज्झइ" महा०। केवली णं भंते ! मणूसे तीतमणंतं सासयं समयं० जाव अंतं करेंसु? हंता सिम्झिसु० जाव अंतं करेंसु, एते तिन्नि आलावगा भाणियव्वा छउमत्थस्स जहा नवरं सिम्झिसु सिझंति सिज्झिस्संति / से पूर्ण भंते ! तीतमणंतं सासयं समयं पड़प्पन्नं वा सासयं समयं अणागयमणंतं वा सासयं समयं जे के अंतकरावा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसुवा करेंति वा करिस्संति वा सवे ते उप्पन्ननाणदंसणधरा अरहा जिणे केवली भवित्ता तओ पच्छा सिज्झंति० जाव अंतं करेस्संतिवा? हंता गोयमा! तीतमणतं सासयं समयं० जाव अन्तं करेस्संति वा (सू०४२+)| म०१० उ०। एएण सिद्धी पजवसाणफला पण्णता ? भ०१७ श०३ उ०। अष्टगुणैश्वर्यसिद्धिः-अणिमा लघिमा गरिमा प्राकाम्यमीशित्वं वशित्वं प्रतिघातित्वं यत्र कामावसायित्वमिति / सूत्र०१ श्रु०१ अ०३ उ०। पं० सू० / स्था० / प्रतिष्ठायाम्, विशे०। समाधिविघ्नाभ्युत्थान-सिद्धयः प्रातिभं ततः। श्रावणं वेदनादर्शा-स्वादवार्ताव वित्तयः // 11 // समाधीति-ततः स्वार्थसंयमाह्वयात्- पुरुष-संयमादभ्यस्यमानात् प्रातिभं पूर्वोक्तं ज्ञानं, यदनुभावात् सूक्ष्मार्थादिकमर्थ पश्यति / श्रावणं-श्रात्रेन्द्रियजं ज्ञानं, यस्मात्प्रकृष्टादिव्यं शब्दं जानाति / वेदनास्पर्शनेन्द्रियजं ज्ञानं, वेद्यतेऽनयेति कृत्वा, तान्त्रिक्या संज्ञया व्यवहियते, यत्प्रकर्षादिव्यस्पर्शविषयं ज्ञानमुत्पद्यते। आदर्शः- चक्षुरिन्द्रियजं ज्ञानम्, आसमन्ताद् दृश्यते- अनुभूयते रूपमनेनेति कृत्या, यत्प्रकर्षादिव्यरूपज्ञानमुत्पद्यते / आस्वादोरसनेन्द्रियजं ज्ञानम्, आस्वाद्यतेऽनेनेति कृत्वा, यत्प्रकर्षादिव्यरससंविदुपजायते। वार्तागन्धसंवित्तिः, वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते, वर्तमाने गन्धविषये प्रवर्तत इति कृत्वा, वृत्तौध्राणेन्द्रिये भवा वार्ता, यत्प्रकर्षादिव्यो गन्धोऽनुभूयते। एताश्च वित्तयोज्ञानानि भवन्ति / तदुक्तम्- "ततः प्रातिभश्रावणवेदनादर्शा (र्शना) स्वादवार्ता जायन्ते" (3-33) / एताश्च समाधेः प्रकर्ष गच्छतः सतो विघ्ना हर्षविस्मयादिकरणेन तच्छिथिलीकरणात् व्युत्थानेव्यवहारदशायां च समाध्युत्साहजननाद्विशिष्टफलदायकत्वाच्च सिद्धयः / यत्र उक्तम्-"तेसमाधावुपसर्गा व्युत्थाने सिद्धयः" (3-37) द्वा० 26 द्वा० /